SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिवादः । नविभक्तिपदघटितं नीलश्चासी घट इति विग्रहवाक्यं तत्पुरुषस्य तु राज्ञः पुरुष इत्यादिविरुद्धविभक्तिमत्पदघटितमिति तयोर्लक्षणसमन्वय इति न वाच्यम् कुपुरुषप्रपुरुषविपुरुषसुजनदुर्जनाति वेलोद्विद्यावको किलपर्यध्ययनसंवर्मापरिवीरुदाद्धाभिश्रुतनिर्वणापनामान्तर्मुखनिर्मक्षिकादिनित्यसमासस्थले लौकिकविग्रहस्याभावात्खघटकस विभक्तिकपदसमूहात्स्वार्थप्रकाशनासंभवात् । किन्तु कुत्सितः पुरुषः प्रकृष्टं गतः प्रपतितो बा पुरुषः विशिष्टो विरुद्धो वा पुरुषः शोभनो जनः दुटो जनः अतिक्रान्तो वेलाम् उद्गनोविद्याम् अवकुष्टः कोकिलया परिग्लानोऽध्ययनाय सन्नद्धो वर्मणा परिणद्धो वीरुद्भिद्युक्तो युद्धायाभिगतः श्रुताय निष्कान्तोवनादपगतोग्रामादन्तर्गतो मुखाग्निर्गतोमक्षिकाया इत्याद्यसमासस्थपददितवाक्य रेव तेषामर्थस्य बोधयितुं शक्यला. स्कुसुपुरुषसु अतिवेलाअमित्याद्यलौकिकग्रहाणां संभवेऽपि तेषामर्थबोधास्वरूपयोग्यत्वात् अर्थविवक्षानुसारेणैव विग्रहवाक्यस्य समासपूर्वावस्थायाः कल्पनीयतया राजपुरुषइत्यत्रार्थाविशेषे विग्रहवाक्यभेदस्य दुर्ग्रहलाचेतिचेदुच्यते । यत्र समासघटकपदार्थस्य विशेष्यत्वे सति तहटकीभूतपदानां खोत्तरमुत्पत्तियोग्यविभक्त्यर्थवदन्तीवेण लक्षणां विना सामानाधिकरण्यं तत्र कर्मधारयत्वम् तादृशलक्षणया सामानाधिकरण्ये तत्पुरुषलमिति लक्षणमुक्तमस्त्वभियुक्तैरिति संबन्धिलक्षणापक्षेऽपि न तदसंभव इति एतलक्षणमभिप्रेलैव वक्ष्यति यदस्मन्मतेऽसौ समासः षष्ठीतत्पुरुष इति पञ्चमूलीत्यादिसमाहारद्विगोरुत्तरपदस्यपश्चा भिन्नमूलसमाहारलक्षकतया पञ्चपदमूलपदयोः विभक्त्यर्थावच्छिनलक्षणां विनैव समानाधिकरणत्वेऽपि यदन्तर्भावेण सामानाधिकरण्यं तस्य समासघटकपदार्थस्य मुख्य विशेष्यत्वाभावात्ताहशविशेष्यवार्थकस्य तत्रातिव्याप्तिवारणाय सत्यन्तस्य सार्थक्यम् । नबोत्तरपदस्यैव तादृशविशिष्टार्थलक्षकत्वस्यैकदेशान्वयप्रसंगभङ्गाय वाच्यतया तादात्म्येनान्वितपदार्थविषयताप्रयोज्यत्वरूपसामानाधिकरण्यं न पञ्चपदस्येत्यतिव्याप्तिरेव नास्तीति वाच्यं तात्पर्यग्राहकतया कथञ्चितत्प्रयोजकत्वस्य सत्त्वात् । नचैवं परमसुन्दरो महाकविः महाविज्ञ इत्यादौ क्रियाविशेषणेन समासस्य कर्मधारयत्वपक्षे स्तोकपक्तास्तोकनत्यादौ च का गतिः यदन्तीवेण सामानाधिकरण्यं तस्यमुख्य विशेष्यलाभावादितिवाच्यं समासघटकपदप्रयोज्यप्रकारतानिरूपितविशेष्यत्वस्यैव सयन्तार्थखात् समासघटकपदस्य प्रयोजकलं च स्वप्रयोजकोपस्थितीयमुख्यविषयताप्रयोजकत्वरूपं तात्पर्य ग्राहकतया प्रयोजकलव्यावृत्तमेव विवक्षितमिति न द्वि.. गावतिव्याप्तिः । यदि च सामानाधिकरण्यांश एवोक्तरूपं प्रयोजकलं निवेश्यं तावतैव द्विगुवारणाव्यर्थमेव सत्यन्तम् । किश्चोतकर्मधारयवदेकदेशान्वयमभ्युपेत्य मूलपदस्य मूलसमाहारमात्रलक्षकत्वस्यतात्पर्य ग्राहकवरूपव्यर्थकल्पलवारणायाभ्युपगमे क्षत्यभावात् सत्यन्तोपादानेप्यतिव्याप्तिस्तदवस्थैव एवं समाहारद्वन्द्ववत्समाहारद्विगोरपि नास्ति समाहारलक्षकलं समाहारस्य छिदादिकर्मवाभावेन पञ्चमूली छिनत्तीत्यादिप्रयोगाभावप्रसङ्गात् । मूलादेर्द्वित्वबहुत्वेन्येकवचनान्तत्वं चानुशासनिकमेव दारादिपदवत् । नवैवं पञ्चखवीत्यादा खट्वाशब्दस्योपसर्जनत्वाभावेन गोत्रियोरुपसर्जनस्येति हखखासंभवेनादन्तत्वाभावादद. न्तस्य द्विगोविहितस्य स्त्रीप्रत्ययस्यानुपपत्तिरितिवाच्यं द्विगोरन्त्यस्यापि हखविधेः खातछयेण वक्तव्यत्वात्प्रयोगानुसारिलात्कल्पनायास्तथाच मुतरामतिव्याप्तिरेतेन यत्समासत्वावच्छेदेन समासघटकपदशक्यार्थस्य मुख्यविशेष्यवाभावस्तदन्यत्वस्य यत्समा. सखसामानाधिकरण्येन समासघटकपदशक्यार्थस्य मुख्य विशेष्यवं तत्त्वस्य वा सत्यन्तार्थत्वे नियमतोऽन्यपदार्थप्रधाने समाहारद्विगुप्रभृतौ न दोषः। यत्र समासघटकपदशक्यार्थस्य मुख्य विशेष्यत्वं तत्त्वस्य सत्यन्तार्थवं लाक्षणिकोत्तरपदककर्मधारयाच्यापकत्वान्न संभवदुक्तिकमिति प्रत्युक्त मिति विभाव्यते तदासमासघटकपदे सामानाधिकरण्यप्रतियोगिनि शक्त्या संख्याबोधतात्पर्यविषयभिन्नत्वस्यैव सत्यन्तार्थलं वाच्यम् ! घटकपदे सामानाधिकरण्यप्रतियोगिनि पञ्चमूल्यादिद्विगुघटकपञ्चादिपदानां शतयैव संख्याबोधकत्वान्नातिव्याप्तिः त्रिकटुप्रभृतिकर्मधारयघटकच्यादिपदस्य शुण्ठ्यादिपर्याप्तत्रित्वावच्छिन्नलक्षकतया न तत्राव्याप्तिशता । अतएव द्वौ गाावित्यर्थे द्वाभ्यां दण्डाभ्यामित्यर्थे तिसृणां यमुनानां समाहारइत्यर्थे विहितस्य द्विगाय॑द्विदण्डिद्वियमुनाद्यव्ययीभावस्यापि वारणं यथाश्रुतसल्यन्तार्थस्य तत्रापि सत्त्वेनातिव्याप्ति१रुद्धरा स्यात् द्विग्वव्ययीभावाद्यन्यत्वे वा विशेषणे सत्यन्तस्य तात्पर्यम् । वस्तुतस्तु द्विगोरुक्ताव्ययीभावानांच कर्मधारयत्वमेव द्विगुपरिभाषाव्ययीभावत्वाति देशश्च स्त्रीप्रत्ययैकवचनान्तखामादेशादिपदसंस्कारार्थ एव तात्पर्य ग्राहकताया व्यर्थत्वव्याजशब्दान्तरत्वमाकलय्यापरितोषाहबीहावे. कदेशान्वयाभ्युपगमपक्षे समानाधिकरणबहुव्रीहाबतिव्याप्तिधारणमेव सत्यन्तस्य प्रयोजन समासघटकपदार्थस्यावच्छेदकता. नात्मकविशेष्यत्वं च तदर्थः । परममुन्दरइत्यादि कर्मधारये च परमपदस्य स्वाश्रयसौन्दर्यादिमत्वसंबन्धेन परमत्वविशिष्टे लक्षपति न तत्राव्याप्तिप्रसक्तिरित्यास्तां तावत् । नीलरूपशक्तस्य नीलादिपदस्य समवायेन नीलरूपविशिष्टलक्षणयैव घटादिपदसामानाधिकरण्यमिति नीलघठादिकर्मधारयेऽव्याप्तिवारणाय विशेष्यदले स्वोत्तरमुत्पत्तियोग्यविभक्त्यर्थावच्छिन्ननिरूपितत्वेन लक्षणाविशेषितानीलादिपदानां नीलसंबन्धित्वेन लक्षणाभावालक्षणसंगतिः । राजादिपदानामपि स्वत्वादिसंबन्धेन राजादिविशिष्टलक्षकत्वे कर्मधारयत्वमेव राजपुरुषादिसमासानां राजपदार्थस्य राज्ञस्तादात्म्येनापि पुरुषान्वययोग्यतया विभक्त्यर्थघटितलक्षणां विनापि सामानाधिकरण्यसंभवेन राजसंबन्धिपुरुषादिवोधतात्पर्येण प्रयु फेऽपि राजपुरुषादिपदे कर्मधारयलं स्यान्नस्थाच तत्पुरुषत्वमिति खप्रयोजकबुबोधयिषाविषयवघदकपदार्थाभेदान्वयबोधप्रयोजकत्वमेव सामानाधि
SR No.008449
Book TitleVyutpattivada Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy