________________
१९२
व्युत्पत्तिकादः।
रोहिण्या संबध्यते इत्यादिश्रुतिषलाञ्चान्द्रएव वैशाखादिपदशक्तिसिद्धेः । वस्तुतो नक्षत्रेण युक्तः काल इत्यत्र नक्षत्रयोगयोग्यत्वमेष विवक्षितम् । पुष्याधयुक्तायामपि पौषादिपूर्णिमायां पौ. प्यादिव्यवहारात् । अन्यथा माध्यां यदि मघा नास्तीत्यादेरसंगत्यापत्तेः पुष्यादियोगयोग्यता च धनरादिस्थरव्यारब्धपक्षीयत्वं तद्रूपाक्रान्तपौर्णमासीघटितत्वरूपयोगलभ्यतावच्छेदकं नियतमेव पौषादेरिति नोक्तानुपपत्त्या यौगिकत्वनिराकरणसंभवस्तत्पदानाम् । अथैवं निरुक्तरूपस्य पुष्याद्यघटिततया तेन रूपेण पूर्णिमाबोधकपौष्यादिशब्दानां यौगिकत्वप्रसक्तिरेव नास्ति पौषी रात्रिरित्यादौ पुष्यादियोग एव प्रतीयते न तु निरुकं योग्यत्वम् । मकरादिस्थरव्यारब्धकृष्णपक्षीयराज्यादावपि तथा व्यवहारादिति नक्षत्रेण युक्तःकालइत्यत्र योग एव विवक्षणीयो नतु योगयोग्यत्वमिति पौर्णमास्यां पौष्यादिपवस्य न यौगिकत्वसंभवश्चेन्द्रवत पौष्यादिपदं निरुक्तरूपावच्छिन्नपूर्णिमारूढमेव पौषादिपदानां तद्योगपुरस्कारेण मासवाचकत्वे बाधकामावाद्यौगिकत्वं कथं प्रत्याख्येयम् । नच सास्मि. पौर्णमासीति सूत्रस्यास्मिन् पौष्यादिपूर्णिमायोग्यतेत्यर्थविवक्षया धनुरादिराशिस्थरव्यारब्धशुक्ल प्रति. पदादिदर्शान्ते तद्धितान्तसमुदायरूदिग्राहकतयोपपत्तौ योगरूढिस्वीकारोऽनुचित इति वाच्यम् । केवलरूढिपक्षे समुदायशक्यतावच्छेदकशरीरे आरब्धान्तविशेषणप्रक्षेपण गौरवात । पौषतैषमाधादिनानापदानां गुरुधर्मावच्छिन्ने शक्तिकल्पनमपेक्ष्य सास्मिन्नित्यर्थेऽणः प्रत्ययस्यैकशक्तिकल्पना. धिक्यस्योचितत्वात् । नच योगरूढिपक्षे पौषादिपदानां योगार्थव्यर्थाभेदान्वयबोधजनकत्वकल्पनाधिक्येन गौरवमिति वाच्यम्, भवन्मतेऽपि तत्तदर्थे यौगिकरूढत्वभ्रमदशायां सति च तत्तदर्थाभेदान्वयपरत्वग्रहे तथान्वयबोधस्य दुरपह्नवतया तत्र ताशबोधहेतुताकल्पनस्यावश्यकत्वादिति दिक् । वैष्णवी ऋकू ऐन्द्रं हविरित्यादौ देवतार्थविहिततद्धितस्य तद्देवताकत्वमर्थः । मन्त्रस्य तद्देवताकत्वं तदुद्देश्यकत्यागकरणत्वेन बेदबोधितत्वम् । अथ मन्त्रस्य त्यागकरणत्वं बाधितमेव विनापि मन्त्रमिच्छाधिशेषरूपस्य तस्योत्पत्त्या व्यभिचारात् । इष्टसाधनताशानघटितक्लप्तसामच्या अन्यथासिद्धत्वाञ्चेति मन्त्रस्य करणतां कथं वेदो बोधयेद् बोधयन्वा प्रमाणं भवेत् । सत्यम् । मन्त्रस्य त्यागकरणत्वं त्यागाङ्गोचारणकत्वं नतु तज्जनकत्वमतो न दोषः । हविषस्तद्देवताकत्वं च तदुद्देश्यकत्यागकर्मत्वम् । तत्त्यागोद्देश्यताया एव तद्देवतापदार्थत्वात् । नचैवं घृतादिसंप्रदानब्राह्मणस्य घुतादिदेवतात्वापत्तिः । उद्देश्यपदेन वेदरोधितद्रव्यस्वामित्वप्रकारेण विषयताया एव विवभितत्वात् संप्रदाने च स्वामित्वस्याबाधितत्वात् । नच त्यागोद्देश्यतायाश्चतुर्थ्यापि बोधनात्तद्धितचतुर्योर्देवतात्वबोधकतायामविशेषात् । "तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गेन वा पुनः । देवता
मासस्य पौषमासखाभावे तद्वारगाय धनुस्थरविसमाप्येत्युक्तम् । मकरस्थरविसंबद्धदिनावधिकाधिकसंख्यखवद्दिनरहितलम् लुप्तमासस्य तादृशदिनवत्वात्तद्वारणम् समाप्तं मे धन मित्यादौ स्वल्पावस्थिते समाप्तिप्रयोगात्समाप्येत्यन्तात्कथञ्चिदुतार्थलाभः यदि लुप्तमासे विमतिस्तदा समाप्येत्यन्तं वस्तुस्थितिकथनमात्रमिति बोध्यम् । रोहिण्येति । यदि मेषस्थर. विविशिष्ठदिनसमुदायस्य वैशाखमासलं स्यात्तदातदीयामावास्याया नियमेन रोहिणीसंबन्धविरहाच्छुतिविरोधः स्यात् वैशाखशुकप्रतिपदादिदर्शान्तस्य मासत्वे तदमावास्यायाः प्रायोरोहिणीसम्बन्धसंभवात्संगतिरित्यर्थः । अन्यथेति । पुण्यादिसम्बन्धादेव पौषादिल इत्यर्थः । माध्यांयदीत्यादि । मघासंबन्धादेव माघीत्वेन तत्र मधानिषेधस्यायो. ग्यतमाऽसंगल्यापत्तरित्यर्थः ।
राज्यादावपीति । पुष्य नक्षत्रयोग इति शेषः । तथाव्यवहारादिति । पुष्य नक्षत्रयोगनिबन्धनपोषीतिव्यवहा. रादित्यर्थः । तथाच यदियोगार्थतावच्छेदकं पुष्ययोगयोग्यत्वं स्यात्तस्य धनुस्थरव्यारब्धपक्षीयलरूपस्यमकरस्थरव्यारब्धप. क्षीयतिथावभावात्तादृशव्यवहारो न स्यात् नचोक्तयोग्यत्वं धनुस्थरव्यारब्धमासीयखमेवास्तु मकरारब्धकृष्णपक्षीयरात्रावपि तथालमस्तीति वाच्यम् तादृशमासबहिर्भूतपुष्य नक्षत्रयुक्तरानिमात्रे पुष्ययोगनिबन्धनस्य पौषीरानिरिति व्यवहारस्य सत्त्वेन तस्य तथाप्यनुपपत्तेः । नच तादृशमासीयपुष्यनक्षत्रयोगरहितरात्रिषु पौषीति व्यवहारापत्तिरपि दोष इति वाच्यं तन्मासस्य पौषत्वेन पौषस्येयं रात्रिरिति व्युत्पत्त्यापौषीति व्यवहारस्योपपन्नतयेष्टापत्तेरिति भावः । त्यागानोच्चारणेति। मन्त्रोच्चारणं