________________
व्युत्पत्तिवादः । वाक्यजन्याप्रामाण्यशामानास्कन्दितबोधदशायां पुरुषो न राश इत्यादिवाक्यादपि शाब्दबोधापत्तेः स्वत्वाभावबुद्धौ खत्वसंसर्गकशानस्य विरोधित्वे मानाभावात् । वृत्त्यनियामकसंबन्धस्याभावप्रतियोगिताषच्छेदकत्वेऽपि राशः पुरुष इत्यादौ राजस्वत्वादेः प्रकारताभ्युपगमः समुचितः। अन्यथा तादृशसमभिव्याहारज्ञानघटितशाब्दसामन्त्रीकाले राजस्वत्वाभाववान्पुरुषः सुन्दर इत्याकारकवि
बुद्धावारोहासंभवात्समभिव्याहारनियमस्य तन्मूलत्वं वक्तुमशक्यं बुबोधयिषितप्रतिपत्तेः संसर्गतया स्वत्वादिभानेन निर्वाहस्य लाघवादभ्युपगमे षष्ट्या उपस्थापकतयावश्यकत्वाभावेन पदसाधुत्वमात्रार्थकलस्यैव वक्तव्यत्वादाकाहानिर्वाहकतयावश्यकलस्यास्यैव कथमाकाङ्कास्वमित्यस्यैव निरूप्यमाणत्वेन वक्तुमशक्यत्वात् , पदसाधुखार्थकत्वस्यच प्रथमाया अपि संभवात् , प्रकारतया सम्बन्धभानाभ्युपगमेन तन्निवाहखीकारे चावापोद्वापाभ्यामितरार्थविनियोगोर्वरिततया षष्ट्या उपस्थापकत्वे तद्भावाभावाभ्यामाकाडाविशेषनियमस्य सुग्राह्यतया भवति तन्मूलत्वं सुवचमित्येवमप्युपस्थितेस्तस्या भवत्यनन्यथासिद्धत्वमिति चेदुच्यते । एतद्युक्तिमूलकमेव हि प्रतियोग्यभावान्वयाविल्यादिनियममाश्रित्यानुपदमेवोक्तौचित्यं निराकरिष्यते इदानीं तु नसमभि. व्याहारवद्वाक्यस्य नवघटितवाक्याद्भिन्नत्वेन तत्र खत्वोपस्थितेरन्यथानुपपत्तिकवलीकृतगौरवदोषत्वेन कुप्तत्वेन नअघटितवाक्यस्थले अन्यथानुपपत्तिविरहेण गौरवस्य दोषतया तस्याः कुप्तत्वाभावाद्भवत्येवान्यथासिद्धत्वम् । नच राजाद्युपस्थितावपि तुल्यं पुरुषगतैकवादिसंसर्गकोटौ राजस्वत्वादेरन्तर्भावेन संभवादिति वाच्यम् राजपदार्थस्य प्रकारतया भानाभ्युपगमापेक्षया संसर्गघटकतया भानाभ्युपगमएव प्रत्युताधिकपदार्थस्य विषयत्वग्रसङ्गेन राजाद्युपस्थितेलाघवेन कप्तवादित्यापाततो लाघवानु सन्धानमूलिकौचित्योक्तिरिति गृहाण । वस्तुत एवंलाधवस्य पुरस्कारे राजादिघटितस्य संसर्गत्वे सांसर्गिकविषयत्वस्याधिक्येऽपि राजायुपस्थितेः सर्वत्र कल्पनेन राजादिविषयत्वस्य तदवच्छेदकलकल्पनेनोपस्थितेः सामग्रीकोटौ विशेष्यविशेषणभावविनिगमनाविरहनिबन्धनप्रतिबन्धकवाधिक्यकल्पनेन चातिगौरवादाजाद्युपस्थितेरकुप्तलापत्त्याऽन्यभासिद्धत्वमेव स्यात्तत्र. चानुभवव्याकुलीभावप्रसङ्गेनोक्तलाघवस्याकिञ्चित्करत्वस्यैव वक्तव्यवं स्यात्, एवमाकाहानियममूलान्वेषणे सूत्रस्य कथा श्चित्तन्मूलखोक्तिसंभवेऽपि तत्परतायां कर्मलादिबोधानुकूलाकालानिर्वाहिका द्वितीयादिरित्यर्थेऽप्रामाणिकलक्षणाप्रसङ्गश्चेत्यलम् । यत्त लाधवस्यैवोपस्थितिसाम्येऽपि संसर्गतया भाननियामकलमुक्तग्रन्थालब्धं तत्र खत्वसंसर्गकबोधे लाघवज्ञानं कारणमुतनेति । तत्र कारणमिति न प्रथमः पक्षः संसर्गतामते खखानुपस्थिती लाघवज्ञानासत्त्वेपि शाब्दभतेरनुभवसिद्धतया तदनुपपत्तेः, नापि द्वितीयः अकारणस्य नियामकलासंभवादिति तु न शक्यम् लाघवज्ञान विरह विशिष्टषष्ठ्वादिजन्यस्खलायुपस्थितेः षष्ठ्यादिपदघटिताकाहाज्ञानाव्यवहितोत्तरस्वत्वादिसंसर्मकशाब्दबोधप्रतिबन्धकताकल्पनेन दोषाभावादिति तदसत् उक्तरीत्या सर्वसामजस्ये प्रतिबन्धकवे मानाभावात् लाघवज्ञान विरहकाले खत्वोपस्थितौ प्रकारतया भानापत्तेः नचेष्टापतितधासति तन्मतेऽपि स्वखप्रकारकबोधस्याङ्गीकृततया संसर्गतामतोक्तवक्ष्यमाणलाधवगौरवभावव्याकुलीभावप्रसङ्गादिति ।
मानाभावादिति । नच राज्ञःपुरुषइतिवाक्यजन्यबोधानन्तरं पुरुषोनराशइति वाक्यजबोधानुत्पादस्य प्रदर्शितगौरवग्रहसहकृतस्य प्रतिबन्धकताकल्पकमानस्य सत्त्वान्मानाभावादित्युक्तिरसंगतैवेति वाच्यम् स्वलप्रकारकबोधानुरोधेन खरूपसम्बन्धावच्छिन्न खलनिष्टप्रकारतानिश्चयेन प्रतिबन्धकलस्य कुप्ततया तदन्यप्रतिवन्धकताकल्पनागौरवेण महता प्रदर्शितगौरवस्यापाकृतदोषभावलेनोक्तानुत्पादस्योक्तबोधे खलप्रकारकखकल्पकत्वस्यैवोचितत्वेन प्रतिबन्धकरवे मानलाभावात् । नच स्वरूपसंबन्धातिरिक्तसंबन्धानवच्छिना या राजविषयतानिरूपितखखविषयता तनिरूपितपुरुषनिष्ठविश्येष्यताकनिश्चयत्वेन प्रतिव. न्धकलस्योक्तोभयविधयोधसाधारणस्य संभवेनोक्तानुत्पादस्य स्खखसंगर्गविषयकललाघवसहकृतस्य स्खलप्रकारकल कल्पनापरिपन्थिलमेवास्तीति वाच्य, खलांशे कालिकादिना राजप्रकारकबोधस्यापि प्रतिबन्धकलापत्तेः । नच निरूपितत्वसम्बन्धावच्छिन्नल निरूपितत्वसम्बन्धातिरिक्तसंबन्धानवच्छिन्नत्वंवा राजविषयतायां प्रवेशाहम् खलसंसर्गकबोधासङ्ग्राहकलात् । नच खखविषयतायां निरूपितत्वान्यसंसर्गवानिरूपितखमप्युपादातुमर्हे खलप्रकारकबुद्धौ स्वत्वविषयताया निरूपितखान्यवरूपनिष्टसंसगैतानिरूपितत्वात् , निरूपितवान्यखवत्स्वरूपान्यत्वस्य विशेषणत्वे खलांशे खरूपेण राजप्रकारकबोधसंग्रहापत्तेः, समानाधिकरणविषयताया अवच्छेद्यावच्छेदकभावपक्षेपि सिद्धान्तभूते राजविषयतानिरूपितायाः खलविशेष्यतायाः पुरुषनिष्ठविशेष्यत्वनिरूपितलाभावेन स्खलप्रकारकबोधसंग्रहासंभवात् , एवंरूपगुरुतरप्रतिबन्धकत्वकल्पनातःखलप्रकारकबकल्पनाया एवं लघीयस्वात् , अप्रामाण्यज्ञानस्योत्तेजकखानुरोधेन प्रतिबन्धकत्वभेदस्यैवावश्यकलायेति । वृत्त्यनियामकसंबन्धस्याभाव प्रतियोगितावच्छेदकत्वेपीति। अयमभिप्रायः यथा राज्ञः पुरुषो न तथा आकाशस्यकालः यथा दण्डाद्धटः तथा न गगने पारिमाण्डख्यादित्यादिवाक्यानां प्रामाणिकत्वेऽवश्यमभ्युपेयो वृत्त्यनियामकः प्रतियोगितावच्छेदकतयान्यथाप्रामाण्यासंभवातु तथाचसति निरूपितत्वसंबन्धावच्छिन्नप्रतियोगिताकाकाशाभाववत्स्वत्वाभाववान् कालः निरूपितत्वसंबन्धावच्छिन्नप्रतियोगिताकपारिमाण्डल्याभाववत्कार्यत्वाभाववद्गनमित्यादिबोधाभ्युपगमेन तत्सम्भवात् । खयमपि वक्ष्यति द्वितीयाव्युत्पत्तिवादे वृत्त्य- .