________________
व्युत्पत्तिवादः ।
ह्मणोऽपितु ब्राह्मणीत्यादी पुंस्त्वबोधकपदान्तराभावेन तद्बोधानुपपत्तेः । ब्राह्मणादिपदाच जास्यादेव्यस्य च भानं नियतमेव । लिङ्गभानं तात्पर्ययोग्यताधीनं क्वाचिकम् ब्राह्मणीत्यादी पुंस्त्वाधबोधादिति वाच्यम् । उक्तयुत्तया पुंस्वस्य प्रातिपदिकार्थस्वेऽप्यनन्तानां प्रातिपदिकपदानां स्त्रीत्वार्थकत्वे गौरवात् लाघवेनाल्पीयसां स्त्रीप्रत्ययानां तदर्थकत्वकल्पनौचित्यात् । अतएव स्त्रीत्वसंग्रहाय प्रातिपदिकार्थत्यादिसूने लिङ्गग्रहणम् । अन्यथा प्रातिपदिकार्थपव तदन्तर्भावेन पृथक् तदुपादानानुपपत्तेः । क्रचित्स्त्रीप्रत्ययः स्त्रियं भार्यात्वेन प्रकृत्यर्थविशेष्यतया बोधयति आचार्याणी मानवी शूद्रीत्यादी भार्यात्वं संबन्धविशेषः तत्रैव च निरूपकत्वेन प्रकृत्यर्थान्वयः । खट्वाटवीदेवतापदे च स्त्रीप्रत्यया नार्थबोधकाः। तत्र प्रकृत्यर्थे योनिमत्त्वरूपस्त्रीत्वस्यायोग्यतयाऽनन्ययात् । नच शब्दगतं स्त्रीत्वादिरूपधर्मान्तरमेव तत्र परम्परासंबन्धेनार्थगततया भासत इति श्री. पतिदत्तोक्तं युक्तम् । तद्भाने मानाभावात् । युख्याख्यावित्यत्र ख्याख्यपदं स्त्रीलिङ्गशब्दपरं नतु स्त्रीत्वविशिष्टार्थकशब्दपरम् । तेनाटब्यादिशब्दानां स्त्रीत्वविशिष्टाबोधकत्वेऽपि न नदीसंज्ञानुप. पत्तिः । अतएव स्त्रीभूप्रभृतीनां स्त्रीप्रत्ययान्तत्वाभावेन स्त्रीत्वविशिष्टायोधकत्वेऽपि नदीसंज्ञानसत्या नेयङवस्थानाविति निषेधसंगतिः । नचैवं सेनान्ये स्त्रियै इत्यादावपि नदीसंज्ञा स्यात् । सेनान्यादिशब्दस्य तत्र विशेष्यनिम्नतया स्त्रीलिङ्गत्वादिति वाच्यम् । प्रयोगानुसारेण विशेष्यसमाभ व्याहारानधीनायाः स्त्रीलिङ्गताया विवक्षणीयत्वादिति संक्षेपः ॥ इति लिङ्गार्थनिरुपणम् ।
तद्धितप्रत्यया अपि नामप्रकृतिकाः क्वचित्प्रकृत्यर्थेन स्वार्थैकदेशस्य, क्वचिञ्च तेन स्वार्थस्यान्वयबोधं जनयन्ति । तत्र गार्गिरित्यत्रापत्यार्थविहिततद्धितार्थस्यापत्यस्यैकदेशे जन्यत्वे निरूपकतया प्रकृत्यर्थगर्गाद्यन्वयः । गार्ग्य इत्यादौ तद्धितार्थस्य गोत्रापत्यैकदेशपुत्रधटकजन्यत्वे तथा तन्वयः । गा-- यण इत्यादौ तद्धितार्थस्य युवापत्यस्यैकदेशे जन्यत्वे गार्ग्यस्य जीवति तु बंश्ये युवेतिपरिभा षितवार्थघटकजीवने च गर्गादेरन्वयस्तेन गर्गादिजीवनकालीनो गर्गगोत्रापत्यस्यापस्यमयमिति बोधः। माञ्जिष्ठं वास इत्यत्र तेन रक्तमित्यर्थं तद्धितो विहितः । तत्संबन्धाधीनतदीयरूपारोपविषयत्वं तेन रक्तत्वम् । शङ्खः पीत इत्यारोपमादाय शहादेरारोप्यपीतिमाद्याश्रयहरितालादिरक्तत्वस्य वारणायाधीनान्तमारोपे विशेषणम् । पटादेश्चक्षुरादिना रक्तत्वस्य वारणाय तदीयत्वं रूपविशेषणम् । अत्रच रागकरणस्य मञ्जिष्ठादेः प्रकृत्यर्थस्य तद्धिताधैकदेशसंबन्धे प्रतियोगितया रूपे चाश्रयतयाऽन्धयः। शुल्यमुख्यमित्यादौ तद्धितार्थसंस्कृतैकदेशे पाकादिरूपसंस्कारे शलोखादेः प्रकृत्यर्थस्याधिकरणत्वेनान्वयः। पौषी रात्रिरित्यादी नक्षत्रयुक्तकालार्थे तद्धितः । कालस्य नक्षत्रयुक्तत्वं च तनक्षत्रशशिभोगाश्यत्वं, तदेकदेशे शशिभोगे च कर्मतया तनक्षत्रान्वयः । पौषो मासः पौषो वर्ष इत्यादी सस्मिन्नित्यनेन विहितस्य तद्धितस्य पौर्णमासीघटितत्वावच्छिन्नोऽर्थः पौणर्मास्या प्रकृस्यर्थपौष्यादेरभेदेनान्वयः । पौषादिपदं च न केवलं यौगिकम् पौषः पक्ष इत्यादिव्यवहारवि. रहात् अतो रूढमपि । अतएव सूत्रे संज्ञाग्रहणं रूढिनिरूपकतावच्छेदकं च मासनिष्ठशुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वं मतु त्रिशत्तिथिरूपमासत्वमात्रम् । यत्किचित्तिथ्यवधिकत्रिंशत्तिथिसमुदाये मासव्यवहारेऽपि चान्द्रसौरपौषादिबहिर्भूतपौष्यादिघटितत्रिशस्तिथ्यन्तर्गततिथिषु - ------ . . .... .... .....-..-. -
------- गोत्रापत्यैकदेशइति । गोत्रञ्च तदपत्वं गोत्रापत्यम् । अपत्यं पौत्रप्रभृतिगोत्रमिति सूत्रेणापत्यस्य स्वनिरूपितसाक्षा
रासाधारणजन्यखवतो गोत्रसंज्ञाविधानात् जीवतितुवंश्येयुवेतिसूत्रम् वंश्ये पित्रादौजीवति पौत्रादेयंदपलं चतुर्थादि तावसंज्ञमपत्यं भवतीति तदर्थः । तथाच वपुत्रपुत्रनिरुपितसाक्षात्परम्परासाधारणजन्यत्ववतः पित्रादिजीवनकालीनस्थापत्यस्य युवसंज्ञस्यैकदेशे जीवने पुत्रनिष्ठजन्यत्वे च प्रकृत्यर्थस्यान्वयइति । पौष्यादेरिति । पुष्यनक्षत्रयुक्ता पौर्णमासी पौषी तद्वोधकशब्दात्सास्मिन्नित्यनेन तद्धिते पौषशब्दो मासवाची निष्पद्यते तत्र प्रकृतिभूतपोषीशब्दार्थपुष्यनक्ष