________________
गूढार्थतत्वालोकव्याख्यासहितः । विशिष्टप्रकारतासंबन्धेनोपस्थितेर्हेतुतां स्वीकृत्य तादृशापत्तेरणात् । न च पदार्थेपि प्रकारतासंयन्धेन शाब्दबोधोत्पत्त्या तत्र प्रकारतासंबन्धेन पदार्थोपस्थितेरभावात्प्रकारनिष्ठप्रत्यासत्या पदार्थोपस्थितेतता व्यभिचारेण कल्पयितुमशक्येति वाच्यम् । परामर्शकारणताविचारदर्शितदिशाव्यभिचारस्य चारणीयत्वादिति चेत्तर्हि तद्धर्मावच्छिन्नाभेदसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मभेदस्यापि हेतुतायाः स्वीकरणीयतया न घटो घट इत्यादिस्थले शाब्दबोधापत्तिः । स घट इत्यादिवाक्याजातित्वादिना घटत्वादिधर्मितावच्छेदककस्य स्वरूपतो घटत्वादिप्रकारतावच्छेदककस्य घटः स इत्यादिवाक्यात्स्वरूपतो घटत्वादिधर्मितावच्छेदककस्य जातित्वादिविशिष्टघटत्वावच्छिन्नप्रकारताकस्य शान्दबोधस्योपपत्तये विशेष्यत्वप्रकारत्वयोरवच्छेदकत्वे निरवच्छिन्नत्वेन विशेषणीये घटी नीलघट इत्याद्यन्वयबोधस्य प्रामाणिरात् द्रव्यं द्रव्यपदशक्यं घटश्च द्रव्यसंबन्धीति समूहालम्बनोत्तरं जायमानाया बाधकमहिना घटमात्रविषयकोपस्थितेः घटत्वप्रकारकत्यस्य द्रव्यवनिष्ठधर्मितावच्छेदकतावैशिष्ट्यवारणस्य सामानाधिकरण्यफलस्य घटवावच्छिनधर्मिकवृत्तिज्ञानोत्तर जायमानाया बाधकबलादुदोधकान्तरजन्यायाः प्रमेयावच्छिन्नमात्रविषयकोपस्थितेः प्रमेयत्वावच्छिन्नप्रकारवस्य घटलनिष्ठनिरवच्छिन्नधर्मितावच्छेदकतावैशिष्ट्यवारणस्य खानवन्छेदकानवच्छिनखफलस्य तत्रैवोपस्थितियुस्तिज्ञानयोर्विपरीतक्रमेण जायमानत्वे घटलनिष्टनिरवच्छिन्नप्रकारतायां प्रमेयलावच्छिन्नधर्मितावच्छेदकतावैशिष्ट्यवारणस्य खवृत्तिलफलस्योद्वोधकान्तरजन्योपस्थितीयरामवायावच्छिन्नलप्रकारत्वे संबन्धान्तरेण वृत्तिज्ञानीयद्रव्यखनिष्ठधर्मितावच्छेदकतावैशिष्ट्यवारणस्य खावच्छेदकसंबन्धावच्छिनलफलस्यापि तावन्मात्रेणैव संपन्नत्वाच्च । अत एव निरुक्तचतुष्टयसंबन्धेन वैशिष्ट्यप्रवेशेऽपि द्रव्यत्वावच्छिन्नधर्मिकवृत्तिज्ञानादप्रामाण्यज्ञानास्कन्दितादुत्तरमुट्ठोधकवशाव्योपस्थिती द्रव्यत्वे शाब्दापत्तिर्दुर्निवारैव स्यादिति निरस्तम् ।
नच पदार्थेऽपि प्रकारतासंबन्धेन शाब्दबोधोत्पत्त्येति अथोक्तधर्मितावच्छेदकताविशिष्टप्रकारतायाः प्रकारतात्वेन प्रवेशे प्रयोजनाभावाद्वैशिष्टयस्य स्वप्रयोज्यवस्वनिरूपितधर्मिताप्रयोज्यलान्यतरसंवन्धेनोक्ता प्रकारे न व्यभिचारसंभवः। नच कारणस्य मुख्य विशेष्येऽपि सत्वेन तत्र प्रकारतया शान्दानुत्पत्त्यान्वयव्यभिचारः विषयलमात्रस्य कार्यतावच्छेदकसंसर्गवे संसर्गेऽपि शाब्दोत्पत्तेस्तत्र कारणाभावाव्यतिरेकव्यभिचार इति वाच्यम् संसर्गलान्यविषयलस्य कार्यतावच्छेदकसंसर्गलोक्तो दोषाभावादिति चेन एवं सत्यपूर्वव्यक्तेः शाब्दबोधे भानानुपपत्तेरुक्तप्रकारस्योपेक्षणीयत्वादिति। तदुपस्थितिप्रकारताविशिष्टप्रकारताया इति । स्वत्वस्यानुगतत्वेऽपि स्वप्रकारताविशिष्ट प्रकारत्वस्य न कार्यतावच्छेदकसंसर्गवं वैशिष्ट्यनियामकसंसर्गस्य सामानाधिकरण्यादिरूपत्वे नीलपदवृत्तिज्ञानजन्यनीलोपस्थितौ यथाकथंचिनीलवतो भाने उक्तदोषतादवस्थ्यात् । प्रयोज्यत्वस्य संसर्गत्वे उपस्थितशाब्दबुधोरुक्तकार्यकारणभावे कार्यतावच्छेदककारणतावच्छेदक विषयत्वयोः प्रयोज्य प्रयोजक. भावः प्रयोज्यप्रयोजकभावे च तद्धटितकार्यकारणभावइत्यन्योन्याश्रयात् । अपितु स्वजनकज्ञानीयधर्मिताबच्छेदकताविशिष्टप्रकारत्वसंबन्धस्य शाब्दबुद्धिवावच्छिन्नकार्यतावच्छेदकत्वे तात्पर्यम स्वमुपस्थितिः शाब्दबोधप्रकारखस्यापि परम्परयाऽस्त्येव धर्मितावच्छेदकताप्रयोज्यलम् । एवञ्च स्वरूपतो द्रव्यलप्रकारकोपस्थितेःप्रमेयत्वादिना द्रव्यत्वे शाब्दबोधापत्तिःप्रमेयलावच्छिन्नद्रव्यत्वप्रकारतायाः खरूपतो द्रव्यखोपस्थितिकार्यवावच्छेदकलासम्भवात् । खजनकज्ञानीयधर्मितावच्छेदकताप्रयोज्यत्वाभावात् उपस्थितिकारणतानवच्छेदकीभूतोक्तविषयत्वप्रयोज्यलस्य तथात्वेप्यन्योन्याश्रयो यद्यानुभविकस्तदा सामानाधिकरण्यादिचतुष्टयस्यैव तथालं बोध्यम्, यद्वा प्रकारताविशिष्टप्रकारत्वं संसर्गः कार्यतावच्छेदको वाच्यः वैशिष्ट्यंच खतादात्म्यखप्रयोजकवृत्तिज्ञानीयधर्मितावच्छेदकताकत्वोभयसंबन्धेन बोध्यम् । शाब्दबुद्धेवृत्तिज्ञानधर्मिनिष्ठप्रकारवस्य स्खप्रयोजकवृत्तिज्ञानीयधर्मितावच्छेदकलाप्रसिद्ध्या प्रकारताविशिष्टत्वासंभवान्न प्रकारे व्यभिचारः । अत्र निरुक्तापत्तिवारणाय निरुक्तप्रकारतावसंबन्धेन शाब्दबुद्धौ निरुतप्रकारताप्रयोज्यत्वसंसर्गेणोपस्थितेः कारणलमेवेच्छन्ति केचित् । अथ प्रमेयस्स इत्यादौ तच्छन्दानीलस्य घटस्य च विश्ललतयोपस्थितौ नीलघटखावच्छिन्नविशेष्यकप्रमेयखावच्छिन्नप्रकारकशाब्दबोधापत्तिः शाब्दबोधप्रकारे नीलवघटत्यादी प्रकारतयोपस्थितेः सत्त्वात् । नचाकाहाज्ञान विरहान तथेति वाच्यं नीलखसंसर्गस्य वृत्तिभास्यतया आकाढाया अप्रयोजकत्वादिति चेत्र यद्विषयतयोरुपस्थिती न निरूप्यनिरूपकभावः शाब्दयोधे निरूप्यनिरूपकभावापन्नयोस्तयोराकासाप्रयोज्यत्वस्यैवोपेयलाभीलवप्रकारतानिरूपितघटलावच्छिन्न विशेष्यत्वस्योपस्थितिविषयतासजातीयताविरहेणाकालाप्रयोज्यत्वस्यैवाभ्युपगन्तव्यलात् प्रकृते चाकाखाभावादापत्तिविरहादिति विभावनीयम् । परामर्शकारणताबिचारदर्शितदिशेल्यादिकचित्पाठः तस्य यथाधर्मितावच्छेदकतासंबन्धेन तलिङ्गकानुमितौ धर्मितावच्छेदकतासंबन्धेन तल्लिङ्गकपरामर्शत्वेन कारणतायां यत्र भाविज्ञानमप्रमेयप्रामा म्यज्ञानमनन्तरं वहिव्यायधूमवान् पर्वत इति परामर्शस्ततो वहिव्याप्यालोकवद्राव्यमिति परामर्शस्ततो वह्निमान् पर्वतः वहिमद्रव्यमिति समूहालम्बनानुमितिः तत्र तस्या धूमालोकोभयलिङ्गिकाया द्रव्यखपर्वतलयोरुभयत्र सत्त्वेन तत्तलिङ्गकपरामर्शस्य (१) पुस्तकान्तरे पाठोऽयम् ।