________________
यककामावविशिसंभवः । वताहश
गूढार्थतत्वालोकव्याख्यासहितः ।
२०९ दकविशिष्टस्य प्रमाणान्तरावेद्यतया तत्र शक्तिनिश्चयासंभवात् । नहि समभिव्याहतफलबोधकपदोपस्थाप्यतावच्छेदकत्वरूपोपलक्षणधर्मेण यथा स्वर्गत्वादीनां शक्तिग्रहे भान तथोपलक्षणीभूतताहशपदोपस्थाप्यतावच्छेदकसंबन्धत्वेन विजातीयस्वर्गनिष्ठसमवायादेरपि तत्र भामसंभवः । स्वर्गपदारुद्धसमवायेनैव स्वर्गवविशिष्टस्योपस्थितौ विशिष्टसमवायेन स्वर्गत्वविशिष्टस्य स्वर्गपदार्थत्वोपगमे लक्षणाप्रसङ्गात् । शुद्धसमवायेन वर्गत्वविशिष्टविषयककामनावतोऽनधिकारप्रसङ्गात् ।मीमसिकास्तु अहरहः संध्यामुपासीतेत्यादी नित्यतया निष्फले संध्योपासनादाविष्टसाधनत्वस्यायोग्यत्वेनान्वयासंभवान्नेष्टसाधनत्वं लिङर्थः । अथ संध्यावन्दनादेरप्यर्थयादोपस्थापितब्रह्मलोकायाप्यादिफलसाधनत्वमव्याहतम् । यत्र नित्येऽर्थवादादपि न फलोपस्थितिस्तत्रापि फलाभावनिश्चायकप्रमाणाभावाद्योग्यतासंशयसंभवेन फलसाधनत्वप्रत्ययो लिङादितः संभवत्येव । नव तद्वोथो नोपयोगी निष्फलतया शाते चैत्यवन्दनादी प्रवृत्तिवारणायेष्टसाधनताशानस्य प्रवृत्तिहेतुतावश्यकत्वेन नित्यविधेः प्रवृत्तिनिर्वाहाय तस्य फलसाधनताबोधकताया आवश्यकत्वादिति चेत्र । "संध्यामुपासते ये च सततं संशितव्रता" इति श्रुतौ सततमिति श्रुतेः कदाचिद्यस्य संध्यावन्दनादिबाधस्तेन स्वीयसंध्यावन्दने ब्रह्मलोकावाप्तिफलानुपधानस्य निश्चिततया अहरहः संध्यावन्दने ब्रह्मलोकायाप्तिसाधनताबोधनेऽपि तस्य संध्याश्रन्दने प्रवृत्यनिर्वाहात् यत्र च नित्येविशिष्यफलबोधकोऽर्थवादादिनास्ति तत्र विधिप्रत्ययेन इष्टत्वेन फलसाधनताबोधस्य जननेऽपि इच्छाविषयताऽवच्छेदकस्वर्गत्वादिरूपविशेषधर्मप्रकारेण फलविषयकतत्साधनताबोधस्यानिर्वाहेण प्रवृत्त्यनिर्वाहात् । इष्टसाधनताशानाघटितकारणस्तोमात्मिकायाः संध्यावन्दनाद्यभावगोचरनरकादिसाधनताशानाधीनतद्गोचरद्वेषघटितसामग्र्या एव संध्यावन्दनादी प्रवर्तकताया उपगन्तव्यतया नित्यस्थले इष्टसाधनताबोधस्यानुपयोगिताया दुरित्वात् । नच विश्वजिता यजेतेत्यत्र विशिष्टफलाश्रवणेऽपि यथा स्वर्गकामपदस्थाध्याहारेण तत्समभिव्याहाराद् वि. शेषरूपावच्छिन्नस्वर्गसाधनताबोधस्तथा नित्यस्थलेऽपि विशेषधर्मप्रकारकस्वर्गसाधनबोधसंभषात् उक्तप्रवृत्तिसामग्यन्तरकल्पनमयुक्तमिति वाच्यम् । बहुविसत्ययायाससाध्यविश्वजिद्यागेनतसब्रामपश्वादिफलोद्देशेन प्रवृत्त्यनुपपत्तेः, तद्विधेः स्वर्गफलतात्पर्यनिश्चयात्संध्यावन्दनादौ चाल्पायाससाध्ये ग्रामादिफलोद्देशेनापि प्रवृत्त्युपपत्तेः, तद्विधेः स्वर्गपरत्वनिश्चयायोगात् । स्वर्गादिफलकामनारहितैर्मुमुक्षुभिरपि संध्यावन्दनाद्याचरणादुक्तप्रवृत्तिसामग्रीकल्पनस्यावश्यकत्वाच। ताहशसामग्री विना प्रायश्चित्तादाविष्टासाधने प्रवृत्त्यनिर्वाहाच्च । नच तत्रापि पापध्वंसेष्ठसाधनताज्ञानात्प्रवृत्तिनिर्वहति । सुखदुःखाभाचेतरगोचरेच्छायां इष्टसाधनताशानस्य नियमतोऽपेक्षायां निष्फलपापध्वंसस्येष्ठत्वासंभवात् । नरकसाधनगोचरद्वेषस्य तसगोचरेच्छाजनकत्वोपगमेऽस्मसमीहितायामिष्टसाधनत्वज्ञानाघटितप्रवृत्तिसामग्यामविवादात् । कृतिसाध्यताशानसहितेच्छासामान्यसामग्रीतश्विकीर्घोत्पत्तनिष्फलेऽपि संध्यावन्दनादौ निर्वाहेण प्रवृत्त्युपपत्तेः । नच नरकानुत्पाद एव प्रायश्चित्तस्य संध्यावन्दनादेश्च फलमितीष्टसाधनताज्ञानघटितैव प्रवृत्तिसामग्री नरकद्वेषवतां च तदनुत्पादे नियमत एवेच्छेति तेषां नित्यसंध्यावन्दनाद्यनुष्ठानमुपपद्यते । अन्यैश्च तत्रानुष्ठीयते इति वाच्यम् । नरकानुत्पादस्य तत्प्रागभावात्मकस्य प्रतियोगिविकल्पग्रासेन फलत्वासंभवात् । अत्यन्ताभावस्य प्रतियोगिविरोधितया कदाचिस्पापान्तरण यस्य नरकदुःखं जनितं जनिष्यते वा तदात्मन्यसरवानित्यत्वेन चोभयोः फलत्वासंभवात् । योगक्षेमसाधारणसाधनतायाश्च गुरुशरीरत्वेन प्रवृत्त्यनुपयोगित्वात् । यदपि मण्डली कुर्यादिस्यादिवाक्यप्रामाण्यवारणायेष्टसाधनत्यस्य विध्यर्थत्वमावश्यकमिति तदपि न । मण्डलीकरणादिज
प्रतियोगिविकल्पग्रासेनेति । यस्य कदाचिदपि नोत्पादस्तस्य प्रागभावे मानाभावात्तस्यावस्तुलात् । यस्यावश्यमुत्पत्तिस्तस्यैव प्रागभावस्य खीकरणीयतया सन्ध्योपासने कृतेऽपि तदुत्पत्तेरावश्यकलात्तदनुत्पत्त्यर्थ सन्ध्योपासनस्य वैयर्थ्यांपत्तेरिति भावः। यदि च सन्ध्यावन्दनायकरणजन्यतावच्छेदकदुःखगतवैजात्यस्य प्रसिद्धत्वेन तदयच्छिनप्रतियोगिताकागभावो दुःखं मे माभूदिति प्रतीतिसिद्धो नाप्रसिद्धः सन्ध्यावदनाद्यकर्तरि तत्प्रसिद्धः स चैक एवात्यन्ताभाववत्त्वस्य संबन्धः प्रत्यात्मगतो नानाप्र. तियोग्युत्पादविनाश्यो येन सन्ध्याबन्दनं क्रियते तदात्मनि कदाचिदपि तादृशदुःखस्योत्पादसंभवात् प्रागभावसंबन्ध एव सदैव वर्तते येन तु न तरिक्रयते तस्य दुःखोत्पादेन प्रागभाव संबन्धनाश इतिचेदुपेयते तदायाह । फलत्वासंभवादिति।
व्युत्प० २७