________________
व्युत्पत्तिवादः। गमावावेदर्शितविशिष्टसंबन्धासखेनातिप्रसङ्गविरहात् । ध्वंसपूर्वत्वं च तदनधिकरणत्वमेव । नचा. म्तरालिककृतिजन्यस्य पच्यर्थव्यापारस्य पूर्वव्यापारानुकूलकृत्यजन्यतया आन्तरालिककृतेः पूर्वकतिजन्यपाकाननुकूलत्वमक्षतमेवेति तस्या अपि निरुक्तविशिष्टसंबन्धेन वर्तमानप्रागभावादिमत्त्व. मक्षतमेवेति वाच्यम् । कृतिजन्यपाकेत्यत्र कृतिजन्यच्यापाराधीनफलानुकूलव्यापारस्य विवक्षितस्यात् ।
पक्तत्यादी लुटोऽनद्यसमभविष्यस्वमर्थः । अनद्यतनभविष्यत्वं च शब्दप्रयोगाधिकरणदिवसावृसित्वे सति शब्दप्रयोगकालीनप्रागभावप्रतियोगित्वम् शब्दप्रयोगाधिकरणदिवसध्वंसोत्पत्तिकत्वं पा । केचितु भविष्यत्त्वमेव तस्यार्थः। क्रियायाः कृतेर्वा स्वरूपसदनद्यतनत्वमेव तत्साधुतानियाम. कम् असाधुत्वादेवाद्य पश्यतीत्यादौ पक्तेति न प्रयोग इत्याहुस्तन्न । तथासति भविष्यत्त्वादिकमपि माख्यातार्थः स्यात् । स्वरूपसद्भविष्यत्वादिकमेव लुडादिप्रत्ययस्य साधुतानियामकम् । असाधुस्वादेच पश्यति पक्तेतिवत्पचतीत्यादौ पश्यतीत्यादिप्रयोगविरह इत्यस्यापि वक्तुं शक्यत्वात् । पचति पश्यतीत्यादेरविलक्षणबोधजनकत्वमनुभवविरुद्धमिति कालविशेषबोध आवश्यक इति चेत्, तदा पक्का पक्ष्यतीत्यादेरपि विलक्षणबोधजनकत्वस्थानुभविकतया अनद्यतनत्वान्वयबोधोऽपि दुर्वारः । यदिच पश्यतीत्यादिवाक्यजन्यबोधे सति भविष्यत्त्वादिसंशयानुदयाद्भविष्यस्वादेः शाब्दधीषिषयस्वमावश्यकमित्युच्यते, तदानद्यतनस्वबोधेऽपि ईदृशीमेव युक्ति गृहाण । एवं न पश्यतीत्यादावभावे अनागतकालावच्छिनत्वभानमावश्यकम् । अन्यथा पक्ष्यत्यपि वर्तमानवृत्तपाककृत्यभावमादाय न पश्यतीत्यादिप्रयोगप्रसङ्गात् । नच पक्ष्यत्ययनागत यत्किंचित्कालावच्छेदेन वर्तमानमभावमादाय न पश्यतीति प्रयोगो दुर्वार पवेति वाच्यम् । अनागतकालावच्छिन्नत्वंहि तत्र वर्तमानक्षणध्वंसावच्छिन्नत्वम् । तादृशध्वंसनिष्ठा अवच्छेदकताऽनवच्छिन्ना ग्राह्या अनागतकृतिमति च पुंसि तवभाववृसौ वर्तमानक्षणध्वंसरूपः कालः प्रतियोगी वृत्तावप्यवच्छेदक इति विरोधभ. अनाय ताशकृत्यनवच्छेदकावान्तरकालावच्छिन्नपवावच्छेदक उपेय इति नोक्कातिप्रसङ्ग इत्युक्त युत्तया अनागतत्वस्य यथा लुडाधर्थत्वं तथाऽद्य पक्ष्यति न पक्केत्यत्रानद्यतनकालावच्छिन्नत्वस्याभाषेऽभाने श्वः पश्यत्यप्पद्यतनानागतकालावच्छिन्नपाककृत्यभावमादाय न पक्तेति प्रयोगप्रसङ्गेन लुटोऽनद्यतनार्थत्वमावश्यकम्। अनागतानद्यतनकालावच्छिमत्वमपि उक्तरीत्यातिप्रसङ्गवारणाय प्रकृतशब्दप्रयोगाधिकरणदिनध्वंसनिष्ठानवच्छिन्नावच्छेदकताकत्वरूपं ग्राह्यम् । अवच्छेद्यावच्छेदकभावक्ष संबन्धविधया भासते ध्वंस पव पदार्थ इत्यवधेयम् । अथ नबूसमभिव्याहारस्थलेऽपि कृतावेव कालान्वयोऽस्तु । अनागतकृतिश्च महाप्रलयस्याप्रामाणिकतया सर्वत्रैव प्रसिख्यतीति म प्रतियोग्यप्रसिद्धिः अभावान्वयश्चात्मनि कालामवच्छिन्नाश्रयतासंबन्धनोपगम्यतामिति चेन्न । यदुत्तरकाले चैत्रीयौदनपाकादिकमप्रसिद्धं तदानी चैत्र ओदनं न पश्यतीति प्रयोगानुपपत्तेः अनागतचैत्रीयौदनकर्मकपाकानुकूलकृत्यप्रसिद्ध्या तभावप्रत्यायनासंभवात् । नचाभावे कालान्वयोपगमेपि यत्तण्डुलख्यतयादिकर्मकपाक एवाप्रसिद्धस्तव्यत्तयादिपरस्यैतत्तण्डुलं न पश्यतीत्यादिवाक्यस्याप्रमाणवापत्तिः प्रतियोग्यप्रसिद्धारत्वादिति तत्र पाके तव्यक्तिकर्मकत्वाभाव एव ना बोभ्यत इति
लभाविनी तस्याः वर्तमानकृतिमतीत्यर्थः । तेन पाकान्तरानुकूलायाउदीच्यकृतेः परिप्रायताव्यावृत्तिः तादृशकृतिसत्वे . पक्ष्यतीतिप्रयोगस्पेष्टापत्तेस्तव्यावर्तनाय पचमान एवार्थीदपक्ष्यतीति वक्तव्यम् । सम्बन्धासत्त्वेनेति । वर्तमानोदीच्यत्योरेकपाकं प्रत्येवानुकूलत्वेन प्रागभावाधिकरणकालवृत्तिवर्तमानकृतिजन्यपाकंप्रत्यनुकूलत्यस्यैवोदीच्यकृतौ सत्वात्तादृशानदुकूलखविशिष्टप्रतियोगिलसम्बन्धासत्त्वेनेत्यर्थः । अप्रमाणिकतयेति । घटादिसन्ततिरत्यन्तं समुच्छिद्यते सन्ततिला प्रदीपसन्ततिवदित्यायनुमानस्याप्रयोजकत्वादनुकूलतर्काभावात् तैलवाद्यत्यन्तोच्छेदात्प्रदीपैकसन्तानात्यन्तसमुच्छेदसंभवेऽपि सर्गप्रयोजकानामनन्तजीवानन्तकालोत्पद्यमानानन्तादृष्टप्रवाहाणामुच्छेदस्यासंभावितत्वात् सर्वमुक्तरपिसन्दिग्धलादितिः मावः । चैत्रीयौदनेति । चैत्रीयलमोदनान्वयिबोध्यं नतु कृत्यन्वयि कृतेस्तथात्वेऽभाषबोधस्य सर्वथैवाप्रमाला