________________
गूढार्थतत्वालोकव्याख्यासहितः ।
मनाया अधिकारत्वानुपपत्तेः । अथेष्टत्वस्य शक्योपलक्षणत्वे तदंशाभान निर्वाहेपि स्वर्गत्वादेरशक्यस्य भानं न संभवति अशक्यस्य भानोपगमेतिप्रसङ्गादिति चेत् । स्वर्गत्वाद्यवच्छिन्ने समभिव्याहतकामनाविषयत्वज्ञान सहकृतस्य ताढशकामनाविषयतावच्छिन्नशक्तिशानस्य स्वर्गत्वादिप्रकारकशाब्दधीहेतुत्वोपगमेतिप्रसङ्गानवकाशात् । वस्तुतस्तादृशकामनाविषयतावच्छेदकत्वोपलक्षितस्वर्गस्वादिविशिष्टसाधनत्वे शक्तिस्वीकारात्सर्वसामञ्जस्यम् । नच स्वर्गत्वादिविशिष्टसाधनत्वस्य विधिप्रत्ययवाच्यत्वं न संभवति स्वर्गत्वादेर्गास्नानादिजन्यस्वर्गादिसाधारण्येन यागादिजन्यतानवच्छेदकतया यागादौ स्वर्गत्वादिविशिष्टसाधनत्वबाधात् नहि जन्यतानवच्छेदकधर्मो जनकत्वनिरूपके विशेषणमिति वाच्यम् । स्वर्गत्वादेः शक्यविशेषणत्वेपि तदुपलक्षितवैजात्यावच्छिन्ननिरूपितजनकताया यागादावबाधितायाः स्वर्गादिजनकतात्वेन विधिप्रत्ययतो भानसंभवात् । घटत्वादिविशिष्टवाचकपदघटितादू घटं द्रव्यखेनैव जानातीत्यादिवाक्यात् घटत्वाद्युपलक्षितघटादिविशेष्यकस्वभानवत् । नच तद्धर्मावच्छिन्ननिरूपिततत्साधनत्वज्ञानं विना तद्धर्मप्रकारकफलेच्छाधीनप्रवृस्यनिर्वाह इति शक्यम् । वह्नित्यादिप्रकारकेच्छातोपि तृणादिसमवधानेऽभ्रान्तप्रवृतेरानुभविकत्वात् भूयः सुखार्थिनामपि भ्रमं विना क्रियाविशेषे प्रवृत्तेश्च तद्धर्मावच्छिन्नफलार्थिप्रवृत्तौ तद्धर्मप्रकारेण भासमानफलं प्रति साधनताज्ञानस्यैव प्रवर्त्तकत्वात् । सच धर्मः कार्यतावच्छेदकतया भासतां कार्यशे उपलक्षणतयैव वेत्यन्यदेतत् । नहि वह्नित्वादिकं तृणादिजन्यतावच्छेदकं व्यभिवारिसाधारणत्वात् । नवा भूयस्त्वादिकं कस्यचिजन्यतावच्छेदकमर्थवश संपन्नत्वात् । एवं सति accara fच्छन्नफलार्थी तत्त्वादौ कथं न प्रवर्त्तते तन्त्वादेरपि घटत्वाद्युपलक्षितजन्यसरवादि विशिष्टनिरूपितद्रव्यत्वावच्छिन्न साधनतावत्त्वादिति चेत् फलानुपधाननिश्चयात्तस्य स्वातत्रयेण प्रवृत्तिप्रतिबन्धकत्वात् फलोपधायक साधनत्वस्य वा विधिप्रत्ययार्थतया घटका मस्तन्तुमुपाददीतेत्यादिर्न प्रयोगः । नख तथापि स्वर्गत्वादेर्यागादिनिष्टकारणता घटक व्यापकतानिरूपकतानवच्छेदकतया स्वर्गत्वावच्छिन्ननिरूपितव्यापकता घटितकारणताया बाधः स्वर्गादिनिष्ठकार्यतावच्छेदकवैजात्यस्य च कारणतामहोत्तरकालकल्प्यत्वेन प्रागनुपस्थित्या तद्वच्छननिरूपितव्यापकताबोधासंभव इति स्वर्गकाम इत्यादी विध्यर्थबोधानुपपत्तिर्युर्वारैवेति वाच्यम् । स्वरूपसंबन्धरूपाया एव कारणताया विध्यर्थत्वोपगमात् । अन्यथा सिद्धिनिरूपकतानवच्छेदकनियतोसरवर्त्तितावच्छेदकधर्मवत्स्वर्गकत्वमेव स्वर्गकारणत्वं । नियतोत्तरवर्तितावच्छेदकश्च धर्मो विशिष्य उत्तरकालकल्प्यो जातिविशेष एव नियतोत्तरवर्तितावच्छेदकत्वेन सामान्यरूपेण शाब्दबुद्धौ भासते नियतोत्तरवर्त्तितावच्छेदकत्वं च कारणतावच्छेदकत्वाभिमतधर्मावच्छिन्नतद्व्यापाराभावाधिकरणताविशिष्टोत्पत्तिक्षणावच्छिन्नाधिकरणतानिरूपकतानवच्छेदकत्वम् अधिकरणतावैशिष्ट्यं च स्वावच्छेदकक्षणाव्यवहितोत्तरक्षणावच्छिन्न स्वाश्रयनिष्ठत्व संबन्धेन । वस्तुतः स्वर्गनिष्ठधर्मावच्छिन्ननिरूपितनियतपूर्ववर्तितावच्छेदकधर्मवत्त्वमेव स्वर्गकारणत्वम् । नियतपूर्ववर्तितावच्छेदकत्वं चाव्यवहितपूर्वकालावच्छिन्नवृत्तिकाभावघटितदैशिकव्यापकतायाः स्वाश्रयत्वस्वाश्रयनिरूपितव्यापारव्यवत्त्वा
२०७
म्यतरसम्बन्धेनावच्छेदकत्वमेव व्यापकत्वनिरूपकतावच्छेदकवैजात्यस्य विशिष्यानुपस्थितावपि वर्गधर्मत्वेन ज्ञानं संभवत्येव । व्यापकताघटकाभाषप्रतियोगितायां स्वरूपतोषच्छेद क कोटिप्रवि टाया अपि जातेर्व्यापकताभाने स्वर्गधर्मस्वादिना भाने न बाधकम् । स्वर्गधर्मत्वादेरुपलक्षणता युक्तमा तस्यासंभवात्तादृशज्ञापकबलेन व्यातेन इत्यस्योपपादनमयुक्तमित्यर्थः । अधिकारत्वानुपपत्तेरिति । यद्धर्मावच्छि प्रसाधनताज्ञानात्प्रवृत्तिस्तत्प्रकारककामनाथाएवाधिकारत्वात् प्रकृतेच स्वर्गाभिन्नसाधनताज्ञानात्प्रवृत्तिरुपगता नहि खर्गलाकच्छिन्नसाधनताज्ञानादित्यर्थः । स्वरूपतोवच्छेदक कोटीति । विजातीयस्वर्गसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वाभा'बीयावच्छेदकत्वनिष्ठप्रतियोगितावच्छेदककोटौ वैजात्यस्य स्वर्गधर्मत्वादिना न प्रवेशोऽपितु खरूपत एव स्वर्गधर्मत्वेन प्रवेशे बांगलादौ स्वर्गधर्मावच्छिन्नसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वस्यैव सत्त्वेन व्यापकतावच्छेदकत्वं दुर्घटं स्यादितिभावः ।