________________
गूढार्थतत्वालोकव्याख्यासहितः । दिसंबन्धेन तण्डुलचैत्रादौ पाकादेः स्वकर्मकत्वस्वकर्तृकत्वादिसंबन्धेन पाकायंशेवा तण्डुलचैत्रादे. रन्वयाबोधान्निपातातिरिक्तप्रातिपदिकार्थयोः क्रियाताशप्रातिपदिकार्थयोश्च भेदेन साक्षादन्वयबोधस्याव्युत्पन्नत्वात् । विभक्त्यर्थमन्तराकृत्य तयोरप्यन्वयबोधात्साक्षादिति निपातातिरिक्तत्वादिविशेषणाद, भूतले न घटः, घटो न पट, इत्यादौ घटादेनमाभावेन मुखं चन्द्र इवेत्यादौ मुखचन्द्रादीनामिवार्थसादृश्यादिना न कलशं भक्षयेदित्यादौ नैयायिकमते ननुपस्थाप्येन बलवदनिष्टाननुब. न्धित्यविशिष्टे साधनस्वादिरूपविध्यर्थाभावेन धात्वर्थभक्षणादेरनुयोगितया, गुरुमते तु विध्यर्था. पूर्वाशे विशेषणतयान्वितेन नशुपस्थाप्याभावेन धात्वर्थभक्षणादेः प्रतियोगितयान्वयेऽपि न क्षतिः। राजपुरुष इत्यादिसमासस्थले तु पुरुषादिपदार्थेन समं राजादिपदार्थस्य न भेदान्वयबोधः किन्तु - - - - - .. ... ... ... ... -- --------------
---------- --- ----- - - न द्वितीयादिप्रसक्तिरिति तन तण्डुलाः पचति वेत्राः पच्यते इत्यादिप्रयोगप्रसङ्गस्याप्यानुभविकत्वेन तस्य चासंभवादहवाद्यन्वयिनि तण्डुलादावेकखान्वयस्यासंभवात् कर्मकर्तृगतसंख्याभिधान स्यैव कर्माद्यभिधानरूपतया यशपोरेव प्राप्तरवेनोक्तप्रयोगासंभवस्य दुर्वारत्वात् स्वकर्मकवादिसंबन्धेन तण्डुलादेः पाकादावन्वयपक्षे तत्र संख्यान्वयस्य कथञ्चिदपि प्रसक्तरभावाद्वितीयांद्यापत्तेरपि दुरुद्धरत्वाच्च । नन्वाख्यातस्य कर्मकांद्यनुशिष्टस्य तत्तदर्थाविवक्षाया वक्तुमशक्यतया कर्तृवकर्मवादेस्तत उपस्थिती तत्रैव धालान्वयसंभवो न प्रातिपदिकार्थे एकपदोपात्तखप्रत्यासत्तेरननुग्रहप्रसङ्गात् । नच ये विभत्तयादीनां द्योतकलमभ्युपगच्छन्ति तेषां नाख्यातस्य कर्मवादिरर्थ इति नानुपपत्तिरितिवाच्यम् उक्तप्रयोगप्रसङ्गस्य विभक्तरर्थद्योतकलमलाभिप्रायकत्वस्य वकुमशक्यत्वात् उक्तनियमाभ्युपगम विनैवोक्तप्रयोगवारणस्य तन्मते वक्ष्यमाणवादित्यनुशयेनाह । स्वकर्मकत्व. स्वकर्तकत्वादिसंबन्धेनपाकायशेवेति । प्रातिपदिकार्थधालयोरन्योन्यविशेष्य विशेषणभावेनान्वयाभिप्रायेण तदुक्तिरिल्यपि कश्चित् नचात्र विनिगमनाविरहः तात्पर्यस्यैव विनिगमकलादिति ।
गुरुमत इति । कार्यात्माऽपूर्वो विध्यर्थः तत्र धात्वर्थस्य विषयतया फलकामस्य च नियोज्यतया प्रथममन्वयः पश्चादनुपपत्तिसहकृतशब्दरूपोपादानाद्यागादौ कार्यलस्येटसाधनखस्य च फलकामे कर्तृवाधिकारिलादेः प्रतीतिरिति प्रवर्तकज्ञानसंपत्तेस्तत्र प्रवर्तते निषेधस्थले च कलज्जभक्षणाभावादेः बिरोधिप्रयत्ननिर्वाह्यतया साध्यरूपे दुरितप्रतियोगिकलादपूर्वात्मनि दुरिताभावे जन्मत्वपर्यवसितेन विषयत्वेनान्वयः ततश्च कलाभक्षणाभावस्य दुरिताभावरूपेष्टसाधनत्वमुपादानप्रतीतं कलज. भक्षणस्यानिष्टसाधनलं विनानुपपद्यमानमित्यनुपपत्तिसहकृतशब्दात्कलाभक्षणेऽनिष्टसाधनत्वमवगम्य ततो निबर्तत इति गुरुमतनिगर्वः । भमते निवर्तनाविधिप्रत्ययस्यार्थः नयोद्योतकलमात्रमिति तन्नोक्तम्। धात्वर्थस्य प्रतियोग्यनुयोगितया निषेधान्वयं दर्शवितुं मतद्वयोपादानमित्यधिकोक्तिशङ्कानिरासः । ननु नामार्थयोः साक्षा देनानन्वयनियमस्य राज्ञः पुरुष इत्यादौ संबन्धाद्यर्थातुशिष्टषष्ठ्याद्युपस्थापितसंबन्धादिकमन्तराकृल्यान्वयेन निर्वाहेऽपि समासस्थले विभक्तरभावेन संबन्धादेस्तदर्थवाभावात्संबन्धिलक्षणायां समासविग्रहवाक्ययोस्समानाकारकबोधजनकलनियमभङ्गप्रसङ्गात् तत्पुरुषकर्मधारयसमासयोः परस्परविविक्त. रूपवासंभवाच संयन्धलक्षणैवाभ्युपगन्तव्या अभ्युपगता च चिन्तामणिकारादिमिरिति नामार्थस्यैव च तस्य भेदसंबन्धेन पुरुपादावन्वयादुक्तनियमे व्यभिचारः । नचोक्तनियमाभावे विभक्तरपि अत्तिकल्पनं व्यर्थ राजापुरुष इत्यादावपि भेदान्वयापत्तिधेति वाच्यं तत्साधकयुक्तीनामत्रैव वक्ष्यमाणत्वाद्विभक्तिद्योतकतामतवदाकालावैचित्र्यकल्पनयोक्तापत्तेरिणीयत्वाचेत्यत आह । राजपुरुषइत्यादिसमासस्थल इति। अयमभिप्रायः। अन्वयव्यतिरेकाभ्यां गृहीतस्य नियमस्यासमाधेयशंकयैव परित्याज्यलमन्यथा बैजात्यकल्पनया समाहितशङ्कस्य वहितृणमण्यादिकार्यकारणभावस्यापि परित्यागः स्यादिति वक्ष्यमाणयुक्त्या विभक्तीमां तत्तदर्थवाचकत्वेऽन्वयव्यतिरेकाभ्यां गृहीतस्य नियमस्य समासस्थले व्यभिचारशङ्कायाः संबन्धिलक्षणाकल्पनया समाधातुं शक्य. तया न परित्यागः । नच विग्रहसमासवाक्ययोः समानाकारकानुभवजनकलनियमभङ्गप्रसङ्गात् उक्तकल्पनैव न संभवतीति बाच्यम् तादृशनियमे मानाभावात, उक्तजनकखानुभवस्य सविवादत्वेनोक्तकल्पनापरिपन्थित्वाभावात् समान्यनियमस्य बहनीही व्यभिचारात्तदन्यत्त्वस्येव तत्पुरुषविशेषाद्यन्यत्वस्य प्रवेशेऽपि क्षत्यभावाच । विभक्तेर्वाचकत्वे संबन्धिलक्षणापक्षस्यैव प्रबलबमितरथा समासविग्रहवाक्ययोर्भेदसंबन्धेनान्वयबोधजनकत्वपक्षस्येति पक्षद्वयमेव यथामति परिगृह्य पराकान्तं सूरिभिः। नच तृतीयं संबन्धलक्षणापक्षम् चिन्तामण्यादीनामाकरत्वेन समीचीनासमीचीनानां पक्षाणां रत्नाकर इव रमारमानां सद्भावो न दुष्यति । अथ संबन्धिलक्षणायां खघटकपदार्थयोरभेदान्वयबोधकसमासत्वरूपकर्मधारयलस्य तत्पुरुषेऽतिव्याप्तिरुक्तकल्पनापरिपन्थिनी तदवस्थेतिचेत् विभक्तोतकलवादिनामेव तत्कर्मधारयलक्षणं तेषां कर्मधारयातिरिक्तसमासस्थले सर्वत्र भेदसंबन्धेनैवान्वयादतएव वक्ष्यति । भवन्मते कर्मधारय इति संबन्धिलक्षणापक्षे किं तल्लक्षणम् । समासघटकतत्तत्पदाव्यबहितोत्तरप्रसक्तधिभक्त्यदर्शन विधायकशास्त्रस्मारितविभक्तिमत्वघटकपदसजातीयपदघटितवाक्यात्मकविग्रहवाक्याद्यनाभेदान्व यबोधस्तत्र कर्मधारयो यत्र विभक्त्यर्थमन्तराकृत्य भेदान्वयबोधस्तत्र तत्पुरुषादिरिति लक्षणम् । कर्मधारयस्य हि समा