________________
गूढार्थतत्वालोकव्याख्यासहितः । पभेदे घाक्यभेद इति मीमांसकसिद्धान्तोऽपीत्युच्यते, तदास्तु धातोरेव स्वकर्मकक्रियायां लक्षणा, कर्तृत्वसंबन्धमध्यएव वा स्वनिरूपकक्रियाकर्मत्वस्याप्यन्तर्भाव इत्यलम् । एवमकर्मकत्वेऽपि मसूते गौः, प्रासोष्ट गौः, नमते दण्डमूलमनस्त दण्ड, इत्यादौ ण्यर्थान्तर्भावेणैव कर्मकर्तृतानिर्वाहे "न दुहस्नुनमा यचिणा" विति यकिणनिषेधोपपत्तिः । एवं चैत्रेण पक्ष्यत इत्यादौ कर्तृत्ववाचकताया दुरपह्नवत्वात् तृतीयानुपपत्तिः । चैत्रः पक्ष्यतइत्यादी लकारेण कर्तृत्वबोधनात्स्याल्लकारसाधारणरूपस्य तद्वाचकतावच्छेदकताधोव्याच्च । नापि तदबोधकत्वं तदनभिधानं चैत्रेण पच्यतइति वाक्यजबोधे कर्तृत्वविषयके ताशवाक्यघटकसकलपदानामेव जनकतया तटकलकारयापि कर्तृत्वबोधकताया वाड्यात्रेणाप्रत्याख्येयत्वात्। कर्तृत्वविषयत्वाप्रयोजकत्वं लादीनां तदनभिधायकत्वं चैत्रेण पच्यत इत्यादौ धात्वर्थविशेषणतया कर्तृत्वविषयता तृतीयाप्रयोज्यैव न त्वाख्यातग्रयोज्या । आख्यातस्याश्रयतासंबन्धावच्छिन्नकर्तृत्वप्रकारताया एव कार्यतावच्छेदकत्वादित्यपि न सम्यक् पचतीत्यवान्तरवाक्यार्थबोधासंग्राहकतया प्रकारताया एवाख्यातजन्यतावच्छेदकत्वासंभवात् । प्रथमान्तसमभिव्याहारज्ञानस्य योग्यताज्ञानादेर्वा जन्यतायामुक्तप्रकारताया अवच्छेदकत्वात् । यदिच प्रथमान्तपदसमभिव्याहृताख्यातपदजन्यतावच्छेदकतयैव धर्मिविषयतानिरूपितकर्तृत्वविषयताया आख्यातप्रयोज्यत्वम् । कर्तृत्वविषयतासामान्यं च नाख्यातपदज्ञानसामान्यजन्यतावच्छेदकं तादशसामान्यकार्यकारणभावे मानाभावादित्युच्यते, तदापि चैत्रेण पच्यते तण्डुल इत्यादिवाक्यार्थबोधस्य परस्परसमभिव्याहतपदसमूहरूपवाक्यज्ञानहेतुकतया तद्वाक्यार्थविषयतान्तःपातिकर्तृत्वविषयताया वाक्यघटकाख्यातप्रयोज्यत्वं दुर्वारमेवेति । मैचम् । अनभिहितेति कर्तरि तृतीयेत्यस्य कर्तृत्वविशेष्यतया प्रातिपदिकार्थेऽविवक्षिते तृतीयेत्यर्थः । प्रातिपदिकाथेविशेषणतयैव कर्तृत्वेऽविवक्षिते इति यावत् । अवधारणपरतया प्रातिपदिकाथे विशेष्यतया कर्तृत्वविवक्षिते तदुत्तरं तृतीयेति पर्यवसितम् । अतश्चैत्रः पचतीत्यादावाख्यातेन कर्तृत्वबोधनादुक्तार्थानामप्रयोग इति न्यायात्तृतीयापत्तिविरहात् । प्रातिपदिकार्थान्वयितया
----- भानासंभवादित्यर्थः । स्वकर्मकेति । खं कर्ता नच चैत्रः खं हन्तीत्यत्र कर्तुः कर्मवद्भावो दुर्वारः खकर्मकत्वेन भासमानक्रियाकर्तृत्वेन विवक्षितत्वस्यैव कर्मवद्भावप्रयोजकतया तस्य सत्त्वादिति वाच्यम् स्वकर्मकत्वेन धातूपस्थाप्यत्वस्य विव. क्षितत्वात खनिरूपकत्वेनेत्यादिकल्पान्तरस्यातएवानुसरणाद्वा तत्र कर्मखकर्तृलोभयविषयतानिरूपितकविशेष्यतावत्वेन ता. त्पर्यविषयलस्य कर्मवद्भावप्रयोजकत्वात्तण्डुलः पच्यत इलादी तण्डुलनिष्टविशेष्यतायाः कर्मवनिष्ठसांसर्गिकविषयतया कर्तृत्वनिष्ठप्रकारताख्यविषयतया निरूपितत्वात्कर्मवद्भावः । खं पश्यति चैत्र इत्यत्र चैत्रनिष्टविशेष्यताया अतथालान कर्मवद्भावः । अन्तर्भावइति । आश्रयलतादृशकर्मलयोरुभयोः संबन्ध्रत्वादितिशेषः । स्याल्लुकारेति । स्येति लपिकरणस्य पञ्चम्या रूपं स्यादिति उत्तरेति शेषः । नित्यसापेक्षयात्रासामर्थ्यम् प्रयुक्तेत्यप्रयुज्यमानापि क्रियास्यं प्रयुज्येतिल्यब्लोपे पञ्चम्याःप्रयोजिका स्यलकारेति पाठः प्रमादात्स्यालकारेति रूपतांत्राप्तः स्यस्य लकारइति षष्ठीतत्पुरुषः संबन्धश्चोत्तरवरूपः पछ्यर्थः । स्याद्युत्तरेतियुक्तः पाठः । चैत्रेणात्मा हन्यत इत्यत्रात्मपदार्थस्यास्ति कर्तृखविशेष्यतयाविवक्षितलं नच तृतीयाभवति तदुत्तरमित्यतआह । प्रातिपदिकार्थविशेषणतयैवेति । लघुभूतं तत्तात्पर्यार्थमाह ! प्रातिपदिकार्थविशेष्यतयेति । तत्तत्प्रातिपदिकार्थविशेष्यतया समभिव्याहृतक्रियाकर्तृत्वे विवक्षिते तत्प्रातिपदिकोत्तरंतृतीयाभवतीत्यर्थः। तेन चैत्रेण प्रामो गम्यत इत्यत्र चैत्रप्रातिपदिकार्थविशेष्यतया कर्तृत्वे विवक्षिते ग्रामप्रातिपदिकान्न तृतीयापत्तिः । नचात्मप्रातिपदिकार्थचैत्रविशेष्यतया कर्तवस्य विवक्षितस्वात्तदुत्तरं तृतीयास्यादितिवाच्यं कर्तृत्वनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकत्वेन तात्पर्यविषयतावतः पदात्ततीया भवतीत्युक्तावदोषात् चैत्रश्चैत्रेण हन्यत इत्यत्रैकचैत्रपदस्य कमलनिष्टप्रकारतानि. रूपितविशेष्यताप्रयोजकत्वेनेदन्त्वेन तात्पर्यविषयतया तस्मात्ततीयाया अप्रसक्तरिति। ननु चैत्रविशेष्यतया कर्तृत्वेविवक्षिते चैत्रेण चैत्रःपचतीति कथं न प्रयोग इत्यत आह । उक्तार्थानामिति । विशेष्यतया वा विशेषणतया वा कर्तत्वे बोधिते चै अतृकक्रियालाभादाख्याते कर्तृत्वबोधकतया विवक्षिते कर्तृत्वस्य कथश्चिदपि न पुनर्विवक्षासंभवइति प्रातिपदिकार्थविशेष्यतया तद्विवक्षाया अभावान तृतीयारातिरितिभावः । प्रातिपदिकार्थान्वयितयेति। नच प्रातिपदिकार्थान्वयितया कर्तृखस्य "विवक्षितवं चैत्रोस्तीत्यत्राप्यस्ति नास्ति च तृतीयेति व्यभिचारः स्यादतोविशेष्यतयेत्युपादेयमेवेति वाच्यम् । तत्तत्प्रातिपदि