________________
१६८
व्युत्पत्तिवादः ।
त्वम् । अतपय द्वित्वनाशकालीनायां द्वे द्रव्यइति बुद्धौ न द्वित्वविषयकत्वमपितु द्वित्वविशिष्टविषयकत्वमेव, द्वित्वरूपविशेषणधीजन्यत्वादित्याचार्याः । एवमप्रतियोगित्वाविशेषेऽपि घटसामान्याभावादिप्रतियोगिनि घटत्वादिकं विशेषणं नीलादिकमुपलक्षणमित्युच्यते । कचिश्व विद्यमानमतद्व्यावृत्तिन्यूनाधिकवृत्तितया तत्र न विशेषणमित्युच्यते किंतूपलक्षणम् यथा विद्यमानापि जटा तापस उपलक्षणं, नतूपलक्ष्यतावच्छेदकशमदमादिवद्विशेषणमित्यलम् । क्वचिदविशेषणस्यापि संबन्धो मत्वर्थीयेन बोध्यते घटोऽयं विनाशीत्यादिप्रयोगदर्शनादिति दीधितिकृतः । तदसत् । आवकार्थधातूप्तरणिनिप्रत्ययेनापि तत्र विनाशिपदव्युत्पत्तेरिति ॥ इति तृतीया ॥
ब्राह्मणाय गां ददातीत्यादौ संप्रदानच तुर्थ्या ब्राह्मणादिसंप्रदानकत्वं दानादौ बोध्यते । संप्रदानत्वं च मुख्यभाक्तसाधारणक्रियाकर्मसंबन्धितया कर्त्रभिप्रेतत्वम् । क्रियाकर्मत्वं क्रियाजन्यफलशालित्वं तद्वतस्संबन्धस्तन्निष्ठफलभागित्वमेव । तथाच क्रियाजन्यफलभागितया कर्तुरिच्छाविषयत्वं पर्यवसन्नम् । कर्मणा यमभिप्रतीत्यस्य कर्मणा यमभिसंबद्धुमिच्छतीति शाब्दिकै विवरणादुक्तस्थले त्यागरूपक्रियाजन्यगोनिष्ठस्वत्व भागितया दातुरिच्छाविषयो ब्राह्मण इति तस्य संप्रदानत्वम् । अथ निरुक्तस्य संप्रदानत्वस्य कर्मत्वस्याविशेषः । कर्त्तुरीप्सितेति सूत्रेण कर्त्तुः क्रियया व्याप्तुमिष्टस्य कर्मसंज्ञाविधानात् । क्रियाया व्याप्तुमिष्टत्वमपि हि क्रियाजन्यफलभागितयेच्छाविषयत्वमेव । नच तथायुक्तमित्यनेन तद्भागितयाऽनभिप्रेतस्यापि तदाश्रयस्य तत्संज्ञाविधा नात् कर्मत्वं क्रियाजन्यफलशालित्वमेव नत्विच्छागर्भम् संप्रदानत्वं त्विच्छागर्भमतो भेदः । कर्मत्वस्येच्छाऽघटितत्वे सूत्रे तद्वैयर्थ्यापत्तेः । नच तदाश्रयत्वेनानभिप्रेतस्यापि कर्मत्वेन तत्साधारणक्रियाजन्यफलशालितयेस्यापि ग्रामादेः कर्मतोपपत्ताविच्छाघटिततत्सूत्रचैयर्थ्यमेवेति वाच्यम् । इच्छाघटितस्य निरुक्तरूपस्य यत्राबाधस्तत्र तादृशरूपमपि कर्मप्रत्ययेन प्रतिपाद्यत इत्येतत्प्रतिपादनाय सूत्रयप्रणयनात् । अतएव यत्रौदनस्य गलाघः संयोगेच्छया यो व्यापारस्ततो विषादेरपि तत्संयोगस्तत्र विषादौ क्रियाजन्य फलशालित्वाभावबाधेऽपि तेन रूपेणेच्छाविषयस्वाभावोऽवाधितस्तत्र विषमनेन न भुज्यत इति प्रयोगोपपत्तिः, इच्छाघटितकर्मत्वतात्पर्येण च दैवाद्विषं भुज्यतइति प्रयोगस्य चोपपत्तिः । नच धात्वर्थतावच्छेदक फलशालित्वेनोद्देश्यरत्रं कर्मत्वम् तदनवच्छेदक फलशालित्वेनोद्देश्यत्वं संप्रदानत्वमिति विशेषः । स्वस्वत्वध्वंसावच्छिन्नत्याग एव ददात्यर्थो नतु परस्वत्वफलावच्छिन्नोऽपीति वाच्यम् । उपेक्षायामपि ददातेमुख्यार्थतापत्तेः । मैवम् । फलाश्रयतयेष्टत्वमेव हि कर्मत्वम् । फलसंबन्धित्येष्टत्वं संप्रदानत्वम् । ब्राह्मणादिश्च न त्यागजन्यस्वत्वाश्रयतया दातुरिष्टोऽपि तु तन्निरूपकतयैवातो न तस्य कर्मता ! नवाश्रयत्वमपि संबन्धविशेष इति गवादेरपि संप्रदानत्वं दुर्वारम् । आश्रयत्वेनाभिप्रायस्थले कर्मसंज्ञया बाधादन्य पवहि संबन्धः संप्रदानताघटक इति यद्युच्येत तदा वृक्षायोदकमासिञ्चति, पत्ये शेत इत्यादौ सेकजन्यजलसंयोगशयनजन्य प्रीत्याद्याश्रयतयाभिप्रेतस्य वृक्षपत्यादेः
ह्योऽस्तिच दण्डवानस्त्यासीदित्यादौ विद्यमानातीतकालसत्त्वादे विधेयस्य धर्मिणि पुरुषे य एव संबन्धः स एव विशेषणेन दण्डेनापीति स एवविशेषणं नतु रूपादिकं तेन सहरसादे रसवदादेर्वा विधेयस्य धर्मिणि द्रव्ये भासमानस्य समवायस्याभेदस्य वा संबन्धस्य विरहात् यस्य कस्यचित्संबन्धस्य ग्रहणे सामनाधिकरण्यादेस्तत्रापि संभवेन रूपस्यापि विशेषणत्वमेवस्या - दितिभावः । अतद्व्यावृत्तिन्यूनाधिकेति । तदितिविशेष्यपरम् अतव्यावृत्तेर्च्यूनाधिक देशवृत्तीत्यर्थः । आवश्यकेति । आवश्यकार्थेन धातूत्तर विहितेन विनिप्रत्ययेन विनाशीतिपदनिष्पत्तिः नतु नाशप्रातिपदिकोत्तरमत्वर्थीयेन अवश्यभाविनाशसबन्धीति तदर्थं इति नाविद्यमानधर्मसंबन्धस्य मत्वर्थताङ्गीकार आवश्यकः विनाशवानयं घट इत्यादिस्तु प्रामाणिकप्रयोगो नास्त्येवेति भावः ।
इति तृतीयाऽलोकः 1
तत्साधारणेत्यादि । अनभिप्रेतसाधारणं यत्क्रियाजन्यफलशालिलं तेनैव कर्मतोपपत्ती ग्रामादेरिष्टस्येत्यन्वयः ।