________________
व्युत्पत्तिवादः । - भेदान्वयबोधश्च प्रातिपदिकार्थधात्वर्थयोः प्रत्ययार्थेन कचिन्निपातार्थेन च सममेव जायते न स्वन्येन । सत्यपि पदार्थोपस्थितियोग्यताज्ञानादिरूपकारणकलापे राजा पुरुषः भूतलं घट इत्यादी पुरुषायंशे राजभूतलादेः सत्त्वाधेयतासंबन्धेन तण्डुलः पचति चैत्रः पच्यत इत्यादी कर्मत्वकर्तृत्वा
------... -- न्धेन शाब्दबुद्धिवावच्छिमव्यापकतया न कस्याश्चिदापत्तेः संभव इति वाच्यम् एवं सत्युद्देश्यांशेऽधिकावगाहिशाब्दबोधापसेर्दुवारत्वप्रसङ्गात् । समवायेन द्रव्यलविशिष्टत्वे सति कालिकेन घटत्वविशिष्टस्य 'विशेष्यले कालिकेन द्रव्यलवि शिष्टत्वे सति समवायेन घटवविशिष्टस्य प्रकारत्वे द्रव्यवघटलगतद्वित्ववृत्तिप्रकारताकविशेध्यतावच्छेदकतालावच्छिन्नपर्या. प्यनुयोगितावच्छेदकलस्य घटलद्रव्यलगतद्वित्वेऽपि सत्त्वेन तमोक्तद्विलान्यवृत्तिविषयतावच्छेदकताखावच्छिन्न पर्याप्यनुयोगितावच्छेदकत्वसंबन्धेन ज्ञानलावच्छिन्नस्यासत्वेनाव्यापकलप्रसङ्गाच्चेतिचेदुच्यते । निरबग्छिनघटत्वमात्रावच्छिन्नप्रकारतानिरूपित्तविशेष्यतावच्छेदकतासंबन्धेन शाब्दबोधं प्रति घटवान्यवृत्तिविषयतासंबन्धेन ज्ञानवावच्छिन्नस्य निरवच्छिनघटवनिठावच्छेदकतानिरूपितनीललावच्छिन्नप्रकारतानिरूपितनीलखावच्छिन्नविशेष्यतानिरूपितानवन्च्छिन्नावच्छेदकतासंबन्धेन शाब्दबुद्धिवावच्छिन्नं प्रति घटत्वान्यवृत्तिविषयतासंबन्धेन ज्ञानलावच्छित्रस्य निरुक्तप्रकारतानिरूपितघटलनिष्टनिरवच्छिनावच्छेदकतानिरूपितधर्मितावच्छेदकतासंबन्धेन शाब्दबोधं प्रति नीलखान्यवृत्तिविषयतासंबन्धेन ज्ञानलावच्छिन्नस्य कालिकसंबन्धावच्छिन्नद्रव्यलनिष्ठावच्छेदकतानिरूपितसमवायसंबन्धावच्छिन्नघटत्वनिष्टावच्छेदकतानिरूपितप्रकारतानिरूपितकालिकसंबन्धावच्छिन्नद्रव्यवमिष्ठावच्छेदकताकविशेष्यतानिरूपितसमवायसंबन्धावच्छिन्नावच्छेदकतासंबन्धेन शाब्दबुद्धिलावच्छिन्नं प्रति घटवान्यवृत्तिविषयतासंबन्धेन शाददत्वावच्छिन्नस्य निरुक्तप्रकारतानिरूपितसमवायसंबन्धावन्छिन्नघटत्वनितावच्छेदकताक विशेष्यतानिरूपितकालिकसंबन्धावच्छिन्नावच्छेदकतासंबन्धेन शाब्दबोधं प्रति घटत्यान्यवृत्तिविषयतासंबन्धेन ज्ञानत्वावच्छिन्नस्य च व्यापकलसंभवेन न कोऽपि दोषः पदमादधाति एषा च रीतिः । शाब्दबोधं प्रत्येव भेदस्य कारणता. पक्षेऽपि संभवत्येतदभिप्रायक एव च वस्तुतस्त्वित्यतः प्राचीनो ग्रन्थः (आत्मनिष्ठप्रत्यासत्या विषयनिष्ठप्रत्यासत्त्या च) अत्रापि घटत्वानवच्छिन्नविशेष्यतात्वसंबन्धेन ज्ञानत्वावच्छिन्नं प्रति घटत्वावच्छिन्नविशेष्यताभेदस्यैव कारणत्वं तस्य च घटखावच्छिन्नप्रकारतानिरूपितविशेष्यतावसंबन्धेन शाब्दवोधव्यापकतया घटोघट इत्यादिशादापत्तेारणं प्राग्वत्संभवति । आत्मनिष्ठप्रत्यासत्त्या विषयनिष्ठप्रत्यासत्त्या च कार्यकारणभावस्यैव संप्रदायसिद्धतया विषयतानि प्रत्यासत्त्या कार्यकारणभावस्य संप्रदायविरुद्धत्वालघुभूतस्यापि तस्योपेक्षैव कृता अन्यकृतेति विभावयन्तु सुधियः ।
मेवान्वयबोधश्चेत्यादि भेदशब्दोऽत्राभेदान्यसंबन्धबोधकःपारिभाषिकः । प्रातिपदिकार्थधात्वर्थयोरिति ।नयस्य बोधइत्यनेनान्वयस्तथासति प्रातिपदिकार्थधात्वर्थविषयको बोधः प्रत्ययानिपातार्थविषयक एव नवन्यविषयक इत्यर्थः स्यात्स च बाधितः प्रातिपदिकार्थवावर्थविषयकलादेव बोधस्य तस्माद्धोधविशेषणीभूते भेदान्वय एव तदन्वयो वाच्यः तथाच प्रातिपदिकार्थनिरूपितो धाबर्थनिरूपितश्च यः प्रत्ययार्थनिरूपितार्थान्यतरनिरूपितो भेदान्वयस्तविषयक एव शाब्दबोधो जायते नतु तदन्यनिरूपिततादृशान्वयविषयक इत्यर्थः । एवं च शाब्दबोधीयाभेदान्यसम्बन्धावच्छिन्नप्रातिपदिकधालान्यतरविषयताप्रत्ययनिपातान्यतरार्थविषयतानिरूपितेव नान्यार्थविषयतानिरूपिता भवतीति नियमः फलितार्थः । अथ प्रातिपदिकार्थविषयतायाः संसर्गतानिरूपितत्वात्पदार्थतावच्छेदकविषयतानिरूपितत्वाचोक्तनियमबाधः । नच प्रातिपदिकार्थविषयतानिरूपिताभेदान्यसंवन्धविषयतायां प्रत्ययाद्यर्थविषयतानिरूपितलनियमोऽपि संभवदुक्तिकः प्रातिपदिकार्थविषयतानिरूपितलासंसर्गतावच्छेदकविषय. तानिरूपितलाचोक्तसंसर्गताया इति चेन्न प्रातिपदिकवृत्तिज्ञानीयमुख्यविशेष्यताप्रयोज्या शाब्दबोधीया विषयता कालाप्रयोज्यतादात्म्यातिरिक्तसांसर्गिकविषयतानिरूपितप्रत्ययादिप्रयोज्यविषयता निरूपितैव नतु तादृशसंसर्गतानिरूपितप्रत्ययाद्यप्रयोज्यविषयतानिरूपितेति नियमस्य विवक्षितत्वात् पदार्थतावच्छेदकसंसर्गविषयतयोःप्रलयाद्यप्रयोज्यत्वेग्याकाडाप्रयोज्यसंसर्गवानिरूपितत्वाद्दोषासंभवात् । अत्र प्रत्ययार्थप्रातिपदिकार्थयोः कचिदेकरवेपि प्रातिपदिकादिप्रत्ययादिप्रयोज्य विषयतयोर्भदादर्थघटितप्रागुक्तनियमबदन दोषस्य न संभव इति ।
प्रातिपदिकार्थयोभदेनान्वयाभ्युपगमे दोषमभिधाय कियाप्रातिपदिकार्थयोस्तदभ्युपगमे दोषमाह । तण्डुलः पचति चैत्रः पच्यत इत्यादाविति । नच तण्डुलरूपकर्मणश्चैत्ररूपक श्चानभिहितत्वात्तण्डलपदोत्तरं द्वितीयायाश्चैत्रपदोत्तर तृतीयाया एव संभवितया नोक्तप्रयोगप्रसङ्गसंभव इति वाच्यं कर्मखकर्तृवादेस्तत्तत्प्रातिपदिकार्थविशेष्यतया विवक्षितत्वे तत्तत्प्रातिपदिकोत्तरं द्वितीयादिर्भवतीत्यस्यैव तत्तदनुशासनार्थत्वमभिप्रेत्योक्तप्रयोगस्य प्रसजितत्वात्प्रकृते कर्मलकर्तृत्यादेस्संसर्गतयैव विव. क्षितत्वात् । द्वितीयादेरसंभवेन प्रातिपदिकार्थे विहितायाः प्रथमायाः संभवात् उक्तनियमाभ्युपगमे चोक्तस्थले कर्मवादेस्संसगैतया बोधासंभवेन विवक्षाया असंभवादुक्तप्रयोगस्याप्रसक्तेः । यत्तु कर्मकर्तृगतसंख्यानभिधानस्यैव तत्तदनुशासनार्थतया कर्मलादिसंबन्धेन पाकादेः तण्डलादावन्वये आख्यातार्थसंख्याया अपि तत्रैवान्वयस्य वाच्यतया संख्याभिधानस्यैव सत्वेन