________________
गूढार्थतत्वालोकव्याख्यासहितः । सङ्गतिस्तत्र दुर्बलं तु परं परम्" इत्यनेन विरोध इति वाच्यम् । त्यागोद्देश्यतायां वेदमेयत्वस्याधिकस्य निवेशनीयतया चता तदंशाबोधनेन तस्योपायान्तरबोध्यतया चतुर्यधीनदेवतात्वबोधस्य विलम्बिततया तद्धितापेक्षया चतुर्थ्यां जघन्यतोपपत्तेः देवतार्थविहिततद्धितेनैव देवतात्वघटकतदंशस्यापि बोधनात् । अथ चतुर्थ्या वेदमेयत्वांशस्य साक्षाद्बोधनेऽपि त्यागोद्देश्यत्वस्य साक्षाद्वोधनेन पित्रादीनां साहित्यावच्छिन्नानां पितृभ्यो दद्यादिति चतुर्थ्यधीनत्यागोद्देश्यताबोधस्य पितरो देवता इति तद्धितसमानार्थकदेवतापदाधीननिरपेक्षत्यागोद्देश्यत्वबोधापेक्षयाऽविलम्बितस्वेन साहित्यावच्छिन्नानां निरपेक्षाणां वा श्राद्धोद्देश्यत्वमित्यत्र चतुर्थ्यपेक्षया देवतापदस्य बलवत्त्वरूपं शूलपाणिपर्यालोचितं विनिगमकं न संगच्छत इति चेन्न । पितृभ्यो दद्यादिति चतुर्थ्या साहित्यावच्छिन्नस्य त्यागोद्देश्यताबोधे तत्र वेदसमानार्थकस्मृतिवाक्यजन्यत्वग्रहे सत्येवाप्रामाण्यशङ्कानुदयः, तादृशग्रहश्च विलम्बितः । देवतापदात्यागोद्देश्यताबोधश्च तदुद्देश्यतांशे वेदयोधितत्वावगाही स्वस्मिन्नप्रामाण्यशङ्काव्युदासाय न ज्ञानान्तरमपेक्षते, स्वस्यैव स्वात्मकोद्देश्यताबोधांशे व्यावतकवेदजन्यत्वावगाहनातू, अप्रामाण्यशङ्काकलंकितश्च बोधो जातोऽप्यविचित्कर इति देवतापदस्य झटिति निश्चीयमानप्रामाण्यकयोधजनकतया बलवत्त्वेन विनिगमनाया उपपत्तेः। एवं श्राद्धार्थावाहनप्रकाशकात् पितर इत्यादिमन्त्रबहुवचनोपस्थापितसाहित्यावच्छिन्नावाहनयोधेन साहित्यावच्छिन्नानां श्राद्धदेवतात्वलाभेऽपि मन्त्रलिङ्गस्य विपक्षबाधकतर्कादिसापेक्षव्याप्तिनिश्चयाधीनतया सुतरां पितरो देवता इत्यतो दुर्बलतेति बोध्यम् । कापोतं राजतं जनतेत्यादी समूहार्थविहितस्य पर्याप्तसमुदायत्वावच्छिन्नोऽर्थः पर्याप्तौ प्रकृत्यर्थकपोतत्वाधनवच्छिन्नस्यान्वयः। कपोतशुकसारिकादिपर्याप्तसमुदायत्वस्य पर्याप्तिश्च न न्यूनवृत्तिकपोतत्वादिनाऽवच्छिद्यते, अतो न तादृशसमुदाये कापोतादिव्यवहारः । पर्याप्त्यवच्छेदकत्वे चान्यूनवृत्तित्वमेव च तन्नं न त्वनतिरिक्तवृत्तित्वमपि । अन्यथा आकाशत्वादेरिव घटत्वादेरपि द्वित्वादिपर्याध्यवच्छेदकता न स्यात्। आकाशावितिवत् घटावित्यपि न स्यात् । इत्थं च कपोतमात्रवृत्तिशतवादिपर्याप्तावपि अतिरिक्तवृत्तिकपोतत्वादेरवच्छेदकतानिर्वाहात् । कपोतशतादावपि कापोतादिव्यवहारोपपत्तिः पर्यायतिप्रसक्तधर्मस्य तदनवच्छेदकत्वे गत्यन्तरं चिन्तनीयम् । इति तद्धितार्थः।
चिनात्यागमात्राददृष्टोत्पत्तिविरहेण त्यागेनादृष्टेजननीये सहकारित्वं तदात्वं बोध्यम् । साहित्यावच्छिन्नानामिति । अथ खमते साहिल्यावच्छिन्ने प्रकृत्यर्थे प्रकृतेः शक्तिनिरूढलक्षणयोरनभ्युपगमात् विभक्त्या च बहुत्वस्यैवोपस्थापनात् बहुवस्थासाहित्यरूपत्वादसहितानामपि बहुत्वप्रत्ययादिदमसातमिति चेन्नासति बाधके इह घटपटमठाः सन्ति चैत्रमैत्रावागच्छतो धक्खदिरौ छिनत्तीत्यादितः सह घटपटाभ्यां मठोस्ति चैत्रेण सह मैत्र आगच्छति घवेन सहरदिरं छिनत्तीति वाक्येभ्य इव क्रियान्वयस्थले साहित्यबोधस्यानुभविकत्वे बहुलस्यापेक्षाबुद्धिविशेषविषयतारूपस्य साहित्यात्मकस्य विभक्तितात्पर्यविषयताया वाच्यत्वात् तदभिप्रायेण तथोक्तेः पितरो देवता इत्यत्र क्रियाविशेषान्वयाभावेन भवन्तीत्यादिक्रियान्वयेऽपि वा ततः साहित्यबोधस्याननुभविकलेन साहित्यरूपबहुल विशिष्टे देवतापदार्थानन्वयेन साहित्याबच्छिन्नखस्योद्देश्यत्वे भानासंभवः एवं देवतापदार्थस्योद्देश्यत्वविशिष्टस्य तादात्म्येन पितृपदार्थेऽन्वयोऽवगम्यते तत्र च बहुखस्योद्देश्यविशेषणखेपि न तदवच्छिन्नलस्योद्देश्यत्वे विधेयविशेषणे भानम् श्यामो घटो रक्तो भवतीति प्रयोगात् तद्धितेन बनवच्छिन्नमेवोदेश्यसमुपस्थाप्यत इति न तत्र साहित्यावच्छिन्नोद्देश्यत्वप्रतीतिरिति भावः । गत्यन्तरंचिन्तनीयमिति। स्वरूपसंबन्धरूपावच्छेदकत्वभानमनभ्युपेत्य तद्धर्मविशिष्टस्याधेयतया पर्याप्तावन्वये धर्मिपारतम्ध्येण खव्याप्यखसंबन्धेन तद्धर्मस्यान्वया. भ्युपगमरूपगत्यन्तरमित्यर्थः ।
इति व्युत्पत्तिवासस्वालोके सद्धिसालोकः ।
व्युत्प० २५