________________
गूढार्थतत्वालोकव्याख्यासहितः ।
१९९
चैत्र इत्यादिवाक्यशान घटितशाब्दसामग्रया भिन्नविषयप्रत्यक्षादिप्रतिबन्धकतायामाख्यातजन्याश्रयत्वोपस्थित्यादिरूपाधिककारणानां निवेशे गौरवेणाश्रयतायाः
संसर्गत्वमेवोचितमित्यादि
कमनुपादेयम् । नश्यतीत्यादौ प्रतियोगित्वरूपकर्तृत्वमाख्यातार्थस्तादश संबन्धस्याभावप्रतियोगितानवच्छेदकत्वेन नश्यतीत्यादौ नाशप्रतियोगित्वाभावबोधस्यैव स्वीकरणीयतया न संसर्गतासंभवः । अथाख्यातस्य कर्तृत्वशक्ततावच्छेदकं रूपं दुर्वचम् । नच तित्वं तथा तसादिसाधारणस्य तिङ्त्वस्य दुर्वचत्वात् । नच पाणिनीयसङ्केतसंबन्धेन तिपदवत्त्वमेव तित्वं तिबाद्यष्टादशसु तत्पदसंकेतग्राहकं च आदिरन्त्येनेति सूत्रमेव तत्संकेतमविदुषामनधीत पाणिनीयतन्त्राणां तिश्वादिना शक्तिभ्रमादेव शाब्दबोध इति वाच्यम् । एवंसति घटादिवाचकघटादिपदेष्वपि कस्यचिच्छन्दस्य पुरुषविशेषीय संकेतसंभवेन तुल्ययुक्तया तत्रापि तच्छब्दस्यैव शक्ततावच्छेदकतापत्त्या तिवादिषु पाणिनेस्तिङ्पद संकेतवत्तत्र शब्दान्तरसंकेतस्यापि अन्यपुरुषीयस्य संभवात् । तत्तच्छन्दानामपि प्रवृत्तिनिमिततायाः सुवचत्वाद्विनिगमनानुपपत्तेः । अत्र केचित् । तिवादिस्थानिनो लकारस्य लत्वजातिपुरस्कारेण कृतिवाचकता । पचतीत्यादौ लकाराश्रवणेऽप्यादेशेन तिवादिना स्थानिनः स्मरणात्ततएवार्थोपस्थितिः । आदेशादेशिभावमविदुषां तु तिश्वादिना शक्तिभ्रमादेवार्थोपस्थितिः । यत्र तिबादेर्लादेशत्वज्ञानं नास्ति श्रुतलकाराच्यार्थीपस्थितिस्तत्र पचतीत्यादिवाक्याच्छाब्दबोधवारणाय पचतीत्याद्यानुपूर्वीज्ञानजन्यबोधे तिबादेर्लादेशत्वज्ञानमपि हेतुः । नचोक्तस्थले धातुसाकाङ्गत्वज्ञाने भवत्येव शाब्दबोधस्तदसत्वे व कारणाभावादेव नापत्तिरिति वाच्यम् । पचतीत्यादौ तिवादिना लकारस्योपस्थापनेऽपि तत्तद्धातुसाकाङ्क्षतया तत्स्मारकाभावेन शाब्दबोधानुपपत्तेः लकारे धातुसाकात्वग्रहस्य शाब्दबोधहेतुत्वासंभवात् । नहि तत्तद्धातुसाकाङ्क्षत्वेन लस्तियादिस्थानीयेन तद्रूपावच्छिन्नमेव तिबादिः स्मारयेत् अपितु लत्वेनैव तथात्वमिति । एवं तत्तद्धातुपदाव्यवहितोत्तरत्वरूपतत्साकाङ्क्षत्वेन येन पुंसा न लकारः श्रुतस्तस्य तेन रूपेण तत्तत्स्मरणासंभव इति । अत्रेदं चि न्त्यते । लकारतिबाद्योरनतिप्रसक्तस्थान्यादेशभावस्य दुर्वचत्वात् तिबादिस्मारितलकारस्य वाचकत्वं न विचारसहम् | तिबादेरेव यत्र वाचकताग्रहस्तदनुरोधेन पचतीत्याद्यानुपूर्वीज्ञानस्य तिबादिजन्योपस्थिति सहकारेण शाब्दबोधोपधायकताकल्पनस्यावश्यकतया लकारजन्योपस्थिति सहकृततादृशानुपूर्वीशानतिवादिधर्मिकलादेशत्वज्ञानघटित सामथ्र्यन्तरकल्पने गौरवेण लाघवात्तिबावैरेव ताद्रूष्येण शक्तिकल्पनाया उचितत्वं चेत्याख्यात सामान्यस्य कर्तृत्वश्व तद्विशेपस्यात्मनेपदस्य कर्मत्वे शक्तिर्नतु यथाश्रुताग्राहि वैयाकरणमत इव कर्मरूपधर्मिवाचकत्वंगौरवात् । प्रथमान्तपदार्थे कर्मत्वान्वयवलादेव कर्मता विशिष्टधर्मिलाभ संभवात् । नचा त्मनेपदस्य शानच्प्रत्ययस्य धर्मिणि शक्तेः पच्यमानमानयेत्यादौ पच्यमानादिनिष्ठानयनकर्मस्वाद्यनुरोधेनावश्यकत्वात्ततवोपपत्तौ आख्यातरूपात्मनेपदस्य धर्मवाचकत्वं निर्युक्तिकमिति वाच्यम् । तङ्गानच्साधारणस्यात्मनेपदत्वस्य शक्ततावच्छेदकत्वपव तथोक्तिसंभवात् । ताशात्मनेपदत्वस्य चागुरोर्निर्वचनासंभवात् पाणिन्यादिसं केतलं बन्धेनात्मनेपदवत्त्वस्य शततावच्छेदकताया उक्तरीत्याऽनवकाशात् । अतस्तादीनां तत्तद्रूपेण शक्तिकल्पनस्यावश्यकतया लाघवात्कर्मत्वएव तत्कल्पनात् । कर्मत्वं च त्यज्यते ग्रामो, गम्यते ग्राम, इत्यादौ धात्वर्थतावच्छेदकीभूतसंयोगविभागादिरेव विशेष्यतया तिवाच्यः । चैत्रेण गम्यते ग्राम, इत्यत्र तृतीपार्थस्तत्कर्तृकत्वरूपमाधेयत्वं तस्य धात्वर्थे सयोगात्मक फलावच्छिन्ने स्पन्दलक्षेण व्यापारे तस्य जभ्यतासंबन्धेनात्मनेपदार्थसंयोगरूपफले तस्य चाश्रयतासंबन्धेन प्रथमान्तपदोपस्याप्रामेऽन्वय इति चैत्रवृत्तिर्यः संयोगावच्छिन्न स्पन्दस्तज्जन्यसंयोगवान् ग्राम, इत्याकारकः शाब्दबोधः । चैत्रेण त्यज्यते ग्राम, इत्यत्र संयोगस्थाने विभागमन्तर्भाव्य बोधउपपादनीयः ।