________________
१९६
व्युत्पत्तिवादः । कर्तृत्वविवक्षायामित्येव सम्यक विशेष्यतयान्वयित्वपर्यन्तनिवेशनेनेति नाशयम् । संख्याति. रिक्तसुबर्थस्य प्रकृत्यर्थविशेष्यतयैवान्वय इति व्युत्पत्तिसूचकत्वेन विशेष्यतयान्वयित्वपर्यन्तस्यावश्यं विवक्षणीयत्वाद्यथाश्रुतसूत्रार्थानुरोधेन कर्तरि लकारविभत्तयोः शक्तिवादिभिर्वैयाकरणैरपि प्रातिपदिकार्थविशेष्यतया कर्त्तरि विवक्षिते तृतीयेत्येव सूत्रार्थों वाच्यः । अन्यथा चैत्रेण पच्यत इत्यादौ करिनभिधानस्योक्तक्रमेण दुर्वचतापत्तेरित्यलमधिकेन । अथानभिहितकर्तरि तृतीयेत्यस्योक्तार्थकत्वे चैत्रादिकर्तृकत्वविशेषितपाकादिविवक्षया चैत्रेण पचतीत्यादिप्रयोगापत्तिः । नच परस्मैपदार्थकर्तृत्वान्धयिविशेष्यविरहान तथा प्रयोगः विशेष्यतयापि कर्तृत्वबोधसंभवात् । चैत्रमैत्रोभयकर्तृकपाकस्थले चैत्रकर्तृकपाककता मैत्र इत्यम्वयतात्पर्येण चैत्रेण पचति मैत्र इति प्रयोगस्य दुचारत्वाच । नच कर्तृत्वातिरिक्त विशेषणतापनायां कर्तृत्वेवा विशेषणतानापन्नायां क्रियायामेव तृतीयार्थकर्तृत्वान्वयो व्युत्पन्न इति वाच्यम् । चैत्रेण पाचयति मैत्र इत्यादौ ण्यर्थकर्तृत्वविशेषणतापने पाकादौ चैत्रादिकर्तृकत्वान्वयेन ताशव्युत्पत्तेरसिद्धः । नचलकारार्थकर्तृत्वविशेषणतानापन्नक्रियाविशेषणतया कर्तृत्वबोधकत्वं सुपां व्युत्पन्नमिति न कश्चिद्दोष इति वाच्यम् । उक्तखले चैत्रेण पकवान् मैत्र इति प्रयोगापत्तेः । मैवम् । आश्रयातिरिक्ताविशेषणतापनकर्तृत्वविशेषणतानापनक्रियायां तृतीयार्थकर्तृत्वान्वयव्युत्पत्तौ न किंचिद्वाधकम् ।
मैत्रेण पाचयतीत्यादौ कर्तृत्वनिर्वाहकव्यापारो णिजथः । तत्राश्रयातिरिक्ते व्यापार विशेषणं कर्तृत्वमिति तद्विशेषणतापनक्रियायां तृतीयार्थकर्तृत्वविशेषणत्वे न किंचिद्वाधकम् । चैत्रेण पति मैत्र इत्यादयश्च न प्रयोगाः । तत्राश्रयएव कृतेर्विशेषणतया तद्विशेषणतानापन्नक्रियायां तृतीयया कर्तृत्वबोधनासंभवात् । कृतिविशेष्यकबोधाभिप्रायेण चैत्रेण पचतीति वारणायाश्रयविशेषणत्वमुपेक्ष्याश्रयातिरिक्ताविशेषणत्वं निवेशितम् । अनभिहिते कर्तरि तृतीयेत्यस्यापि निरुक्त क्रियाविशेषणतया प्रातिपदिकार्थान्वयिकर्तृत्वविवक्षायां तदुत्तरं तृतीया भवतीत्येवार्थ इति दिक।
र्तृत्वं च चैत्रः पचतीत्यादौ क्रियानुकूला कृतिरेव । तस्या एवानुकूलकृतित्वेन कृतित्वेन वाऽऽख्या तवाच्यता । रथो गच्छति, काष्ठं पचतीत्यादौ च क्रियानुकूलव्यापाररूपे कर्तृत्वे निरूढलक्षणा कृतित्वजातेः प्रवृत्तिनिमित्तत्वे लाघवात् । मीमांसकास्तु । व्यापारत्वेनैव शक्तिः, पचतीस्यादावपि तेनैव रूपेण बोधोपगमात् । एवंचाचेतनेऽपि प्रयोगो मुख्य एव । कृतित्वस्य लाघवं चाकिंचित्करम् । यत्र लघुगुरुरूपाभ्यां बोधो निर्विवादस्तत्रैव लघुरूपावच्छिन्ने शक्त्युपगमात् । प्रकृते च कृतित्वेन बोधस्य सविवादत्वात्, तथापि तदवच्छिन्ने शक्त्युपगमे तत्रामुख्यार्थेऽनादितात्पर्यकल्पनायां गौरवात्। एवं बीजादिनाकुरः कृत इत्यादौ विनापि यत्नं कृत्रःप्रयोगात्,तस्यापि व्यापारसामान्यार्थ, कता अतः करोतिविवरणीयार्थकत्वेऽपि नाख्यातस्य यत्नत्वावच्छिन्नवाचकता न वा किं करोति पचतीति प्रश्नोत्तरयोः समानप्रकारकबोधजनकत्वानुरोधेन तथात्वम् । अत्र केचित् । पचतीतिवाक्यजन्यबोधे सति यत्नत्वावच्छिन्ने वर्तमानत्वसंशयानुदयात्तत्र यत्तत्वावच्छिन्ने वर्तमानत्वबोधकत्वसिद्धौ तदवच्छिन्ने शक्तिलाघवासिध्यति । नहि यत्नाविनाभूतक्रियाविशेषलिङ्गकानुमानलभ्येन यत्नत्वावच्छिन्नेन समं वर्तमानत्वान्वयबोधकत्वमाख्यातस्यार्थाध्याहारमतेऽपि संभवति, लडादिकृतवर्तमानत्वान्वयबोधे लडादिलमभिव्याहृतधात्वन्यतरजन्यविशेष्योपस्थितेः कारणताया आव. श्यकत्वात् , अन्यथा निराकासयलादिपदमात्राद्यनाथुपस्थितावपि तत्र वर्तमानत्वादेलडादितोबोधप्रसङ्गात् । नचार्थाध्याहारवादिनां द्वारं पिधानं कृतिरित्यादितोद्वारकर्मककृतेरिव पचति यत इत्यादितः पाकयत्नो वर्तमान इत्याद्याकारको वर्तमानत्वादेर्बोध इष्ट एवेति वाच्यम् । परस्परसा
__..कार्यान्वयितया कर्तृत्वं यत्र विवक्षितं तत्रैव कर्तृत्वार्थिका तृतीया भवतीत्यस्य विवक्षितलात् भावाख्यातस्य खरूपार्थकत्वस्याप्यभावे तृतीयानुपपत्तिरित्यत आह । कर्तृत्वेवेति । तत्रामुख्यार्थइति । रथोगच्छतीत्यादौ व्यापारादावि