________________
गूढार्थतत्वालोकव्याख्यासहितः ।
१६९ संप्रदानत्वानुपपत्तिरिति वाच्यम् । धात्वर्थतावच्छेदकफलाश्रयत्वभिन्नफलसंबन्धस्य संप्रदाय शरीरे निवेशेन सामञ्जस्यात् । वृक्षायोदकमासिञ्चतीत्यादौ द्रवद्रष्यक्रियानुकलव्यापारो धास्वार्थी सम्प्रदानतानियाहकसंयोगश्च न तादृशधात्वर्थतावच्छेदक इति तदाश्रयत्वं निरुक्ताश्रयताभित्र मेवेति तत्प्रकारकाभिप्रायविषयवृक्षादेः संप्रदानतानिर्वाहात् । नच पत्ये शेतइत्यादौ धात्वर्थतापच्छेदकफलाप्रसिद्ध्या तदनुपपत्तिः।भेदप्रतियोगिप्रविष्टधात्वर्थतापच्छेदके फलवानिवेशेन प्रसिदि. संभवात् । एवंच ब्राह्मणायेत्यादौ ब्राह्मणनिरूपितत्वेनेच्छाविषयगोनिष्ठस्वत्वजनकत्यागकतेति बोधः। निरूपित त्वेन कर्तुरिच्छाविषयत्वं द्वितीयान्तार्थयोवृत्तित्वान्वयिधात्वर्थतावच्छेदकस्वत्वाम्वयिचतुर्थ्यर्थः । स्वत्वजनकत्यागश्च ददात्यर्थः । अत्र केचित् । ददातियोगे धात्वर्थतावच्छेदकस्वत्वनिरूपकत्वमेव संप्रदानत्वं तदेव च मुख्यम् । तथाच तत्र निरूपितत्वमात्रं चतुर्थ्यों धात्वर्थतावच्छेदकस्वस्वेऽन्वेति । अतएव श्राद्धस्य पित्रपेक्षया यागत्वमेव दानत्वं तु ब्राह्मणापेक्षयेति शूलपाणिः । तत्र त्यज्यमानेऽर्थे पितृणां स्वत्वानुत्पत्त्या संप्रदानत्वासंभवात् स्वत्वभागित्वेनोद्देश्यत्वं यदि संप्रदानत्वं स्थात्तदा पितॄणामपि तथात्वाक्षतेः, पित्रपेक्षयापि दानत्वं स्यात् । नहि श्राद्धपितृणां स्वत्वभागि. स्वेन नोद्देश्यत्वम् । पितरेतत्तेऽस्वधेत्यादिश्राद्धरूपत्यागाभिलापस्य स्वधार्थत्यागेचतुर्थ्याः स्वत्व. भागित्वेन पित्रादेरुद्देश्य त्वबोधकत्वात् । स्वत्वभागित्वेनोद्देश्यस्यापि पित्रादेः स्वीकाराभावान्न खत्वं ब्राह्मणानां तत्रानुद्देश्यत्वेऽपि स्वत्वं प्रतिपत्तितो जायते । अनुद्देश्यत्वेऽपि च संप्रदानत्वमुपपादितमेव । पितॄणामिव ब्राह्मणानामपि च स्वत्वभागित्वेनोद्देश्यत्वमप्यविरुद्धम् । धात्वर्थतानवच्छेदकफलभागितया यत्र संप्रदानत्वं वृक्षायोदकं सिञ्चति, पत्ये शेत इत्यादी तत्रोद्देश्यत्वांशनिवेश आवश्यकः यत्रान्योद्देशेन क्षिप्तजलस्य दैवादृक्षसंयोगोऽन्योद्देशेन शयनादितश्च पत्यादेः फलसंबन्धस्तत्र तथा प्रयोगविरहात् । अतएव तत्र चतुथ्यर्थः वृक्षाविनिष्ठतया कर्मभिप्रेततत्तत्फलं प्रति अन. कत्वम् तच सेकादिक्रियायामन्वेति भाक्तं च तत्र संप्रदानत्वम् । उद्देश्यत्वागर्भसंप्रदानत्वपवलाघवाच्छक्तरितरत्र लक्षणाया अभ्युपगमात् । पितृभ्यो दद्यादित्यादावनिर्धारितकर्तृकसंप्रदाने च
धी तत्वं च तत्र त्यागजन्यस्वत्वभागितयाश्यत्वमेव । अथ जनान्तरस्य वृक्षादिनिष्ठजलसंयोगादिरिच्छाविषयोऽन्येन च जनेनान्योहेशेन क्षिप्तजलादेर्वृक्षादिसंयोगस्तत्रापि वृक्षायोदकमासिअति जन इत्यादिप्रयोगापत्तिः । तत्तद्वयक्तित्वस्य पदेनानुपस्थापनात् । तेन रूपेण विशेष्यभूतकर्तृव्यक्तीनामिच्छांशे भानासंभवादुपस्थितजनत्वावच्छिन्नेच्छाविषयत्वस्य च वृक्षसंयोगादायषाधात् । एवं तदीयकालान्तरीणेच्छामादायाप्यतिप्रसङ्गतादवस्थ्यमिति चेन्न। वृक्षादिनिष्ठत्वेनेच्छैव हिचत. य॑न्तार्थः । तस्याश्च स्वविषयसंयोगादिजनकत्वस्वजन्यत्वोभयसंबन्धेन सेकादिक्रियायामन्वयः ।
तदेव च मुख्यमिति।लाघवात्संप्रदानपदशक्यतावच्छेदकमित्यर्थः यस्यानुद्देश्यलं तस्य कर्चनुमतप्रतिपत्त्यापि न खलोत्प. त्तिर्भवतीति चेत्कस्यचिन्मतिस्तदाप्याह । पितृणामिवेत्यादि । तथाचोभयोरुद्देश्यबस्याविरुद्धवाड्राह्मणउद्देश्यत्तस्य सत्वेन प्रतिपत्तितस्खत्वोत्पत्तिसंभवात्स्वारसिकप्रयोगहेतुमुख्यसम्प्रदानखं ब्राह्मणस्यैव तत्र न पित्रादेरितिभावः । एतेनानुद्देश्यत्वेपीति पूर्वग्रन्थेन विरोधो निरस्तः । उद्देश्यत्वमप्यविरुद्धमिति। एतेनोद्देश्यलघटितसंप्रदानखस्य ब्राह्मणे विरहेण श्राद्धस्य ब्राह्मणापेक्षया दानत्वं न स्यादित्यनुपपत्तिमनुद्भाव्य पित्रपेक्षया दानवं स्यादित्यापत्तिमात्रोद्भावनमसमजसमित्याशङ्का निरस्ता । अनिर्धारितकर्तृकसंप्रदानइति । अत्रानिर्धारितकर्तृकदानसंप्रदानेति पाठेन भवितव्यम् । नाहि संप्रदानं सकर्तृकं भवति अक्रियावात् । यद्वा सम्प्रदानपदार्थघटकक्रियायामन्वयाभिप्रायेण तथापाठः । अनिर्धारितलव कर्तुश्चैत्रवादिशरीरगतजातिविशेषविशिष्टावच्छिन्नत्वेनानवधृतलम् तेन खपितृभ्यः पितादद्यादित्यत्राप्यनिर्धारितकर्तृखमक्षतम् एवञ्च पायसैः स्वपितॄन् यजते चैत्र इत्येव मुख्यप्रयोगः । कर्तुनिर्धारितत्वेनोद्देश्य त्वगर्भसंप्रदानलस्य स्वरसतः प्रत्ययासभवात् त्यागजन्यस्खलनिरूपकलरूपमुख्यसंप्रदानखस्यैव कर्तृनिर्धारणस्थले प्रत्येतव्यलात्तस्य बाधारिपतृभ्यो ददाति चैत्र इत्यस्यासंभवात् ब्राह्मणाय ददातीतितु स्यादेव । यत्तु प्रामुक्तं श्रादस्य पित्रपेक्षया न दानत्वं तस्य सम्प्रदानयाभावादिति तन्निर्धारितकर्तृकस्थले स्वरसतः प्रत्येतव्यमुख्यसंप्रदानलाभावपरमनिर्धारितकर्तृकस्थलीयामुख्योक्तसंप्रदानवन्विष्यत एनेति
व्युत्प० २२