________________
१७०
व्युत्पत्तिवादः ।
उक्तस्थले च यक्रियाब्यक्त्या जलसंयोगादिवृक्षादौ जन्यते तत्र कालान्तरीणपुरुषान्तरीणेच्छाया सविषयसंयोगादिजनकत्वसंन्बधसत्त्वेऽपि स्वजन्यत्वाभावानोभयसंबन्धेनेच्छावैशिष्ट्यमित्ययोग्यतैवे ति वदन्ति । अत्रेदं बोध्यम् । उद्देश्यत्वागत्यागजन्यखत्वभागित्वस्य ददातिसंप्रदानतारूपत्वे मै बोद्देशेन यइत्तं तत्र तादृशदानेन दम्पत्योर्मध्यगं धनमित्यतस्तत्पस्या अपि स्वत्वस्य प्रामाणिकतय संप्रदानत्वेन चैत्रपल्यै दत्तमिति व्यवहारापत्तेः । नच पत्युः स्वत्वमेव पत्नीस्वत्वं जनयति नर तत्सामग्रीति वाच्यम् । स्वत्ववति स्वत्वान्तरानुत्पत्तेः । तथाच सर्वत्रैवोद्देश्यत्वान्तर्भावः भवतु च पितृभ्यो दयादित्यत्रापि मुख्यमेव संप्रदानत्वं चतुर्थ्यर्थः । अस्तु व स्वस्वत्वेच्छाधीनतत्कत्वमेव मुख्यदानरूपक्रियासंप्रदानत्वं पितृस्वत्वाप्रसिद्ध्या न तेषां संप्र दानत्वं चतुर्दाथों धात्वर्थतापच्छेदकस्वत्वान्वयि निरूपितत्वं खत्वस्य च स्वत्वध्वंसेच्छा रूपे त्यागे जनकत्वखेच्छाधीनत्वोभयसंबन्धः । तल्लाभश्च विशिष्टस्य धातुशक्यतामते शक्तिल एव, तदन्तर्भावेणैव शक्त्यभ्युपगमात् । फलव्यापारयोः पृथक् धात्वर्थतामते आकाक्षाबलादेव ताशसंबन्धलाभः । पितृभ्यो दद्यादित्यत्र च धात्वर्थान्तर्गतखत्वे चतुथ्यों पित्राद्यन्वयी निरूपि तत्वरूपो मुख्योऽर्थो बाधितत्वान्न प्रत्याय्यते, अपितु निरूपितत्वेनेच्छाविषयत्वरूपो लक्ष्यार्थ एव ददातिस्तु तत्र मुख्य एष श्राद्धस्यापि ब्राह्मणापेक्षयादानत्वात् । श्राद्धे ब्राह्मणस्य संप्रदानतानिर्वा हायास्ति चोद्देश्यतापि ब्राह्मणस्येत्यादिकमभिदधानस्य शूलपाणेरपि संप्रदानत्वशरीरउद्देश्यत्वांश परित्यागे निर्भरोऽवगम्यते । कर्मणायमभिप्रेतीति प्रणयतो महर्षेः पाणिनेरपि संमतोऽयमः। शत्रवे भयं ददातीत्यादौ जनयतीति भाक्तोऽर्थः। एवं चोत्पादकव्यापाररूपे धात्वर्थे भयरूपं कर्म तद्योगितयोद्देश्यत्वात् शञ्चादेः संप्रदानत्वम् । . युद्धाय संनात इत्यादौ संनहनादिक्रियाजन्यफलासंबन्धायुद्धादेन संप्रदानतानिर्वाह इतिनेयं संप्रदानचतुर्थी अपित्वेधानाहर्तुं व्रजतीत्यर्थे एधेभ्यो व्रजतीत्यत्रेव युद्धं कर्तुं सोढुं वा संनयतहत्यर्थविवक्षया क्रियार्थोपपदेति सूत्रान्तरेण तस्य च स्थानिनोऽभूयमाणस्य क्रियार्थोपपदस्य तुमुन्नन्तधातोः कर्मणि स्वार्थनिष्ठकर्मत्वे विवक्षिते स्वोत्तरं चतुर्थीत्यर्थः। तथाचाहरणकरणसंनहनाघुद्देश्यकत्वं तादृशचतुर्थ्यर्थ इत्यवधेयम् । अथ यदग्नये च प्रजापतये च सायं जुहोतीत्यादावग्यादेरिव सर्वभूतेभ्य उत्सृष्टं मयतज्जलमूर्जितमित्यादौ, सर्वप्राणिनामिव पशुना रुद्रं यजत इत्यादावपि त्यागविशेषरूपक्रियायां रुद्रादेरनिराकर्तृसंप्रदानतया चतुर्थी स्यादिति चेन्न । गौरवितप्रीतिहेतुक्रिया यज्यर्थः, तदर्थतावच्छेदकफलं प्रीतिस्तदाश्रयतया रुद्रस्य विवक्षितत्वात्कर्मसंक्षकत्वेन द्वितीयैव नत् च
भावः । अतएवेत्यादिपूर्वोक्तदोषमनुस्मृत्याह-अस्तुवेति । स्वस्य सम्प्रदानलाभिमतस्य यत्खलं तदिच्छाधीनं तत्खलं यस्य तत्संप्रदानं तत्त्वमित्यर्थः । पल्याश्च खलं न पत्नीखत्वेच्छाधीनमिति न तस्याः संप्रदानवमिति बोध्यम् । अनिराकर्तृसंग्रदानतयेति । अनिर्धारितकर्तृसंप्रदानतयेति पाठेन भवितव्यं पूर्वन्तथैवोक्तत्वात् तलञ्च समभिव्याहृतक्रियाजन्यफलभागितयेच्छाविषयलम् । यद्वा अनिराकर्तृसंप्रदानत्वमुक्तार्थे पारिभाषिकम् । अथवा निराकर्तृव्यावर्तकं खलनिरूपकवरूपं मुख्यं संप्रदानखं तद्धि यस्य न प्रतिपत्तिर्नचोद्देशलं तस्य व्यावर्तकं न निराकर्त्रनिराकर्तृगौणं संप्रदानलं क्रियाजन्यफलभागितयोद्देश्यलरूपं प्रतिपत्तिरहितसाधारणखादव्यावर्तकमित्यर्थः । वस्तुतस्तु निराकर्तृतत्संप्रदानं यत्प्रदत्तं खीकृत्य ममेदं मालं गृहाणेत्यन्यं निराकरोति निवारयति तादृशस्य संप्रदानस्य क्रियाजन्यस्खलरूपफलभागित्वेन संप्रदानत्वेऽपि यसंप्रदानमुदासीनं विरक्तं न कमपि निराकरोति तस्यानिराकर्तृसंप्रदानस्य खलाभावेनोक्तसंप्रदानखाभावाकियाजन्यखलादिरूपफलभागितयेच्छाविषयखमेव संप्रदानलं वाच्यमिति रुद्रादीनामप्यनिराकर्तृतयाऽनिराकर्तृसंप्रदानतयोक्तरूपया ततश्चतुर्थास्यादित्यर्थः । पूर्वग्रन्थेऽप्यनिर्धारितस्थानेऽनिराकत्रित्येवयुक्तः पाठः।
गौरवितप्रीतीति । नच गौरवितस्य रुद्रादेः धात्वर्थेनोपसंग्रहात्कथं कमलमिति वाच्यम् । गुरुफलप्रदत्वेन रुदादिगतप्रीतेरपि गुरुत्वेन गौरवितलस्य प्रीतेरेव विशेषणलात् रतिभोजनादेरपि प्रीत्यनुकूललादुक्तविशेषणम् ! गौरवश्च तत्र खर्गादिजनकतावच्छेदकजातिविशेषः । अन्यथा पत्यादेरपि गौरवितत्वेन रत्यादेरपि यागखापत्तेः । यद्वा गौरवितसस्य