________________
१९८
व्युत्पत्तिवादः । तुता धाच्या । तादृशकारणाभावात् प्रातिपदिकार्थविशेष्यकबोधोपि न संभवतीति वाच्यम् । कर्मत्वादिसंबन्धेन कृत्यादिप्रकारकबोधस्याप्रसिद्ध्या सामन्यकल्पनेनापादकाभावात् तादृशकारणताया अकल्पनात् । नच क्रियते चैत्र इत्यादौ कृतिप्रकारकबोधवारणायैव उक्तकारणताकल्पनमावश्यकमिति वाच्यम् । सति तात्पर्ये इष्टत्वात् । कर्तृविशेष्यकान्वयबोधपरधातूत्तरयकोऽसाधुत्याच प्रामाणिकानांन तथा प्रयोगः । करणं चैत्र इत्यादौ चैत्रादौ धात्वर्थकृतेराश्रयतासंयन्धेनान्वयबोधवारणाय तादृशकार्यकारणभावकल्पनमित्यपि न । तादृशबोधे आख्यातान्तधातुना समभिव्याहारज्ञानहेतुतयैवोक्तस्थले तादृशबोधवारणसंभवात् । दीधितिकृतस्तु गच्छति जानाति करोतीत्यादौ आख्यातस्याश्रयत्वे निरूढलक्षणायाः स्वीकारान्न नामार्थे क्रियायाः साक्षादन्वय इत्याहुः । तमते यद्यप्याश्रयत्वसंबन्धस्याधिकस्य जानाति चैत्र इत्यादिवाक्यजन्यबोधविषयताकल्पनेन गौरवं तथापि यत्र धातोर्शानाश्रयत्वे लक्षणाग्रहः शक्तिभ्रमो वा तत्र चैत्रादिविशेष्यको ज्ञानाश्रयत्वादिप्रकारको बोध आश्रयतायाः संसर्गतावादिनामप्यनुमतः। चैत्रादिविशेष्यकाश्रयतासंसर्गकशानादिनकारकशाब्दबोधस्तु दीधितिकारमते क्वचिदपि न प्रसिध्यतीति तादृशशाब्दबोधे योग्यताशानादेहेतुताकल्पनं तथाविधशाब्दबोधाङ्गीकर्तुमणिकारस्य मते आवश्यकमिति गौरवम् । वस्तुतस्तु चैत्रेण ज्ञायते घट इत्यादौ कर्मप्रत्ययस्थले यावतां पदार्थानां प्रकारता, तावतां चैत्रो जानाति घटमित्यादि कर्तृप्रत्ययस्थले तथात्वं, परंतु विशेष्यविशेषणभाववैपरीत्यम् । एवं कर्मप्रत्ययस्थले यस्य ससंबन्धिकपदार्थस्य यदंशे विशेष्यता कर्तृप्रत्ययस्थले तन्निरूपकतायास्तदंशे प्रकारता इत्यनुभवस्य दुरपह्नवत्वाभिप्रायेणाश्रयत्वस्याख्यातार्थतां दीधितिकार उररीचकार । चैत्रेण झायते इ. त्यत्राधेयत्वरूपतृतीयार्थस्य चैत्रविशेष्यत्वात् । चैत्रो जानातीत्यत्राधेयतानिरूपकत्वरूपाधारतायाश्चैत्रांशेऽप्रकारत्वे तारशानुभवविरोधात् । नच चैत्रेण ज्ञायत इत्यत्राप्याधेयत्वं संसर्ग एव न तु विशेष्यमिति वाच्यम् । तथासति आत्मना ज्ञायते न घटेनेत्यादी घटादिवृत्तित्वाभावबोधा नुपपत्तेः । आधेयस्वस्य तृतीयार्थताविरहेण तृतीयान्ताद्धटादिवृत्तित्वरूपप्रतियोग्यनुपस्थितेः आधेयत्वसम्बन्धस्याभावप्रतियोगितानवच्छेदकतया च तत्सम्बन्धावच्छिन्नघटाभावबोधस्य त. प्रोपगमासंभवात् । तादृशसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वे शाने न घट इत्यादिवाक्य जन्यप्रत्यये ज्ञानाधिकरणकतादृशसंबन्धावच्छिन्नघटाद्यभावस्याप्यवगाहनसंभवाद्धटे ज्ञानं न वे. त्यादिसंशयनिरासाय कदाचिज्ज्ञाने न घट इत्यादिकमपि प्रयुज्येत । अतएवानुकूलकृतिमत्वादिरूप कर्तृत्वादेरपि चैत्रः पचतीत्यादौ प्रकारता मणिकृतापि स्वीक्रियते नतु संसर्गता । न पचतीत्यादावन्वयबोधानिर्वाहात् । तादृशसंबन्धस्य वृत्त्यनियामकतया अभावप्रतियोगितानवच्छेदकत्वेन तत्संबन्धावच्छिन्नक्रियाविरहप्रत्ययस्य तत्रोपगमासंभवात् । एवं चैत्रेण ज्ञायत इत्यादावाधेयत्वस्य तृतीयया अविवक्षणे प्रातिपदिकार्थमात्रविवक्षया तद्विषयानुशिष्टप्रथमैच स्यात । जानाति चैत्र इत्यादौ चाख्यातेन कर्तृत्वाविवक्षणे धात्वर्थरूपभावमात्रपरतया परस्मैपदस्य भादिविकरणस्य वा साधुतापत्तिः । भावकर्मणोरित्यात्मनेपदविधायकानुशासनविषयत्वात् कर्तरीत्यधिकारीयस्यादिभ्यः श्ना इत्यनुशासनाविषयत्वाच्चेति, तत्राख्यातस्य कर्तृत्वाबोधकतायुक्तिस्तु न साधीयसी इतराविशेषणतया क्रियाबोधपरत्वरूपभावविवक्षायामात्मनेपदान सनविषयतोपगमादुक्तस्थले परस्मैपदसाधुतायास्तादृशभावविवक्षादिविरहस्य नाद्यनुशासनविषयत्वोपगमेन नादिविकरणस्य साधुतायाश्च निर्वाहसंभवात् । पचन पचतीत्यादाविवोदृश्यतावच्छेदकविधेयाभेदेन जानन जानातीत्यादेर्निराकाङ्कतानिहायापि जानातील्यादावाख्यातस्याश्रयतार्थकतोपगम आवश्यकः । अन्यथा कृदन्तप्रतिपाद्यतावच्छेदकस्य ज्ञानादिरूपविधेयभिन्नतया निराकाङ्गताविरहेण तथा प्रयोगापत्तेः । एतेन तत्राश्रयतायाः प्रकारतोपगमे जानावि