________________
૧૦:
व्युत्पत्तिवादः ।
भानात् । प्रतियोगितासंबन्धेन प्रतियोगिप्रकारकज्ञानश्व प्रतियोगिकोटावुपलक्षणप्रकाराभाननिय मात् । प्रकृते च कारणताशरीरघटकाभावस्य प्रतियोगिताप्रकारेण भाननियमात् । अतएव स्वरूपतो वशित्वाद्यवच्छिन्नप्रतियोगिताकाभावस्य वह्नित्वाद्यवच्छिन्नव्यापकतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नाभावत्वेन लक्षण प्रवेशस्य संभवदुक्तिकता । इत्थमेव चेष्टतावच्छेदकधर्माणामुपलक्षणीभूतेनेष्टतावच्छेदकत्वेन व्यापकताघटकाभावप्रतियोगितावच्छेदकको व्यप्रविष्ठेनापीष्टतावच्छेदकधर्माणां सर्वसाधारणशक्तिप्रदे भानमुपपद्यत इति । एतेन नियतोत्तरवर्तितावच्छेदकधर्मवत्स्वर्गकत्वस्य विध्यर्थतामते यागादिधर्मिकताहशकारणताग्रहस्य प्रवृत्तिहेतुता वाच्या । तदपेक्षया च स्वर्गादिधर्मिक नियतोत्तरवर्त्तितावच्छेदकधर्म रूपयागादिसाध्यताज्ञानस्य प्रवृत्तिहेतुत्वे तादृशसाध्यताविशिष्टमात्रस्य विध्यर्थत्वे च लाघवम् तादृशसाध्यताया निरुक्तसाधनान्तर्गतत्वादितीष्टसाधनत्वस्य विभ्यर्थत्वं प्रवर्त्तकत्वं च व्याहन्येत । एवं यत्र कारणतावच्छेदकधर्मोप्यनुपस्थितोतिप्रसकेन न्यूनवृत्तिना वा धर्मेण कारणमुपलक्षितं तत्र शब्दात्कारणताग्रहानुपपत्तिश्चेति निरस्तम् । व्यापकताघटितकारणतायाः साध्यतामपेक्ष्यागरीयस्या एवोक्तरीत्या प्रवर्त्तकत्वादिसंभवात् । तादृशसाधनताशरीरेव्यापकतावच्छेदकत्वेनैव कारणतावच्छेदकप्रवेशात्तब्रहे विशिष्य तदुपस्थित्यनुपस्थित्यनुपयोगाश्चेति । विजातीयस्वर्गनिरूपितसमवाय एव स्वर्गादिनिष्ठयागादिजन्यतावच्छेदकसम्बन्धः । तथाच वैजात्यस्य सम्बन्धघटकतयैव व्यापकताशरीरे निवेशाश्नोपस्थित्यपेक्षा । नवा कारणताविघटकव्यभिचारावकाश इत्याहुः । तदसत् । विजातीय स्वर्गनिरूपितसमवायत्वेन संबन्धतायां मानाभावात् । तादृशसंबन्धघटितव्यापकताया विधिप्रत्ययार्थत्वे तस्य स्वर्गादिनिष्ठवैजात्यभेदेन शक्तिबाहुल्यप्रसङ्गात् । तादृशकार्यसंबन्धघटितेष्टकारणतायाश्च प्रमाणान्तरेणाप्रत्यायितत्वात् । तत्र शक्तिप्रदानुपपत्त्या शाब्दबुद्धौ तद्भानानुपपत्तेश्च । नचेष्टतावच्छेदकत्योपलक्षितस्वर्गत्वावच्छिन्ने कारणताघटकाधिकरणादिपदार्थे च खण्डशः शक्तिरुपेया । आकाङ्क्षावशायाधिकरणरूपविध्यर्थे विजातीय स्वर्गनिरूपितसमवायस्य संबन्धतया भानात्तादृशकाय संबन्ध घटित कारणतायाः शाब्दबोधे भानमुपगन्तव्यम् । नतु तादृशसंबन्धान्तर्भावेण शक्तिरिति न काचिदनुपपत्तिरिति वाच्यम् । एवंसति संसर्ग तात्पर्यज्ञानानुरोधेन तादृशसंसर्गोपस्थिस्यपेक्षाया दुर्वारत्वात् । नच तत्संसर्गेण विशेषणविशिष्टविशेष्यपरत्वज्ञानमेव संसर्गभाननियामकम् तत्रापि च संसर्गः संसर्ग एव नतु विशेषणमिति न ज्ञानापेक्षेति वाच्यम् । विशेषणविशिष्टविशेष्यस्य वाक्यार्थत्वेन पूर्वमनिश्चिततया तत्परत्वमस्य शाब्दबोधात्पूर्वमसंभवात् । तत्तत्संबन्धविषयतानिरूपितविशेषणादिविषयताशालिबोधपरत्वशानस्यैव हेतुतया तत्र संबन्धस्य विशेषणतया तदुपस्थितेरावश्यकत्वात् । एवं विजातीयस्वर्गनिरूपित्तसमवायसंबन्धेन स्वर्गत्वावच्छेदेन जन्यतोपगमे स्वर्गत्वस्याश्वमेधजन्यत्व सामानाधिक
मात्रमेव हि शन्देनापि प्रतीयते नतु स्वर्गस्वस्य जन्यतावच्छेदकत्वमसामर्थ्यादसंभवाश्चेत्यादिमिश्रग्रन्थविरोधः । यत्तु वैजात्यमेव कार्यतावच्छेदकं तच्च संबन्धविधयैव कारणताघटक कार्यतावच्छेदकधर्मविशिष्टनिरूपितकार्यतावच्छेदकसंबन्धेन कार्य वन्निष्ठाभावाप्रतियोगित्वस्य कारणताशरीरे निवेश्यत्वादिति । तदप्यसत् । कार्यस्य कार्यतावच्छेदकरूपेणैव निवेशनीयतया तदुपस्थित्य पेक्षा धौव्यात् । नच संबन्धसंकोचे प्रमेयत्वेनैव कार्यप्रवेशः संभवतीति वाच्यम् । विजातीय स्वर्गवनिष्ठाभावप्रतियोगितात्वस्यागुरोरवच्छेदकत्वसंभवे विजातीय स्वर्गीयसमवायसंबन्धेन प्रमेयवन्निष्ठाभावप्रतियोगितास्वरूपगुरुधर्मावच्छिन्नाभावाप्रसिद्धेः । एतेन स्वर्गत्वमेव यागजन्यतावच्छेदकमवच्छेक्षुकर्ताघटकसमवायसंबन्धसंकोचे न व्यभिचार इत्यपि निरस्तम् । तादृशसंबन्धविशेषणेष्टतावच्छे
प्रतियोगिताप्रकारेणेति । स्वर्गधर्मलसमानाधिकर णानवच्छिन्नावच्छेदकतानिरूपितावच्छेदकतानिरूपिताधिकरणखनिठावच्छेदकतानिरूपितावच्छेदकता निरूपिताधेयत्वनिष्ठावच्छेदकता निरूपिताभावनिष्ठा वच्छेदकता निरूपितप्रतियोगित्वनिष्ठावच्छे. दकतानिरूपितावच्छेदकता त्वनिष्ठावच्छेदकता निरूपिततत्तदवच्छेदकनिष्ठावच्छेदकताभिभावच्छेदकत्वानिरूपितप्रतियोगितानिरूपकत्वेनेत्यर्थः । यदि स्वर्गधर्मत्वस्यावच्छेदककोटौ विशेषणत्वं स्यात् स्वर्गधर्मत्वावच्छिन्नावच्छेदकतानिरूपकत्वघटितप्रतियोगितानिरूपकत्वेन प्रवेशः स्यादिति भावः । लक्षणेप्रवेशस्येति । धूमे वह्निद्रव्यादिव्याप्यत्वस्यानुगतैकलक्षणे वह्निलावच्छि, मव्यापकतावच्छेदकत्वसमानाधिकरणनिरवच्छिन्नावच्छेदकता कप्रतियोगिताकाभाववन्निरूपितवृत्तिखाभावत्वरूपे प्रवेशस्यैत्यर्थः