________________
व्युत्पत्तिवादः। कत्वेन्यत्र दर्शितरीत्या सोऽप्युपपादनीयः । स स इत्यादिवाक्याजातित्वाचवच्छिन्नधर्मितावच्छेदकताकतधर्मावच्छिन्नप्रकारतावच्छेदकताकाभेदान्वयबोधस्य वारणाय तद्धर्मावच्छिन्नावच्छेदकताकप्रकारतानिरूपितधर्मितावच्छेदकतावच्छेदकत्वप्रत्यासाया शाब्दयोधं प्रति तद्धर्मभेदस्यापि पृथकारणात्वं कल्पनीयम् । एवं दण्डवान् दण्डवानित्यादिवाक्याण्डसंयोगस्वाद्यवच्छिन्नवति तदवच्छिन्नवदभेदान्वयबोधस्य वारणाय दण्डसंयोगत्वाद्यवच्छिन्नावच्छेदकताकप्रकारतानिरूपित विशेध्यतानिरूपितसंयोगत्वाद्यवच्छिन्नावच्छेदकतानिरूपितावच्छेदकतावच्छेदकत्वसंबन्धेन शाब्दबोधे दण्डत्वादिभेदस्यापि पृथकारणत्वं कल्पनीयम् । अवच्छेदकतार्या निरवच्छिन्नत्वनिवेशोऽपि पूर्व
तत्रासत्त्वाव्यभिचारस्य वारणाय तत्तलिङ्गकपरामर्शधर्मितावच्छेदकताविशिष्टधर्मितावच्छेदकतायाः कार्यतावच्छेदकसबन्धखमुपेयते तथात्रापि वृत्तिज्ञानधर्मितावच्छेदकता विशिष्टप्रकारताया एव कार्यतावच्छेदकसंबन्धलं स्वीक्रियते इत्यर्थः ।।
अन्यत्र दर्शितरीत्येति । पर्याप्तिविवक्षयेत्यर्थः । तथाच निरवच्छिन्नघटत्व निष्ठावच्छेदकताभिन्नावच्छेदकलानिरूपितप्रकारताकशाब्दबुद्धित्वावच्छिन्नं प्रत्येव घटलभेदस्य कारणतया नीलघटलावच्छिन्नप्रकारताकशाब्दबोधस्यातादृशलान्नानुपपत्तिः । अत्र च तद्रूपवृत्तिप्रकारतानिरूपितविशेष्यतावच्छेदकतावावच्छिन्नप्रतियोगिताकपर्याध्यनुयोगितावच्छेदकसंबन्धेन शाब्दबुद्धौ तद्रूपभेदस्य कारणत्वे तात्पर्य बोध्यम् । नातो नीलखघटत्वोभयधर्मावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्दबुद्धौ नीलवभेदघटवभेदयोः कारणत्वे विधेयांशेऽधिकावगाहिनो नीलघटोघट इत्यस्यानुपपत्तिः तदुभयभेदस्य कारणत्वे तस्य केवलान्वयित्वेन नीलघटो नीलघट इतिशाब्दबोधापत्तिः। अथ साक्षात्परम्परासाधारणावच्छेदकताखीकारे विवक्षितस्य निरवच्छिन्नलस्य वै. यर्थ्य तदखीकारे तनिवेशस्यावश्यकतया विधेयांशेऽधिकावगाहिशाब्दबोधानुपपत्तिः तत्र प्रकारताया घटगतैकत्व एव वृत्तित्वात्प्रकारतानिरूपितनिरवच्छिन्नावच्छेदकलस्य नीले विरहात् एवमुद्देश्यांशेऽधिकावगाहिशाब्दबोधापत्तिदुर्वारा । कैश्चिदत्र साक्षात्परम्परासाधारणनिरूपितत्वमेव स्वीक्रियते निरवच्छिनप्रकारतावच्छेदकलतदवच्छेदकलादिविवक्षाया यथोतपर्याप्तिनिवेश एव तात्पर्यम् । उद्देश्यांशेऽधिकावगाहिशाब्दबोथवारणाय च तद्रूपभेदस्य कारणतांविहाय तद्रूपावच्छि नानुयोगिताकपर्याप्तिकावच्छेदकताकविषयतावच्छेदकतावावच्छिन्न पर्याप्त्यनुयोगितावच्छदकरूपभेदस्य तदपव्यापकरूपभेदस्य वा कारणलं वाच्यं नच घटत्वगतैकत्वावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकविषयतालस्य नीलघटवावच्छिन्नविषयत्वइव पीतघटत्वाद्यवच्छिन्नविषयत्वेपि सत्त्वेन तादृश विषयतावच्छेदकतापर्याप्यनुयोगितावच्छेदकसमुदायत्वभिन्नलस्य नी. लत्वघटनादिगतद्वित्वे घटत्वगतैकत्वे च सत्त्वादापत्तितादवस्थ्यमिति वाच्यं वावच्छेदकतालावच्छिन्नपर्याप्यनुयोगिताबच्छेदकत्वसम्बन्धेन तादृशविषयताविशिष्टान्यत्वस्यैव सत्त्वादिल्याहुस्तन्मन्दम् जातित्वेन घटखावगाहिनो जातिमान् घट इतिशाब्दबोधस्यानुपपत्तेः घटवजातिलगतद्वित्खस्योक्कविषयताविशिष्टलात् घटलगतैकलव्यापकत्वाचेतिचेदन ब्रूमः। घटलगतैकत्ववृत्तिप्रकारतानिरूपितविशेष्यतावच्छेदकतावावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकलसंबन्धेन शाब्दबोधे घटलनिष्टनिरवच्छिनावच्छेदकताकप्रकारतावदन्यत्वं कारणम् । प्रकारतावत्ताच खावच्छेदकताखावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकलसम्बन्धेन । तथा च घटोघट इत्यस्य च नापत्तिः नवा विधेयांशेऽधिकावगाहिनो घटोनीलघटइत्यस्यानुपपत्तिः । एवं जातिवघटत्वगतद्विलवृत्तिप्रकारतानिरूपितविशेष्यतावच्छेदकताखावच्छिन्नपर्याप्यनुयोगितावच्छेदकत्वसम्बन्धेन शाब्दबुद्धौजातिलावच्छिन्नघटखनिष्ठावच्छेदकताकप्रकारतावदन्यवं कारणमिति जातिमान् जातिमानू जातिमद्धटो जातिमानित्यस्य नापत्तिः नवा जातिमान् जातिमद्धट इत्यस्यानुपपत्तिः । अत्र खरूपत एक घटलमेका जातित्वेन जातिरेक च जातिवमवच्छेदकमित्यपेक्षाबुद्ध्यनन्तरमेतानि घटलजातिजातिखानि त्रीणि निरुक्तविषयतावच्छेदकानीति युद्धिर्जायमाना यदि घटत्वजातिजातिवगतत्रित्वे तस्य जातिमद्धटखावच्छिन्नविषयतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकत्वे प्वाह ति प्रामाण्यं तदोक्तैव रीतिस्साधीयसी आश्रयस्य द्वित्वादुक्तनिवस्याप्रामाणिकत्वे जातिमान् घट इत्यस्य प्रथमे कार्यकारणभावे द्वितीये च जातिमान् जातिमद्धट इत्यस्यानुपपत्तिर्वक्ष्यमाणप्रकारेणैव वारणीया । एवं नीलवनीलघटलगतत्रिलवृत्तिप्रकारतानिरूपितर्मितावच्छेदकतापर्याप्त्यनु. योगितावच्छेदकतासंबन्धेन शाब्दबुद्धौ भीलवावच्छिन्ननीलनिष्ठावच्छेदकतानिरूपितनिरवच्छिनघटलनिष्ठावच्छेदकताप्रकारतावदन्यलं कारणम् । तथासति नीलघटो नीलघटो द्रव्यं नीलपटो नीलघट इत्यस्य नापत्तिः नवा घटो नीलघट इत्यस्यानुपपत्तिरित्येषादिगन्यत्र तस्वयमूह्यम् ।
अथ कालिकेन घटलविशिष्टपरेण तच्छब्देन घटितात्सद्यइति वाक्याच्छाब्दबोधानुपपत्तिः उद्देश्यतावच्छेदकविधेयतावच्छेदक्रयोर्भेदविरहात् एवं कालिकेन प्रमेयत्व विशिष्टवत्सरेणखरूपेण प्रमेयसविशिष्टवत्परेण च तच्छङदेन घटितात्सः स इति बाक्याच्छाब्दबोधानुपपत्तिः उद्देश्यविधेयभावावच्छेदकतावच्छेदकगतरूपस्य तदवच्छिन्नस्य च भेदस्य विरहादप्रसिद्धेश्च । नच धर्मसंसर्गसाधारणोद्देश्यनिधेयभावावच्छेदकलतदवच्छेदकलादीनां पर्याप्तिर्विवक्षिता तथासति कालिकघटलादिगतरूपभेदस्थ