________________
२१०
व्युत्पत्तिवादः। न्यतसादिरूपफलेऽपि कदाचित्कस्यचिदिष्टसाधनताभ्रमेणेच्छोत्पत्त्या मण्डलीकरणादावपीष्टसाधनत्वाबाधेनेष्टसाधनत्वविध्यर्थतामतेऽपि तद्वाक्यप्रामाण्यस्यावश्यकतया इष्टापत्तेः। स्वर्गकामो मण्डली कुर्यादिति वाक्यजन्यबोधे च स्वर्गकामनाया मण्डलीकरणादिनिष्टकर्तव्यत्वप्रयोजकत्वभानेन तदर्थबाधेन तद्वाक्याप्रामाण्योपपत्तेन चेष्टसाधनत्वस्य विधिप्रत्ययार्थत्वानुपगमे स्वर्गकामो यजेतेत्यादिवाक्याद्यागादी प्रवृत्त्यनुपपतितत्राभावगोचरद्वेषघटितसामनयसंभवात् यागाद्यभावस्थ नरकादिरूपद्विष्टसाधनस्वाभावात् दृष्टसाधनत्वबोधकमानाभावेन तज्ज्ञानघटितसामठ्या अपि भवन्मते दुर्घटत्वादिति वाच्यम् । इष्टसाधनत्वस्य विध्यर्थताविरहेऽपि स्वर्गासाधनं न वर्गकामनाधीनकृतिसाभ्यमितीतरषाधबलात्स्वर्गकामकृतिसाध्यतान्वयितावच्छेदकतया स्वर्गसाधनत्वस्योकविधिजन्यबोधे भानाद्यागादाविष्टसाधनताशानादेव प्रवृत्तिनिर्वाहात् । इत्थंच सम्ध्यावन्दनादी तत्कालावच्छिन्नशौचादिकमेवाधिकारो नतु फलकामनापि । अतः फलकामनाशून्यस्यापि शौचादिमतः सन्ध्यावन्दनाकरणं प्रत्यवायजनक फलकामनायास्तत्राधिकारत्वे तच्छन्यस्यानधिकारि. तया तदकरणं न प्रत्यवायमावहेत् । नच मुमुक्षापवादेन स्वर्गादिरूपफलकामनायाः कदाचिदसभवेऽपि नरकामावरूपफले नियमत पवेच्छासंभवतीति न शौचादिमतः सन्ध्यावन्दनाधकरणस्य प्रत्यवायजनकत्वानुपपत्तिरिरिति वाच्यम् । नरकाद्यनुपस्थित्यैव तदभावाशानेन तदिच्छाविरहोपपतेरित्याहुः। तदसत् । ध्वंसादेरत्यन्ताभावविरोधिताया निष्प्रमाणकतया नरकात्यन्ताभावस्यैव प्रायश्चित्तसन्ध्यावन्दनादिफलत्वसंभवादिष्टसाधनताज्ञानाद्यघटितप्रवृत्तिसामध्या असिद्धेः, करणान्तरकल्पनापेक्षया गुरुशरीरक्षेमसाधनताशानस्यैव सर्वत्र प्रवृत्तिहेतुतेति दण्डाद्धट इत्यादिप्रतीतिबलात्स्वरूपसंबन्धविशेषरूपस्य क्षेमसाधारणसाधनस्वस्योपगमे तच्छरीरगौरवस्याप्यभावाश्चेति नित्यस्थले शौचादिफलकामनयोरुभयोरधिकारत्वेऽपि प्रत्येकमेव तयोरधिकारिता नतु मिलितयो. रिति फलकामनाशून्यस्यापि शौचादिमतोऽधिकारितया तस्यापि नित्याकरणं प्रत्यवायजनकम् । अथ वा सन्ध्यावन्दनाकरणेन प्रत्यवायजननेऽधिकारैकदेशशौचादिमत्त्वमेव सहकारि नतु फलकामनापि तदसत्त्वेपि प्रत्यवायोत्पत्तेः सर्वसिद्धत्वात् । एतेन संवलिताधिकारानुपगमे शौचादिशून्यफलकामनावतो दैवान्नित्याकरणं प्रत्यवायं जनयेदिति निरस्तम् । अतएव नित्यकाम्यजयन्तीवतादौ फलकामनाया अधिकारत्वस्य सर्वसिद्धतया शौचादिमतः फलकामनारहितस्य तदकरणं प्रत्यवायं जनयतीति । अपरेतु चैत्यनवन्दतेति वाक्यप्रामाण्यानुरोधेनेष्टसाधनत्वस्य विध्यर्थत्वमावश्यकम् । कृतिसाध्यत्वादिमति चैत्यवन्दनादौ कृतिसाध्यत्वाद्यभावस्य नञा बोधने तद्वाक्यस्याप्रामाण्यापत्तेः । कृतिलाध्यतायाश्च विधित्वं नियुक्तिकम् । तदनङ्गीकारेऽपि कृतेराख्यातसामान्यार्थतया विधिप्रत्ययस्यापि तदर्थकतया पचेतेत्यादौ कृतः पाकानुकूलत्वभानस्यावश्यकतयार्थात्पाकादावपि कृतिलाध्यताभानात् । कृतिसाध्यताया किधित्वेऽपि तत्तत्कालतत्तत्पुरुषविशेषितकृतिसाध्यताविषयकस्य प्रवर्तकज्ञानस्य शाब्दबोधोन्तरमेव स्वीकरणीयतया विधिवाक्यजशाब्दबोधतः साक्षात्प्रवृत्त्यनिर्वाहात् । अस्तु वा साध्यतासंबन्धेनैवाख्यातसामान्यार्थकृतेः क्रियायां विधिप्रत्ययजन्यवोधे भानम् । प्रवर्तिका चिकीर्षापि साध्यतासंबन्धेन कृतिप्रकारिका क्रियेच्छैव । नच लडादिस्थले आख्यातार्थकृतेः क्रियाविशेयतयैव भानमिति व्युत्पत्तेः कप्तत्वात्पचेतेत्यादौ न तस्याः क्रियाविशेषणतया भानसंभव इति वाच्यम् । व्युत्पत्तिवैचित्र्येण तदुपपत्तेः । शत्यभेदेपि व्युत्पत्तिभेदे बाधकामाचात् । अतएच प्राचीनैराख्यातार्थस्यैव कृतेः कर्मप्रत्ययस्थले क्रियाविशेषणतया भानमुपेयते एवं क्वचित्पाकादाविव सर्वत्रैय यागपाकादेः लौकिकप्रमाणादेव कृतिसाध्यताबोधो निर्वहतीति वदन्ति । न कललं भक्षयेदित्यादिनिषेधविधेः प्रामाण्यानुरोधतः बलवदनिष्टाननुबन्धित्वस्य विध्यर्थे प्रवेशः । निषिद्धेऽपि कलाभक्षणादौ तृप्त्यादिरूपेष्टसाधनत्वसत्त्वेन तदभावस्य ना बोधने प्रामाण्यानुपपत्तेः । बलवनिष्टाननुबन्धित्वस्य विधित्वे तस्यैवाभावो बलवनिष्टनरकानुबन्धिनि तत्सत्कर्मण्यबाधितो बोध्यत इति तत्प्रामाण्योपपत्तिः । बलवदनिष्टाननुबन्धित्वस्येष्टसाधनताविशेषणतया वाच्यत्वे विशिष्टाभावस्यैव शाब्दबोधे भानम् । सोऽपि विशेषणाभावो यतोऽवाधितः फलअभ
- -- -..-..............-- ---- ---- पतेनेति । अथवेत्यादि पक्षान्तरोपगमेनेत्यर्थः ।