________________
गूढार्थतत्वालोकव्याख्यासहितः ।
२११ क्षणादौ विशिष्टाभावबोधानन्तरमेव तल्लिङ्गकानुमानगम्यो बलवदनिष्टानुबन्धित्वरूपस्तदननुबन्धिस्वाभावः प्रवर्तकमिव निवर्सकमपि शानं श्रुतिवाक्यात्परम्परयैव नतु साक्षात् । एतन्मते च न तादृशाभावस्य शाब्दबोधे भानं पदार्थंकदेशतया इतरविशेषणतयोपस्थितत्वेन नार्थविशेषणतयाऽनिष्टाननुबन्धित्वान्वयासंभवात् । वस्तुतो विशिष्टशक्तौ विशेष्यविशेषणभावे विनिगमनाविरहात् पृथगेव बलवदनिष्टाननुबन्धिताया वाच्यत्वम् । नच बलवदनिष्टाननुबन्धित्वे इष्टसाधनत्वस्य विशेष्यत्वे विधिवाक्यतः क्रियाविशेष्यकेष्टसाधनताशानासंभवात् क्रियागोचरचिकीर्षाद्यर्थ विधिवाक्यजशाब्दबोधोत्तरमिष्टसाधनत्वप्रकारकक्रियाविशेष्यकज्ञानान्तरं कल्पनीयमिति तदकल्पनप्रयुक्तलाघवमेव बलवदनिष्टाननुबन्धित्वस्य विशेषणत्ये विनिगमकमिति वाच्यम् । क्रियायां बलवदनिष्टासाधनत्वज्ञानस्यापि तद्गोचरेच्छाहेतुतया बलवदनिष्टासाधनत्वस्येष्टसाधनत्वविशेषणत्वमते क्रियाविशेष्यकतत्प्रकारकज्ञानान्तरस्य कल्पनीयतया मतदये कल्पनासाम्यतायदिख बलवदनिष्टसाधनत्वज्ञानमेव द्वेषसामग्रीत्वेनेच्छाप्रतिबन्धकं नतु तदसाधनत्वज्ञानमिच्छरहेतुस्तदोक्तस्य विशेष्यविशेषणभावे विनिगमकस्य संभवेऽपि विशिष्टस्य वाच्यत्वे श्येने विध्यर्थवाच्येन तद्विधायकश्रुतेरप्रामाण्यप्रसङ्ग इति शक्तिभेदस्य श्येने केवलेष्टसाधनताबोधस्य चोपगम आवश्यकः । मणिकृतापि विशिष्टस्य वाच्यत्वे श्येने विध्यर्थबाधेन तत्र बलवदनिष्टासाधनत्वस्याभानं लिखितम् । सदभानं विशिष्टशक्तिपक्षे न संभवति । विशिष्टशक्तेर्विशेषणविनिर्मोकेन विशेष्यांशाभासकत्वात् । तत्तद्धर्मप्रकारेण पदार्थविषयकशाब्दबोधे तत्तद्धर्माशे शक्यतावच्छेदकत्वपर्याप्त्यवगाहिज्ञानस्य हेतुत्वात् । अन्यथा विशिष्टस्वर्गादिवाचकवर्गादिपदाद्विना लक्षणां केवलं सुखत्वादिप्रकारकशाब्दबोधापत्तेः । यदिच केवलसुखत्यादिना स्वर्गादिरूपसुखबोधो लक्षणामन्तरेण स्वर्गादिपदादिष्यतएव नेष्यते परं सुखान्तरबोधस्तत्र शक्तिविरहादिति शक्यतावच्छेदकतापर्याप्त्यवगाहित्वमनुपयोगीत्युच्यते तदापि बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वस्य श. क्यतायां श्येननिष्ठवैविधसाधनत्वस्य बलवदनिष्टसाधनत्वनियतत्वेन तदसाधनत्वविशिष्टत्येन विधिमत्ययावाच्यतया सुतरा तत्र विध्यर्थत्वानिर्वाह एव । यत्तु श्येनस्यादृष्टाद्वारकत्वघटितहिंसालक्षणानाक्रान्ततया बलवदुःखाजनकत्वमिति मतान्तरम् । तदसत् । तथासति श्येने तात्त्विकप्रवृत्तिवारणाय बलवहुःखाप्रयोजकत्वज्ञानस्यैव प्रवृत्तिहेतुताया उपगन्तव्यतया तस्यैव विध्यर्थताया आवश्यकत्वेन श्येने तद्वाधाच्छुतेरप्रामाण्यप्रसङ्गतावस्थ्यात् । श्येनस्य हिंसात्वविरहेऽपि अभिचारतया नरकजनकत्वस्य दुर्धारत्वाच्च । यत्तु अभिचरन्नित्यस्य वैरिवधगोचरप्रबलकामनाविशिष्टार्थतया तादृशकामनाविशिष्टस्यैव पुरुषस्य बलवद्वेषविषयाजनकत्वरूपबलवदनिष्टाननुबन्धित्वघटकद्वेषानुदयात् तादृशकामनाविशिष्टवृत्तिबलवद्वेषविषयाजनकत्वं श्रुतिवाक्यात् प्रत्येतव्यं, तब श्येनेऽबाधितमेव वैरिवधे उत्कटरागवतस्तजन्यनरके बलवद्वेषानुत्पत्त्या तादृशनरकस्य वैरिवधोत्कटकामनाविशिष्टवृत्तिद्वेषाविषयत्वात् । नोकदा एकत्रावर्तमानयोरेकतरमपरविशिष्टवृत्तीति मिश्राणां मूलाभिप्रायवर्णनं तदपि न बलवद्वेषविषयदुःखजनकत्वत्वप्रतियोगिकाभावस्यातिप्रसक्ततया बलवद्वेषविषयदुःखजनकत्वत्वावच्छिन्नाभावस्य वाउयतास्वीकारे पुरुषविशेषीयबलवद्वेषविषयदुःखजनकत्वाभावस्य प्रत्ययासंभवात् ताडशदुःखजनकत्वे अभाये च खण्डशक्तिस्वीकारे विशिष्टशक्तिस्वीकारपरित्यागात् । एवं यत्रोत्कटरागो य. दा तत्रैव नोत्कटद्वेषस्तदा तज्जन्ये फले उत्कटरागदशायां च तजन्यदुःखरूपफलान्तरे उत्कटदेषे न किंचिद्वाधकमिति वैरिवधे उत्कटरागदशायां च श्येनजन्यनरके बलवद्वेषो दुरपवाद एब अस्तुवा फलविशेषोत्कटरागघटिता उपायगोचरोत्कटरागसामग्री तत्रैव तज्जन्यतया ज्ञाते सति फलान्तरेप्युत्कटद्वेषविरोधिनी तथापि नरकवैरियधयोरेकतरं प्रति श्येनस्य हेतुत्वाग्रहदडायां तयोर्बलवद्वेषरागयोर्युगपत्संभव पव । यत्तु दीक्षाङ्गपशुघातस्य नरकासाधनतया मा हिंस्यादिअभावैधहिंसैव विवक्षितेति श्येनस्य नरकासाधनत्वोपपादनं, तदपि न । तावतापि अभिचारविधया धात्वस्य दुर्वारत्वात् । अथ खण्डशक्तिमवलम्ब्यानिष्टासाधनत्वविनिर्मोकेन क्वचिद्विधिबोधोपगमे
---- ण्डशक्तिस्वीकारइति । विशिष्टशक्ती प्रतियोगिताविशेषसंसर्गघटितरूपस्यानेकतयाऽनेकशत्यापत्तिरिति खण्डशक्तिः खीकरणीया तथासत्यभिवरनित्यादिसमभिव्याहारवलादेव स्वनिष्ठप्रतियोगित्वस्य शत्रुवधकामनावदृत्तिद्वषविषयदुःखजनकता