________________
१९४
व्युत्पत्तिवादः। धातुप्रकृतिकाश्च लकारकत्सन्यपिच्प्रभृतयः प्रत्ययाः केचिद्धात्वर्थान्वितमधिकं स्वार्थ त्रुवते। अर्थान्तरमनभिदधानाच केचिदाकाङ्क्षानिर्वाहकतया प्रकृतिभिः स्वीयार्थबोधनएवोपकुर्वते । तत्र सादिवशलकाराणां लः कर्मणि च भावे चाकर्मकेभ्य इति सूत्रेण कर्तृकर्मभावेष्वनुशिष्टानां कर्तृ
सामान्यसर्थः । तावन्मात्राभिधानेनैव प्रथमान्तपदोपस्थाप्यविशेषणतया तदन्वयेन कृतिवि. शिवस्य कर्तुर्बोधनिर्वाहाल्लकारस्य तद्बोधकतया न लम्कर्मणीतिसूत्रविरोधः, धोधकताया एव तत्र समस्यर्थत्वात, नत् पाचकताया: गौरवेण विशिष्टधर्मिणि शक्तर्वाधात । मैत्रः पचतीत्यादौ लकारे प्रथमान्तपदसामानाधिकरण्यप्रवादस्याभेदेन तदर्थावितस्वार्थबोधपरत्वाभावेऽपि कथंचिदुपपादनसंभवात् । तृतीयायाः साधुतानियामकं लकारादिना कर्तुरनभिधानमपि कर्तृत्वविशिघावोधनमेव, नतु विशिष्टशक्त्याऽबोधनपर्यन्तमतो विशिष्टस्य लकारावाच्यत्वेऽपि चैत्रः पचतीत्यादौ न तृतीयापत्तिः । अन्वयबलेन विशिष्टबोधात् । चैत्रः पक्तत्यादौ कृत्प्रत्ययस्य धर्मिणि कालावपिन क्षतिः । शक्त्यधीनविशिष्टबोधसाधारणयोधस्यैवानभिधानपदार्थप्रतियोगित्वात । अशानभिहिते कर्तरि ततीयेत्यनुशासनेऽपि सप्तम्यर्थी बोधकत्वमेव । तथाच चैत्रेण पच्यतहत्यादी ततीयार्थकर्तत्वस्य प्रकृत्यर्थविशेष्यतयैव भानान कर्तृत्वविशिष्टधर्मिबोधकत्वमिति सत्रविरोधः। यदिच तत्र कीदिपद धर्मपरम् । तथाच समभिव्याहृतलकाराधनभिहितं कर्तृत्वं तृती. यार्थ इति सूत्रार्थः चैत्रेणपच्यत इत्यादौ कर्तृत्वस्य तृतीयामात्रार्थत्वाल्लकारेण तदनभिधानं सुघटमित्यच्यते, तदा तत्रानभिधानशब्दार्थों भवतैव वक्तव्यः । न तावदवाचकत्वं तदर्थः। लकारसामान्यस्यैव कर्तृत्वशक्तत्वेनानुक्तेरसंभवात्। कर्त्तरियकोऽसाधुत्वादेव चैत्रः पच्यते इत्यादिप्रयोगवारणात् यगाद्यनुत्तरत्वस्य कर्तृत्वशक्ततावच्छेदककोटावनिवशात् । तत्र तन्निवेशे पच्यन्ते माषाः, भिद्यते कुसूलः, लूयते केदार यादौ कर्मकर्तुः माषकुसूलकेदारादेः कर्तृत्वबोधानुपपत्तिः । नच तत्र स्वयमेवेत्यस्याध्याहारेणाव्ययस्वयंपदोत्तरतृतीयया कर्तृत्वं बोध्यते नतु लकारे स्वयमित्याद्यध्याहारं विनापि तत्र कर्तृत्वबोधाभ्युपगमात् । तत्र लकारेण कर्तृत्वाबोधने कर्मकर्तुः कर्मवत्कर्मणा तुल्यक्रिय इत्यतिदेशवैयपिातात् । लकारस्य कर्मत्वबोधकतयैव यगात्मनेपदचिचिण्वद्भावरूपातिदेशफलनिर्वाहात् । नच कर्मकर्तरि लकाराधीनकर्मत्वबोधस्याप्यावश्यकता वस्तुगत्या कर्म कर्तुः कर्मत्वातिदेशे चैत्रः स्वं पश्यति खं हन्तीत्यादावपि यगात्मनेपदादिप्रसङ्गात् । लकारेण कर्मत्वविवक्षायामेव कर्मत्वातिदेशस्य स्वीकरणीयत्वात् तथाच त्वम्मतेऽपि कर्मत्वातिदेशासंगतिरिति वाच्यम् । कर्मत्वविवक्षायामपि कर्तृत्वविवक्षणे कर्तृकर्मादिसंज्ञासमावेशविरोधेन परत्वात्कर्तृसंज्ञया कर्मसंज्ञाया बाधेनात्मनेपदचिण्वद्भावाद्यनुपपत्तेः । कर्तरि शयित्याद्यपवादविषयतया यकोऽप्यनिर्वाहादिति सार्थकत्वात् । नच कर्मत्वकर्तृत्वयोरुभयोस्तत्र बोधस्वीकारे तदेकतरस्याख्यातार्थतयोद्देश्यतावच्छेदकतया भानासंभवात्समूहालम्बनबोधपव स्वीकरणीय इति वाक्यभेदापत्तिरिति वाच्यम् । एकत्र द्वयमिति रीत्या तदुभयबोधस्य सम्हा लम्बनविलक्षणस्य स्वीकारात् । यदि च विधेयद्वयज्ञानं समूहालम्बनात्मकमेव ! अतएव विधे. -- - --- ---------.-..- --------- ------
खीयेति । वप्रकृतिः । कथंचिदिति | खार्थनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकलपरत्वेनेत्यर्थः । स्वं प्रथमा. न्तम् । कर्मवत्कर्मणातुल्यक्रियइति सूत्रम् । कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यादिति तदर्थः । तुल्यशब्दोत्रकपर्यायः समानजातीयस्तुल्यजातीय इत्यादौ तथादर्शनात् । तथाच कर्मस्थक्रियाऽभित्रक्रियावान् कति कमैव यदा सौकर्यविवक्षया खव्यापारप्राधान्येन कर्तृत्वेन विवक्ष्यते तदा स कर्ता कर्मतुल्यो भवति । तस्मिन् लकारे यगात्मनेपदचिचिवद्भावादिसर्व कर्म लकारवद्भवतीति तात्पर्यार्थः । वस्तुगत्या कर्मकर्तुरिति । आख्यातोपस्थापितकर्मत्वानन्वयित्वेसति प्रकृतिक्रियानिरूपितकर्मलवदभिन्नस्य प्रकृतक्रियाकर्तृत्वेन विवक्षितस्येत्यर्थः । आख्यातार्थतयेति । उभयस्येत्यादिः आख्यातस्य खार्थविधेयताकवोध एवं साकडात्वेनोद्देश्यतावच्छेदकतया तदर्थस्य कस्यचिदपि