________________
५४
व्युपत्तिवादः । - येन संबन्धेन यद्धर्मावच्छिन्नकार्य प्रति येन संबन्धेन यद्धविच्छिन्नकार्यस्य व्यापकता तेन संबन्धेन तद्धर्मावच्छिन्नकार्योत्पादकसामच्या अपि तेन संबन्धेन तद्धर्मावच्छिन्नकार्योत्पत्तावपेक्षिततया प्रकारतासंबन्धेन द्रव्यत्वादी पदजन्यपदार्थोपस्थित्यसत्त्वे तत्र धर्मितावच्छेदकतासम्बन्धेन शाब्दबोधापत्तेरयोगात् । न च यत्र प्रमेयत्वाद्यवच्छिन्नविशेष्यकत्तिज्ञानजन्यप्रमेयत्वाद्यवच्छिन्नविशेष्यकोपस्थितावेव उद्बोधकान्तरात् द्रव्यत्वाद्यवच्छिन्नस्य भानं तत्र द्रव्यत्वाद्यवच्छिन्नविषयकशाब्दापत्तिवारणाय तद्धर्मावच्छिन्नविषयकशाब्दबोधं प्रति तद्धर्मावच्छिन्नविशेष्यकवृत्तिज्ञानजन्यतद्धर्मप्रकारकपदार्थोपस्थितेहेतुता वाच्या तथा च प्रकारविशेषनिवेशस्यावश्यकत्चे विषयनिष्ठप्रत्यासत्या हेतुताकल्पनमयुक्तम् तथा सति पुरुषभेदेन कार्यकारणभावबाहुल्यप्रसङ्ग इति वाच्यम् । स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकता.
स्थितिविरहेपि द्रव्यत्वे धर्मितावच्छेदकतासंबन्धेनोक्तशाब्दबुद्धिर्यदुत्पद्येत शाब्दोपस्थित्यो सामान्यकार्यकारणभावे व्यभिचारः स्यादिति तद्वारणस्यैव तत्प्रवेशे मूललात् । न चैवमेतस्मादेव मूलाद्धर्मितावच्छेदकता प्रत्यासत्त्योपस्थितेः सामग्रीव्याप्तौ प्रवेशसंभवे येन संबन्धेनेत्याधुक्तिनिरथिंकेति वाच्यम् येन संवन्धेनेत्यादेर्येन संबन्धेन यद्धर्मावच्छिन्नकार्य प्रति येन संबन्धेन यद्धर्मावच्छिन्नकार्यस्य व्यापकत्वं तेन संबन्धेन तद्धर्मावच्छिन्नकार्योत्पत्तौ तद्धर्माश्रयीभूततत्तद्धमार्वच्छिन्नयत्किंचिद्यक्तेस्तत्तद्धर्मावच्छिनकार्यतावच्छेदकसंबन्धेन यद्यदधिकरणं तत्र कारणतावच्छेदकसंबन्धेन प्रत्यासवानां तत्तद्धर्मावच्छिन्नकार्यकारणानां पूर्वसत्त्वमपेक्ष्यत इत्यर्थः । तथासति घटत्वावच्छिन्नप्रकारकशाब्दलाश्रयीभूतायाः शाब्दत्वावच्छिन्नायाः घटोद्रव्यमित्यादिशाब्दव्यक्तः प्रकारतासंबन्धेनाधिकरणेषु यावत्सु घटखद्रव्यलादिषु वजनकज्ञानीयेत्यादिसंबन्धेन प्रत्यासन्नानामुपस्थितीनामपेक्षितपूर्वसत्त्वकत्वेऽत एव घटायुपस्थितेाप्यीभूतसामय्यां प्रवेशस्य समूलवात् व्यभिचारवारणस्य चोक्तापेक्षामूलस्यैव मूललादुक्तग्रन्थासङ्गतिविरहात् । एवं च व्याप्योभूतायाः सामग्याः यथा घटलावच्छिन्न प्रकारकयोग्यताझानेन घटोद्रव्यमित्याकासाज्ञानेन खजनकज्ञानीयेत्याधुक्तसंबन्धेन प्रत्यासन्नाभ्यामुपस्थितिखावच्छिन्नाभ्यां घटपदद्रव्यपदजन्योपस्थितिभ्यां च घटितवं तथा घटोघटइत्याद्याकाङ्क्षाज्ञानेन खजनकज्ञानीयेलायुक्तसंबन्धेन प्रत्यासन्नाभ्यां वटपदजन्योपस्थितिंच घटितलं लक्षणाज्ञानस्थलानुरोधेन खीकरणीय मिति घटत्वे निरुक्तशाब्दापत्तिर्भवत्युपपादिता ।
अथवा घटखावच्छिन्नप्रकारताकशाब्दबुद्धौ धर्मितावच्छेदकतया द्रव्यत्वादी समुत्पद्यमानाया प्रकारतावच्छेदकतासंसर्गेण घटत्वेऽपि द्रव्यलावच्छिन्नविशेष्यताकशाब्दबुद्धिरुत्पद्यते स्वीक्रियते च विनिगमकाभावाव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रत्यपि कारणता तथासति प्रकारतावच्छेदकतासंबन्धेन द्रव्यलावच्छिन्न विशेष्यताकशाब्दबुद्धिलावच्छिन्नं प्रति प्रकारतासंबन्धेन शाब्दबुद्धिवावच्छिन्नस्य व्यापकत्वेन तच्छिन्नकारणीभूतोपस्थितेः प्रकारतावच्छेदकतासंवन्धेन कार्याधिकरणे तत्र घटत्वे प्रत्यासन्नायाः पूर्वकालसत्त्वस्यापेक्षिततया घटत्वावच्छिन्नविषयकोपस्थितिरहितो घटत्वावच्छिन्नप्रकारकशाब्दसामग्रीक्षणो येन संबन्धेनेत्यायुक्तयथाश्रुतनियममहिम्नैव दुर्लभ इत्यापत्त्यभावादुक्तार्थो न तस्य विवक्षणीय इत्यलम् ।
येन संबन्धेन यद्धर्मावच्छिन्नेत्यादि। यद्धर्म प्रति यद्धर्मस्य व्यापकत्वं तद्धर्मावच्छिन्नकार्यतावच्छेदकसंबन्धेन तद्धर्मावच्छिन्नकार्योत्पत्तौ तत्तद्धर्मावच्छिन्नकार्यकारणतावच्छेदकसंबन्धेन तद्धर्मावच्छिन्नसामग्यपेक्षितेत्युक्तावपिसामजस्ये येन संबन्धेनेत्यायुक्ति: कार्यतावच्छेदककारणतावच्छेदकसंबन्धलाभाथैवेत्सवधेयम् । अथात्र व्यापकलं प्रतियोगिवैयधिकरण्यघटितं तदघटितं वा । नाद्यः संयोगत्वावच्छिन्नं प्रति विभागवावच्छिन्नस्यापि व्यापकत्वापत्त्या संयोगोत्पत्ती विभागसामग्या अप्यपेक्षितखापत्तेः न द्वितीयः तत्पुरुषीयघटलावच्छिन्न प्रकारताकशाब्दबुद्धिवावच्छिन्नाधिकरणे द्रव्यत्वे तत्पुरुषीयशाब्दत्वावच्छिन्नाभावस्य तादृशशाब्दानधिकरणकालावच्छेदेन विद्यमानतया तस्यापि व्यापकलानुपपत्तेरिति चेन तद्धर्मावच्छिन्नाधिकरणे तद्धर्मावच्छिन्नोत्पत्तिकालावच्छेदेन वर्तमानो योऽभावस्तस्यैव व्यापकताघटकत्वेन विवक्षितलात् । नचैवमयि घटीयपाकजरूपादिक प्रति घटैकलादीनां व्यापकतया पाकजरूपोत्पत्ती संख्यासामय्या अपेक्षितलापत्तिरिति वाच्यं तादृशाभावाप्रतियोगिलोत्पत्तिकालावच्छेद्यखाधिकरणताकलस्य विवक्षितखादिति । स्वजनकज्ञानीयेति । जनकत्वमत्राव्यवहितोत्तरपूर्ववर्तितामात्रमधिकप्रदेशे प्रयोजनविरहात् । विशेष्यतावच्छेदकताविशिष्टप्रकारतेति । धर्मितावच्छेदकलमानस्य संसर्गत्वे द्रव्यत्वप्रमेयवाद्यवच्छिन्नविशेष्यकत्तिज्ञानाव्यत्वावच्छिन्नांशेऽप्रामाण्यज्ञानास्कन्दिताजायमानायाः प्रमेयलावच्छिन्नमात्रविषयको पस्थितरुक्तधर्मितावच्छेदकतासंसर्गेण द्रव्यत्वेऽपि सत्त्वेन तत्र शाब्दबोधः स्यादिति तद्विशिष्टप्रकारत्वस्य संसर्गलानुधावनम् । वैशिष्ट्यंच खसामानाधिकरण्यादिभिर्वाध्यमिति कश्चित् तदसत् लाघवेन खप्रयोज्यखमात्रस्य संसर्गखौचित्यातू । अनुभवबलायोपस्थितीया यादृशसम्बन्धावच्छिन्ना यादृशरूपावच्छिन्ना निरवच्छिन्ना वा यनिष्ठा या विषयता तस्यां तादृशसंबन्धावच्छिन्नायास्तादृशरूपावच्छिन्नाया निरवच्छिन्नाया वा तन्निष्टवृत्तिज्ञानधर्मितावच्छेदकताया एच प्रयोजकलस्य खीका