________________
गूढार्थतत्वालोकव्याख्यासहितः। पोषादिव्यवहारविरहात् । अथैवमपि सौरे पौषादिव्यवहारस्य निर्विवादतया धनुःस्थरविविशिष्टत्वमेव
कथं पौषादिपदशक्यतावच्छेदकमुपेयत इति चेन्न । सौरे पौषादी पौष्यादिपूर्णिमाया अलाभे जिगरूढिलभ्यपौषपदार्थविलोपापत्तेः । नच तत्र रूढिमात्रमवलम्ब्येव पौषादिव्यवहारः सौरपौषादौ
ल्य इति वाच्यम् । तथासति योगार्थव्युत्पादनवैयर्थ्यात् । अथ विलुप्यतां वर्षविशेषे पौषाविपदमुख्यार्थः का क्षतिः तत्र लक्षणया सौरमासे पौषव्यवहारस्योपगन्तव्यत्वात् स्थलपनादौ
जव्यवहारवदिति चेत्तर्हि तत्र पौषादिपदमुख्यार्थमासनिमित्तकाब्दिकश्राद्धादिविलोपप्रसङ्गः । मथाश्रुतशूलपाणिग्रन्थानुसारिणस्तु धनुरादिस्थरव्यारब्धशुक्लप्रतिपदादिदर्शान्तेषु धनुरादिस्थरविसमाप्यमकरादिस्थरविसंक्रान्तिमन्मासाभिनधनुरादिस्थरव्यधिकरणशुक्लप्रतिपदापिदर्शान्तेषु वा पौवादिपदस्य रूढत्यमेव स्वीकुर्वन्ति, नतु यौगिकत्वम् । “अन्त्योपान्त्यौ त्रिभौ ज्ञेयाविति, वचनात् । पौषादिमासीयपौर्णमास्यां पुष्यादियोगस्यानियमात् !" नच योगानादरे लाघवात्तत्तद्राशिस्थरविवि. शिष्टकालरूपसौरादिमासएव पौषादिपदशक्तिरुचितेति वाच्यम् । सा वैशाखस्यामावास्या या
प्रयुक्तकालस्येत्यर्थः । पौषादिव्यवहारेति । पौषशुकचतुर्दशीमारभ्य माघशुक्लचतुर्दशीपर्यन्तसमुदायस्य सावनमासव्यवहारविषयस्य पौष्याभिन्नपौर्णमासीघटितमासत्वेन पौषत्वापत्त्या तटकमाघशुक्लपक्षीयतिथिदिनादिषु पौषस्येदं दिन तिथिवा पौषमित्यादिव्यवहारापत्त्या पौषादिशब्दः शुक्ल प्रतिपदमारभ्यामान्ततिथिसमुदाये पौषीघटिते पर्याप्तं यत्रिंशत्त्वं तदवच्छिन्ने योगरूढ इति भावः । धनुस्थरविविशिष्टेति । धनुष्कर्मकरविभोगानधिकरणकालावृत्तित्वे सति तादृशकालवृत्तिदिनपर्याप्तत्रिंशत्त्वावच्छिन्नमिति तु नार्थः । त्रिंशद्दिनन्यूनाधिकदिनकस्यापि तादृशमासस्य सत्त्वात् । किन्तु ताहशसंख्यायाः त्रिंशत्वत्वेन प्रवेशमविधाय समुदायवत्वेन प्रवेशं विधाय पञ्चदशदिनादिवृत्तिसमुदायलवारणाय स्वानधिकरणस्वाश्रयाव्यवहिततादृशभोगाधिकरणदिनकान्यत्वं विशेषणं च प्रक्षिप्य तादृशसमुदायलावच्छिन्नोऽर्थस्तस्य वाच्यः अत्र तादृशाव्यवहितोत्तरत्वनिवेशात्तादृशपोषान्तरीयदिनमादाय नाप्रसिद्धिः तादृशभोगाधिकरणत्वनिवेशाच स्वाश्रयाव्यवहितराश्यन्तररविभोगाधिकरणदिनमादाय नाप्रसिद्धिः खानधिकरणलनिवेशान्मासघटकंस्खाश्रयाव्यवहिततादृशभोगाधिकरणदिनमादाय नाप्रसिद्धिः तादृशपञ्चदशदिनसमुदायत्वस्य स्वानधिकरणतादृशदिनकत्वेन तत्परिग्रहासंभव इति। विलोपापत्तेरिति । योगरूढिशब्दालक्षणां विना रून्यर्थमात्रविषयकबोधानभ्युपगमादवयवशक्तिसमुदायशक्तिभ्यां योगार्थाभिन्नरूम्यर्थविषयकबोधस्यैवोपगन्तव्यतया प्रायशो धनुस्थादिरविविशिष्टदिनसमुदायस्य पौष्याधभिन्नपूर्णिमाघटितखस्यासंभवाद्योगरूव्यर्थस्योक्तबोधविषयस्याप्रसिद्ध्यापत्तेरित्यर्थः । तथा च शुक्ल प्रतिपदादिदर्शान्तदिनसमुदाय एव रूढिरङ्गीकार्या तादृशसमुदायस्य पौष्यायभिन्नपूर्णिमाघटितखसंभवेन योगरूढ्यर्थप्रसिद्धिसम्भव इति भावः। योगार्थबाधादिस्थले लक्षणां विनापि समुदायशक्त्या बोधस्याभ्युपगततया पौषादिशब्दस्य सौरमासे रूढिरुपगन्तुं शक्यत एवेत्यत आह । नचेति । रूढशब्दानां यत्र शास्त्रेण योगः प्रदर्श्यते तत्र योगार्थरूल्यर्थयोः कथञ्चिदप्यभेदोपपादनसंभवे योगरूढखमेवान्यथामण्डपादिशब्दवद्रूढयौगिकत्वमत्र च पूर्वोक्तरीत्या रूढिवीकारे योगरूढत्वमेवाङ्गीकार्य तथासति योगार्थस्य मासान्तरव्यावर्तकत्वेन रूल्यर्थस्य पक्षादियौगिकव्यावर्तकत्वेन योगरूढ्योः सार्थकलं संभवति सौरमासे रूढिखीकारे व्यावतंकवाभावेन यौगिकलस्य व्युत्पादनं व्यर्थ स्यादिति भावः । अथास्तु पौषशब्दो योगरूढो रूख्यर्थतावच्छेदकन्तु धनुस्थरविविशिष्टत्वमेव यत्र पौषशुक्लचतुर्दश्यादौ कदाचिद्धनु:संक्रान्तिस्तत्र योगार्थाभिन्नरूत्यर्थप्रसिद्धिर्यत्र वचन प्रसिद्ध्यापि योगार्थव्युत्पादनस्य सार्थकत्वसंभवः येषु वर्षेषु पौषपूर्णिमातः प्रागेव मकरसंक्रान्तिस्तेषु सौरमासस्य योगार्थाभिन्नलस्यासंभवेन योगरूट्यर्थविलोपेऽपि न काचित्क्षतिर्लक्षणयैव सौरमासस्य पौषशब्देन व्यवहारसंभवात् । शुक्ल प्रतिपदादिदर्शान्ते रूढेरभ्युपगमो निरर्थक इत्याह । अविलुप्यतामित्यादि । यस्मिन् मासे यत्र तिथौ यो मृतो द्वादशमासपूतौ तस्मिन्मासि तत्र तिथौ तस्याब्दिक श्राद्धं विहितं तस्य विलोपः स्यात्सौरमासपरिप्रहे द्वादशमासानन्तरं प्रायशस्तन्मासीयतत्पक्षीयतत्तिथे भस्यासंभवादिल्याह । तत्रपौषादिति। धनुरादिस्थरव्यारब्धेत्यादि । पौषशुक्ल प्रतिपत्त्वेन यस्य व्यवहारस्तस्य नियमेन धनुस्थरविसंघन्धत्वालक्षणसंगतिः यदिमलमासस्य वैशाखादिमासखं नेष्टं तदाह । धनुरादिस्थरविसमाप्येत्यादि । शुकप्रतिपदादिदर्शान्तस्य यस्य मेषस्थरव्यधिकरणत्वेसति वृषसंक्रान्त्याश्रयत्वं तस्यैव वैशाखवं नैवं मलमासस्येति न तस्यतत्त्वम् अप्रिमशुक्ल प्रतिपदादिदर्शान्तसमुदायस्वावश्यं किञ्चिदपिकाले मेषस्थरव्यधिकरणखात् वृषसंकान्यधिकरणमासाभिन्नलाच वैशाखसमक्षतम् मासभिनेतितुप्रामादिकः पौषशुकप्रतिपदादिदन्तिस्यप्रायोमकरसंक्रान्तिमत्त्वेन मकरसंक्रान्तिमन्मासभिन्नत्वासंभवात् मार्गशुक्लप्रतिपदादिपौषदन्तिस्य पुष्यसंबन्धयोग्यपूर्णिमाघटितलाभावेनालक्ष्यलातू पौषशुक्लादिदर्शान्तादिषु धनुर्मकरोभयसंक्रान्तिमत्त्वे लुप्तस्य