________________
गूढार्थतत्वालोकव्याख्यासहितः ।
१९७ काहपदार्थद्वयान्वयाबोधएवाध्याहृतस्येव निराकाङ्क्षपदादुपस्थितस्यार्थस्य विषयतायास्तैरुपगमात् । तत्रान्वयानुभावकलाकाद्धपदसत्त्वात । प्रकृते चान्वयबोधस्याssकामजानपयोगिए षयकत्वेन तेषामप्यसंमतत्वात् । तत्स्वीकारे निराकास्याप्यमुभावकत्वस्वीकारापतेः । शाब्दबोधे आकाक्षानुपयोगप्रसङ्गाति तन्न । तात्पर्यलिङ्गेन यत्नत्वावच्छिन्ने वर्तमानत्वानुमितेरेवोपगमात् । तादृशवर्तमानत्यप्रतीती शाब्दत्वप्रतीतेः सविवादत्वादित्याहुः । अत्र नैयायिकाः । रथो गच्छतीत्यादावाश्रयत्वमेवाख्याताओं नतु व्यापारः । अन्यदीयगमनानुकूलनोदनादिविलक्षणव्यापारवति गच्छतीत्यप्रयोगात् । एवंच काष्ठं पचतीत्यादिप्रयोग एव व्यापारशक्तिमाख्यातस्य साधयेद् यदि स्वारसिकः स्यात् । तदेव न । नहि चैत्रः पचतीत्यादिप्रयोगेण काष्ठं पचतीत्यादिप्रयोगस्याविशेषः। एवमचेतने स्वरसतः कर्तृपदाप्रयोगात् कृतोऽपि यत्नत्वविशिष्टोर्थः। एवं चैत्र एव पचति पाककर्ता नत्वचेतनं काष्ठादीत्यादिप्रयोगाल्लकारस्य यत्तत्वविशिष्टार्थकताया आवश्यकस्वात् । लायवात्तत्रैव शक्ति पारे लक्षणेति । नच यत्नत्वस्याख्यातावाच्यनिवृत्तिजीवनयोनियत्नसाधारणतया लकारशक्यतावच्छेदकत्वासंभव इति वाच्यम् । निवृत्त्यादियत्नस्याख्यातवाच्यतोपगमे क्षतिविरहात् । निवृत्यादेः पाकानुकूलताविरहेण तत्काले पचतीतिप्रयोगापत्तिविरहात्, इष्टसाधनताज्ञानजन्यतावच्छेदकप्रवृत्तित्वजातेरेवाख्यातप्रवृत्तिनिमित्तत्वोपगमावा । अतएवेश्वर कृतेर्जन्यमानजनकत्वेऽपीश्वरः पचति ईश्वरो भुङ्ग इत्यादयो न प्रयोगाः। नचैवमीश्वरो वेदं वक्ति मथुरायां कृष्णो विहरतीत्यादिप्रयोगानुपपत्तिः। अत्राख्यातस्य लक्ष्यार्थव्यापारबोधकतोपगमात् । ईश्वरकृतिसाधारणधर्मस्याख्यातप्रवृत्तिनिमित्तत्वेऽपि तत्र व्यापारलक्षणाया आवश्यकत्वात् । तथाहि । आत्मा पचति शरीरं पचतीत्यादिस्वारसिकप्रयोगविरहादाख्यातार्थकृतेरुदेश्यतावच्छेदकशरीरविशेषावच्छेदेन समवायेनान्वयनियमः स्वीकरणीयः । चैत्रादिपदस्थ शरीरविशेषविशिष्टात्मपरतया चैत्रः पचतीत्यादौ शरीरविशेषात्मकोद्देश्यतावच्छेदकावच्छेदेनात्मनि समवायनान्वयसंभवात् । गौरः पचतीत्यादावपि गौरादिपदस्थ गौरशरीराद्यवच्छिन्नात्मनि आख्यातस्यैव वा व्यापारे लक्षणोपगमात् । एवंचेश्वरकृतेः शरीरानवच्छिन्नत्वादुक्तस्थले कृतेस्तथान्वयासंभव इति व्यापारलक्षणा आवश्यकी। ईश्वरकृतिसाधारणयत्नत्वावच्छिन्न एवाख्यातार्थः । असाधारणानुकूलत्वं यते क्रियायाः संबन्धतया भासते नत्वनुकूलतामात्रम् । असाधारणानुकूलताया एवाकाङ्क्षानिरूपकत्वोपगमादतोऽस्मदादिकर्तृकपाकादिक्रियानुकूलकृतिमादाय नेश्वरः पचतीतिप्रयोगः। वेदवचनादौ च ईश्वरकृतेरेवासाधारणकारणत्वात् ईश्वरो वेदं वक्तीत्यादयः प्रयोगा इत्यपि के. चित् । अथ कृतेराख्यातस्य कृमश्च वाच्यत्वे करोतीत्यादौ कृतेर्द्विधा भानं स्यात् । धातुप्रत्यययोद्धयोः कृतिबोधकत्वादिति चेन्न । एको दावित्यादौ पकरवद्वित्वादिबोधकप्रकृतिप्रत्ययोभयस. स्वेऽप्येकधैवैकत्वादिधीवत्प्रकृतेऽपि बाधकाभावात् तत्र विभक्तेः साधुत्वार्थकत्वेऽत्रापि तथात्वात् । अथ तर्हि करोति चैत्र इत्यादौ प्रातिपदिकार्थे साक्षादेव कृत्यन्धयः स्यात् । स च नामार्थधात्वर्थयोभैदेन साक्षादन्वयस्यान्युपन्नत्वात् तथा न संभवतीति नामार्थधात्वर्थयोः साक्षादन्वयोपगमे कर्मतादिबोधकविभक्तेरसत्त्वेऽपि तण्डुलः पचतीत्यादौ कर्मतादिसंबन्धेन तण्डुलादेः पाकादावन्धयसंभवेन ताशवाक्यात्तण्डुलकर्मकपाकादिबोधापत्तेः । नच प्रातिपदिकार्थप्रकारकक्रियान्वयबोध एवाव्युत्पन्नो नतु क्रियाप्रकारकप्रातिपदिकार्थविशेष्यकयोधोऽपीति वाच्यम् । घटः करोतीत्यादितः कर्मतासंबन्धेन कृत्यादेः घटादावन्वयाभावात् क्रियाप्रकारकनामार्थविषयकयोअस्याव्युत्पन्नत्वादिति चेन्न । उक्तातिप्रसङ्गवारणाय धातोः कर्मतादिसंबन्धेन क्रियान्वयाबोघकत्वव्युत्पत्तरुपगमानत्वाश्रयतासंबन्धेन कृत्यादिरूपक्रियान्वयाबोधकत्वव्युत्पत्तेरित्यदोषात् । । नच तारशातिप्रसङ्गवारणाय धातुजन्यकृत्यादिप्रकारकान्वयबोधे प्रत्ययजन्यविशेष्योपस्थितेहे