________________
व्युत्पत्तिवादः ।
२०६
क्तंश्थले लवारणानुपपत्तेः । इदमप्यनद्यतनत्वं प्रकृतशब्दप्रयोगाधिकरणदिनावृत्तित्वम् । अथवा स्वातन्त्र्येणानद्यतनत्वं न लङर्थः किंतु तादृशदिनाद्यक्षणवृत्तिध्वंसप्रतियोगित्वरूपमनद्यतनातीतत्वं विशिष्टमेवातीतत्वमनद्यतनत्वम् ।
परोक्षत्वं च लिटोर्थः । अध्यास्त सर्वर्तुसुखामयोध्यामित्यादौ परोक्षत्वसत्त्वेपि परोक्षत्वाविवक्षया न लिट् । परोक्षत्वं वक्तुः साक्षात्काराविषयत्वम् । केचित्तु स्वभिनकर्तृकत्वमेव परोक्षत्वमतएव लिड्डुतमपुरुषासंभवेना परोक्षतायामपि लिटः साधुत्वे णलुत्तमो वेत्यादेर्शापकत्वमुपायकारोक्तं संगच्छते । अन्यथा निद्रादिदशायां स्वकर्तृकगमनादिक्रियायाः खपरोक्षत्वसंभवेन शापकत्वासंगतेरित्याहुः । कलिङ्गे दृष्टोलि नाहं कलिङ्गान् जगामेत्यादावत्यन्तापह्नवस्थले सूत्रान्तरेण क्रियाया अपरोक्षत्वेपि लिविधानात् तादृशशापकबलेन व्यातेने किरणावलीमित्यत्र लिटः साधुत्वोपपादनमुपायकृतामयुक्तमेवेति बोध्यम् । अत्यन्तापह्नवश्चाबाधितपरोक्तविपरीतबोधनाय तदुपपादकाभावप्रतिपादनेच्छा कलिङ्गाधिकरणकदर्शनादेरुपपादकं कलिङ्गगमनादिकं तेन विना तद्संभवात् । अत्यन्तापह्नवस्वरू पन्नेव लिट्साधुता नियामकः ।
लिङ्लोटोर्बिधिरर्थः, परप्रवृत्त्यर्थे तत्प्रयोगात् । विधिः प्रवर्त्तकज्ञानविषयो धर्मः स च धर्मों न्यायनये कृतिसाध्यत्वं बलवदनिष्टाननुबन्धित्वसहितमिष्टसाधनत्वं च, ओदनकामः पचेत्स्वर्गकामो यजेतेत्यादावोदनस्वर्गादिरूपं यत्फलं तत्साधनत्वं पाकयागादि क्रियायां प्रतीयते । तादृशफलानां च तत्तद्रूपेण लिङादिशक्यतावच्छेदककोटिप्रवेशे शक्त्यानन्त्यं सर्वसाधारण्येन व्युत्पत्त्यनुवयेनापूर्वफलसाधनबोधानिर्वाहश्चेतीष्टत्वेन तेषामनुगमः। इष्टत्वं समभिव्याहृतपदोपस्थापितकामनाविषयत्वमतः स्वर्गकामः पचेतेत्यादौ शक्तिभ्रमशून्यस्य नौदनादिसाधनत्वघीर्नवा तत्तात्पर्येण तथा प्रयोगः प्रामाणिकानामिष्टत्वज्ञानस्याप्रवर्तकत्वेपि शक्यफलानुगमार्थं तस्य शक्यता । वस्तुतस्तु अशक्यस्यैव तस्य शक्यानुगमकता सर्वनामस्यले बुद्धिस्थत्वच तेन रूपेण फलानां संकेतविषयतां विना शक्यैक्यासंभवात् । तस्य संकेतविषयत्वोपगमेपि यथा न तस्य वाच्यता तथा प्रपञ्चितमन्यत्र । अत्रचेष्टत्वस्य शाब्दबोधेऽभानाद्विशिष्टेष्टतावच्छेदकस्वर्गत्यादिप्रकरेण शाब्दबोधोत्पत्या विधिवाक्यात्प्रवर्त्तकज्ञाननिर्वाहः यसु दृष्टत्वेन फलभानेपि स्वर्गकामादिपदैकदेशोपस्थित स्वर्गत्वावच्छिन्नस्य विध्यर्थैकदेशे इष्टेऽभेदान्वयात्प्रवर्त्तकशाननिर्वाह इति । तदपि न सत् वृत्तिशब्दैकदेशे इतरानन्वयनियमात् स्वर्गत्वादिप्रकारेण कामनाधीनप्रवृत्तौ स्वर्गत्वादिविशेषितफलसाधनताज्ञानस्य हेतुतया अभेदेन स्वर्गादिविशेषितफलसाधनताज्ञानस्यानुपयोगित्वाच । अभेदेन स्वर्गादिप्रकारकस्वर्गादीष्टसाधनताज्ञानमपि स्वर्गत्वादिप्रकारकप्रवृत्तौ हेतुः । अतएव स्वर्गकामो यजेतेत्यादितः प्रवृत्तिरिति तु न युक्तम् । स्वर्गत्वप्रकारकका
रप्रयुक्त फलप्रयोजकव्यापाराननुकूललमुक्ताननुकूलवं बोध्यम् । अतएव लिडुप्तमेति । व्यातेने किरणावलीमिति न संगच्छते क्रियायाः परोक्षलएवलिटो विधानात् स्वकर्तृकक्रियायाः स्वपरोक्षत्वं नहि संभवति व परोक्षत्वं च विवक्षितम् उत्तमपुरुषेहि य एव वक्ता स एवकर्त्तेति शङ्काया उपायनामकटीकाकृता वर्धमानेन णलुत्तमोवेति सूत्रस्यापारोक्ष्येपि लिटः प्रयोगे ज्ञापकत्वमुरीकृत्य समाधानं कृतं । ज्ञापकताचास्य सूत्रस्य तदैव संभवति यदि लिडुत्तमस्य नियमतः परोक्षविषयत्वेऽसंभवः स्यादसंभवश्च न स्वसाक्षात्काराविषयत्वरूप पारोक्ष्यस्य लिङ्घिषयत्वे संभवति यत्राभ्यासविशेषाहित संस्कारात्पुरुषान्तरनोदनादिनावादेशान्तसंयोगानुकूलव्यापाराश्रयललक्षणकर्तृत्वं तादृशव्यापारासाक्षात्कर्तृलय कस्यचित्तत्र स्वमातृकगमनक्रियायाः स्वपरोक्षत्वस्योक्तस्य संभवात्तत्रैव परवचनादितः स्वगमनमवधार्याहं जगामेति प्रयोगस्य लिडुत्तमघटितस्य संभवादपारोक्ष्यविषयज्ञापकतासंगतास्यात् । यदा तु स्वभिन्नकर्तृकत्वमेव पारोक्ष्यं तदा लिटः परोक्षविषयल उत्तमपुरुषस्य सर्वथैवासम्भवस्तत्र स्वस्य वक्तरेव कर्तृत्खात् नियमेनोक्तपारोक्ष्यस्यासंभवइति तत्रासंभविनो लिडुतमस्योक्तसूत्रविषयत्वमयुक्तं स्यादिति तत्सूत्रमेव लिटः क्वचिदपरोक्षविषयतां ज्ञापयतीति ज्ञापकत्वोतिः प्रकाशकृतोभवति सङ्गतेत्यर्थः । लिङ्किधानादिति । तथा चोतसूत्रस्य तादृशलिडुत्तमविषयतयापि लब्धविषयत्वात् ज्ञापकल्लस्योक्त