________________
२१२
व्युत्पत्तिवादः ।
श्वेतं छागमालभेतेत्यादावपि तत्परिस्यागसंभवात् अविरोधेन मा हिंस्यादित्यत्र श्रुत्यर्थसंकोचो न स्या दिति सांख्यमतमेव साधीय इति चेत्स्यादेव अविरोधेऽपि ब्राह्मणेभ्यो दधि दीयतां तर्क कौण्डि न्यायेत्यभवे सामान्यविधेर्विशेषेतर परत्वं व्युत्पतिसिद्धमिति मा हिंस्यादित्यत्र संकोचः । अथ वा कथंविद्वाधकापनयसंभवेनौत्सर्गिकार्थपरित्याग इति हिंसानिषेधसंकोचेनैवोपपत्तौ न श्वेतं छागमालभेतेत्यादी विधिप्रत्ययस्य बलवदनिष्टासाधनत्वार्थपरित्याग इत्यर्थः । अथ यागपाकादिजन्यश्रमादावपि कदाचित्कस्यचिद्बलवद्वेषोदयात् यजेत पचेतेत्यादौ अप्रामाण्यप्रसङ्गो दुर्वारः । यत्तु बलवदनिष्टा. साधनत्वं न लौकिकविभ्यर्थः । किं तु न कलअमित्यादिश्रुतेः प्रामाण्योपपत्तये वैदिकलिङ्गएव त दर्शकता वत्रापि बलवदनिष्टं नरकमेव ताद्रूप्येणार्थः । अत इष्टोत्पत्तिनान्तरीयकश्रमादेः कदाचित् द्वेषविषयतया न यागादौ विध्यर्थबाध इति तदपि न, शाकं न भुञ्जीतेत्यादिवैद्यकवाक्ये यलवदनिष्टाजनकत्वनिषेधपरत्वं विना प्रामाण्यानुपपत्तेः तत्रापि रोगाजनकत्वं विध्यर्थस्तदभावो नञा बोध्यतइति चेद्र रिक्तायां न गच्छेत् पुष्ये नोद्वहेदित्यादिज्योतिःशास्त्रवचनस्य नैकः पर्वतमारोहेदित्यादिवाक्यस्य च का गतिः । तत्रापि विशिष्य तत्तदनिष्टासाधनत्वस्य विधिप्रत्ययार्थत्वे शक्त्यान - न्स्यप्रसको व्युत्पत्त्यनुपपत्ति । अत्र वदन्तिद्वेषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्याश्रयसाधनतात्वावच्छिन्नप्रतियोगिताका भावकूटे तादृशाभावत्वेनानुगते एकैव विधिप्रत्ययस्य शक्तिः उपलक्षणीभूतद्वेषविषयतावच्छेदकत्वं परित्यज्य नरकाद्यसाधनत्वं प्रतीयते कुत्रचिन्नरका साधनत्वं कुत्रचिद्रोगासाधनत्वं प्रतीयतइत्यत्र तात्पर्यमेव नियामकं प्रतियोगितायाः प्रकारतया भानात् प्रतियोगितावच्छेदक घटकनरकत्वादी द्वेषविषयतावच्छेदकत्वस्योपलक्षणतया शक्तिग्रहे भानमविरुद्धम् । नच प्रमेयत्वादेरपि उपलक्षणतया भानमविरुद्धमिति प्रमेयत्वादेरुपलक्षणतया नरकत्वाद्यनुगमकत्वं कथं न स्वीक्रियते विनिगमकाभावादिति वाच्यम् । सुखाद्यसाधनत्वस्य विध्यर्थताविरहेण प्रमेयत्वादेः सुखत्वादिसाधारण्यंनोतरूपस्येत्यस्यैव विनिगमकत्वात् । नच तात्पर्याभावात् सुखाद्यसाधनत्वबोधकत्वोपपत्ती विध्यर्थत्वेऽपि क्षतिविरह इति वाच्यम् । तस्य विध्यर्थत्वेन तत्तात्पर्येणाधुनिकानां न भुञ्जीतेत्यादिप्रयोगापत्तेः ॥
॥ इति महामहोपाध्याय गदाधरभट्टाचार्यकृतो व्युत्पत्तिवादः समाप्तः ॥ शुभं भवतु ॥
त्वावच्छिन्नस्य संसर्गतया भानोपगमेन न कस्यचिद्दोषस्य संभव इति भावः | अविरोधेपीति । यथाश्रुतवाक्यार्थयोर्विरोधाप्रहेऽपि विशेषार्थे तात्पर्यग्रहात्तत्र लक्षणारूपः सङ्कोचो भवत्येवेत्यर्थः । अथ प्रयोजन विरोधाद्यपरिस्फूर्ती मुख्या र्थातिरिक्ततात्पर्यग्रह एव न भवतीति तात्पर्यग्रहार्थं ब्राह्मणेभ्य इत्यादेः पर्यालोचने क्रियमाणे यदा कौण्डिन्याय तक - . मेवदीयतामित्यवगम्यते तदा ब्राह्मणेभ्य इति वाक्यस्य तात्पर्य कौण्डिन्यातिरिक्तब्राह्मणे लक्षणावीजमवधार्यते यदा तु कौण्डिन्यायतकमपीति गृह्यते तदा तु नोक्तार्थे तात्पर्य विज्ञायत इति शक्तशब्दप्रयोगमपहाय लाक्षणिक प्रयोगप्रयोजनन्तु नास्त्येवेति विरोधमूलक एवं सङ्कोचः सामान्यविशेषस्थलेऽपि विज्ञायते तत्र विरोधस्य वाक्यापर्यालोचनदशायामगृहीतत्वादविरोधेपि सामान्यविशेषभावे संकोच इत्युक्तिस्तादृशाम हेपीत्येतत्परतया नेया यदि सामान्यविशेषभावः संकोचप्रयोजकः स्यात्सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयतान्तकमपि कौण्डिन्यायेत्यादावपि संकोचः स्यादित्यभिप्रायेणाह अथवेति ।
व्युत्पत्तिवादगूढार्थतत्वालोकः समाप्तः ॥