SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ गूढार्थतत्वालोकव्याख्यासहितः । ५३ वृत्तिविषयताया बृत्तिलावच्छिन्त्रत्वेन प्रवेशे शक्तिवादिना संबन्धमवगाहमानाज्ज्ञानादेव जायमानाया उपस्थितेः शाब्दबोधकारणत्वेन शाब्दब्रोधानुकूलपदपदार्थसम्बन्धत्वात्मकवृत्तित्वस्य तत्र विषयतानवच्छेदकत्वादनुपपत्तिः शाब्दस्य स्यात् वृत्तित्वसमानाधिकरणत्वेन प्रवेशे च संबन्धत्वेन शक्त्यायवगाहिज्ञानादुपस्थितेः शाब्दबोधापत्तिरिति शक्तिवाद्यवच्छिन्नविषयताया विशिष्यनिवेशनीयतया कारणतावच्छेदकसंबन्धस्यैक्यासंभवात् । एवं पदधर्मिकवाचकवावगाहिज्ञानजन्योपस्थितेरपि शाब्दकारणत्वेनतस्याः खजनकज्ञानीयवृत्तिप्रकारतानिरूपितधर्मितावच्छेदकताविशिष्टप्रकारलस्याप्रसिध्या तत्रानुपपत्तिः स्यादिति वृत्तिप्रकारतानिरूपितपरम्परावच्छेदकताविशिष्ट प्रकारताया अपि संसर्गताया वाच्यत्वात् । अपि च विषयप्रवेशेप्यावश्यक एव तत्तद्धर्मविशिष्टनिरूपितलावगाहिज्ञानस्यैव कारणतायाः शक्तिवादे व्यवस्थापितलादिति चेदत्र ब्रूमः भगवदिच्छा विषयताभेदभित्रमूर्तिकतया द्विविधवाच्यवाचकत्खयोस्तद्भेदभिन्नखरूपाणां क्षणानां ज्ञानेभ्यो जायमानानामुपस्थितीनां कारणवस्यैकस्य संपत्तये खजनकज्ञानीयवाच्यलप्रकारतानिरूपितधर्मितावच्छेदकलवाचकलप्रकारतापरम्परानिरूपितावच्छेदकलवाच्यसंबन्धिखप्रकारतानिरूपितधर्मितावच्छेदकलसंबन्धिवाचकत्वप्रकारतापरम्परानिरूपितावच्छेदकलविशिष्ट प्रकारतानामन्यतमत्वेन कारणतावच्छेदकसंवन्धत्वं वाच्यम् । नचैवमन्यतमत्वस्य कारणतावच्छेदकघटकत्वेऽपसिद्धान्तः आकाङ्क्षाज्ञानाव्यवहितोत्तरत्वस्यात्र ग्रन्थे शक्तिवादे चोपस्थित्यव्यवहितोत्तरत्वस्य कार्यतावच्छेदकत्वोक्तिविरोधश्चान्यतमत्वेन कारणतयैव व्यभिचारवारणासंभवादिति वाच्यम् नान्यतमलं नाम कश्चिदपूर्व वस्तु कारणतावच्छेदकतया कल्प्यते कुप्तस्य हि तस्य न बाइमात्रेण कारणतावच्छेदकत्वं च वारयितुं शक्यते अपितु स्वभावानुपलब्धिलिङ्गकानुमानभङ्गसहकारिनियमानुपपत्तिगौरवादिदोषसद्भावालिगतवैजात्यादिरवश्यमभ्युपेय इति सिद्धान्तस्य न हानिः नात्र शक्तिज्ञानलक्षणाज्ञानजन्योपस्थितीनां प्रतिनियतसहकारिभेदः प्रामाणिकमताववभासते यदनुपपत्त्याश्रीयेतापि कार्यकारणभावभेदः । नच तत्तत्पदजन्योपस्थितीनां तत्तत्पदघटिताकाहाज्ञानं प्रति नियतमेवास्ति सहकारीति वाच्यम् एतत्प्रत्याशाया अपि तत्तत्पदशक्तिलक्षणाज्ञानजन्योपस्थितीनामुक्तक्रमेणैककारणखएव संभवाद्विभिन्नकारणत्वे सहकारित्वासंभवस्यानुपदमुक्तत्वात् । उक्तरीत्या हेतुलस्वीकारे च नास्त्यैव हि पदविशेषस्य प्रवेशइति कुतः प्रतिनियतसहकारिप्रत्याशा खक्रियाव्याघातात्वतोवा यत्र शङ्काविरहस्तत्र कार्यानुपलब्धिलिङ्गकानुमानयोः संभवेन तद्भस्य दोषताया एव हि नास्ति संभवः । नचैवमाकाहाबहिर्भूतपदवृत्तिज्ञानजन्योपस्थितिकाले शाब्दापत्तिनिवारैवेति वाच्यम् सहकारिवादजीवनभूतायां हि सामग्रीव्याप्तौ सत्याम् तथाहि यथा लाघवज्ञानसहकारादनुमितिापकतानवच्छेदकरूपेणापि विधेयं परिच्छिन्नत्ति तथा घटवावच्छिन्नप्रकारताकशाब्दबुद्धिवाद्यवच्छिन्नव्याप्यतया व्यापकसामग्रीघटकोपस्थितिवैशिष्टयोपरागेण घटोद्रव्यमित्याद्याकालाज्ञानघटितां सामग्री गृह्णन् प्राहकः पदान्तरज्ञानाद्यकल्पनालाघवज्ञानसाचिव्यवशात् कारणतानवच्छेदकेनाण्याकाडाघटकपदघटितसंबन्धविशेषेण कार्याधिकरणप्रत्यासनलविशिष्टाया एवोपस्थितेवैशिष्ट्य परिच्छिनत्तीत्युक्तस्थले नास्ति कार्यनियता काचिदपि सामग्रीति नापत्तिसंभवः । आत्मनिष्ठप्रत्यासत्त्याकारणलवादिनाप्युक्तव गतिरहीकरणीया आकाङ्क्षाज्ञानोपस्थित्योः खखाव्यवहितोत्तरत्वावच्छिन्नं प्रति कारणत्वे प्रागुक्तरीत्या सहकारित्वस्यासंभवात् तत्र तत्राकाङ्क्षाज्ञानादीनामन्यतमत्वेन कारणलानुक्तिश्चाकाडाज्ञानगतान्यतमत्वस्य दुज्ञेयत्वात् अन्यतमलस्य भेदकूटावच्छिन्नप्रतियोगिताकभेदरूपत्वेन विशेष्यतावच्छेदकधर्म बिना खलेकपोतन्यायेन विशेषणलस्याव्यवच्छेदकताया व्यासज्यवृत्तिवस्य वामभ्युपगमात्तत्र कूटत्वस्यैकविशिष्टापरत्वरूपतया भेदानां विशेष्यविशेषणभावे विनिगमनाविरहेणान्यतमत्वस्यानेकत्वादवच्छेदकभेदस्य सामान्यतोऽवच्छेद्यभेदकत्वाभ्युपगमाद्गुरुधमांवच्छिन्नकारणतानन्त्यप्रसङ्गरूपगौरवाचान्यतमलस्य कारणतावच्छेदकत्वासंभवात् एकत्र निणांत इति न्यायावलम्बनाच प्रकृते चान्यतमत्वस्य सुज्ञेयत्वात् लाघवानुरोधेन विनापि विशेध्यतावच्छेदकं खलेकपोतन्यायेन भानस्यावच्छेदकताया व्यासज्यवृत्तित्वस्य चाङ्गीकारात् समनियतधर्माणां भेदस्यावच्छेद्यभेदकलानङ्गीकाराचान्यतमत्वस्य कारणतावच्छेदकपटकसमभ्युपेत्य सामान्यकार्यकारणभावोक्तिरुक्तंचकेवलान्वयिग्रन्थे । कार्यतावच्छेदकेऽव्यवहितोत्तरत्वमनिवेश्य व्यभिचारवारणायान्वयव्यतिरेकसहचारविषयताद्वयान्यतरवत्त्वेन सहचारज्ञानस्य व्याप्तिग्राहकत्व इत्यादिनान्यत्तरत्वस्य कारणतावच्छेदकघटकत्वं स्वयमेव ग्रन्थकृता खजन कज्ञानीयविशेष्यत्वनिष्ठप्रकारतानिरूपिताया पद विषयतानिरूपितविषयखविषयतानिरूपितजन्यत्वविषयत्वविषयतानिरूपितबोधविषयत्वविषयतानिरूपितविषयत्वप्रकारत्वनिष्ठविषयतातनिरूपितावच्छेदकतानिरूपितत्वनिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वनिष्ठावच्छेदकतानिरूपितावच्छेदकताविशिष्टप्रकारत्वादेः संसर्गत्वस्य विवक्षणाद्विशिष्टनिरूपितशक्तिज्ञानस्य हेतुत्वेऽपि न विषयप्रवेशस्यावश्यकता। निरुक्तकमेण च सामग्रीच्याप्तेनिर्वचने घटत्वावच्छिन्नप्रकारकशाब्दबोधव्याप्यसामग्रीकोटौ खजनकज्ञानीयेत्यायुक्तसंबन्धेन घटत्वे प्रत्यासन्नाया उपस्थितेः प्रवेश्यखान्न घटोपस्थितिविनिगमकाले धर्मितावच्छेदकतासंबन्धेन दव्यत्वे शाब्दबोधापत्तिः । नच यत्र वचन खजनकज्ञा नीयेत्यादिसंबन्धेन विद्यमानाया व्यापकसामग्र्या अपेक्षितत्वे शाब्दापत्तितादवस्थ्यात् धर्मितावच्छेदकतासंबन्धेन कार्याधिकरणे प्रत्यासनाया उपस्थितेः व्यापकसामग्री विधयापेक्षितत्वस्य येन संबन्धेनेत्यादिग्रंथखरससिद्धताया वाच्यतया निरुक्तसामग्रीव्याप्तौ तत्प्रवेशस्य समूलत्वेन संभवेऽपि घटत्वे प्रत्यासान्नाया उपस्थितेः कथं प्रवेशो मूलविरहादिति वाच्यम् धर्मितावच्छेदकतासंबन्धेन द्रव्यत्वादौ घटत्वावच्छिन्नप्रकारकशाब्दबुद्धिरुत्पद्यमाना प्रकारतया घटलेप्युत्पद्यतएव तत्र चोप
SR No.008449
Book TitleVyutpattivada Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy