________________
गूढार्थतत्वालोकव्याख्यासहितः ।
१७१
तुर्थी । त्यागात्मकता दशक्रियायां निरुक्ता निराकर्तृसंप्रदानत्वे सत्यपि तदविवक्षणात् । प्रीतिभागितयोदेश्यत्वरूपसंप्रदानत्वविवक्षायां च रुद्राय यजतइत्यपि प्रयोगः । उभयविवक्षायां परत्वेन कर्मसंज्ञया बाधाद्वितीयैव । जुहोत्युत्सृजतीत्यादेः प्रीतिरूपफलावच्छिन्नत्यागाबोधकतया त्यागरूपक्रियाजन्यप्रीतिभागिनो देवतादेस्तत्कर्मताविरहानैव प्रजापतिं जुहोति भूतान्युत्सृजतीत्यादयः प्रयोगाः ।
रजकस्य वस्त्रं ददातीत्यत्र ददातिर्न त्यागार्थकोऽपितु परायन्त्तीकरणार्थको गौणः । तदायत्तीकरणं च प्रकृते तत्कर्तृकनिर्णेजनेच्छाप्रकाशको व्यापारः । तदेकदेशे कर्तृत्वे रजकस्य संबन्धविवक्षायां शैषिकी षष्ठी । हन्तुः पृष्ठं ददातीत्यत्र तत्कर्तृकताडनानुमितिप्रकाशकव्यापार एव ददात्यर्थः । तदेकदेशे कर्तृत्वे हन्तुः संबन्धविवक्षायां षष्ठी । एवं संवाहकस्य चरणं ददातीत्यादावूहनीयम् । नारदाय रोचते कलह इत्यादी रुच्यर्थानामित्यनुशासनेन प्रीतिजनकतारूपरुच्यर्थघटकप्रीतिभागिनः संप्रदानसंज्ञा विहिता, तत्र चतुर्थ्यर्थ आश्रितत्वं प्रीतान्वेति । तादृशक्रियाश्रयतया कलहादेः कर्तृता । पुष्पेभ्यः स्पृहयतीत्यत्र स्पृहाविषयपुष्पस्य स्पृहेरीप्सित इत्यनेन संप्रदानत्वाश्चतुर्थी तदर्थो विषयित्वं तस्येच्छारूपक्रियायामन्वयः । पुत्राय क्रुध्यतीत्यत्र क्रुधदुहेत्यादिसूत्रेण कर्मणः संप्रदानसंज्ञा । तत्रापि चतुर्थ्यर्थो विषयित्वं कोपेऽन्वेति । क्रोधस्य द्वेषविशेषात्मकतया भक्तिश्रद्धादिवत् ज्ञानविशेषरूपत्वेन वा सविषयकत्वात् । एवं शत्रवे दुांतीत्यादावपि तेनैव संप्रदानत्वं द्रोहोऽपचिकीर्षा अहितेच्छेति यावत् । अहितभागितयेच्छाविषयता तन्निरूपकत्वं चतुर्थ्यर्थ इच्छान्वयी, अहितान्वय्याधेयत्वं वा. अतः कर्मणेत्यादिसूत्रस्याविषयः ईर्ष्या अक्षान्तिः परोत्कर्षासहिष्णुता परोत्कर्षगोवरो द्वेष इति तद्विषयस्य परस्य तेनैव संप्रदानता | असूया गुणिनिदोषाविष्करणम् तद्विषयस्याप्यनेन संप्रदानता विषयताविशेषस्तत्र चतुर्थ्यर्थः ।
विप्राय शतं धारयतीत्यादौ धारेरुत्तमर्ण इत्यनेन धनिकविप्रादेः संप्रदानता । अथ कोऽयं धा र्यर्थः न तावद्द्रव्यान्तरदानमङ्गीकृत्य परदत्तद्रव्यादानम् । तथा सत्यादानात्परतो धारयतीति प्र योगानुपपत्तेः आदानस्थावर्त्तमानत्वात् । नचेष्टापत्तिराविशोधनं तथा प्रयोगात् । नापि ताटशादानध्वंसः अधमर्णस्य तदकर्तृत्वात् । नचादानमिच्छाविशेषस्तद्वतः पुंसस्तदाश्रयतया तत्क र्तृत्ववत्तङ्कंसाश्रयतया तत्कर्तृत्वमप्यक्षतमिति वाच्यम् । एवमप्यादानध्वंसस्य परिशोधनो सरमपि सत्वेन तदानीमपि धारयतीति प्रयोगापत्तेः । नच परिशोधनप्रागभावविशिष्टो निरुक्तादानध्वंसस्तथा । ऋणीकृतद्रव्यान्तरपरिशोधनप्रागभावदशायां परिशुद्धमृणमादाय धारयतीत्यापत्तेः । नच स्वप्रतियोगिनिर्वाहकाङ्गीकारविषयद्रव्यदानप्रागभाव विशिष्टादानध्वंसस्तथा यeणं परिशोधितं तावद्रव्यं च पुनर्गृहीत्वा गुनः परिशोधनीयं तदादाय धारयतीत्यापत्तेः । तदीपरिशोधनस्यापि स्वकर्त्तव्यतया पूर्वाभ्युपगमविषयत्वात् तत्प्रागभावस्य पूर्वपरिगृहीतशोधनोत्तरमपि सत्वात् । नच स्वप्रतियोग्यादाननिर्वाहकाभ्युपगमविषयीभूतं यद् द्रव्यदानं एकक्षणावच्छि नैकाधिकरणवृत्तित्व संबन्धेन तद्विशिष्टान्यप्रागभावविशिष्टादानध्वंसस्तथा । उक्तस्थले चोदीच्यप-रिशोधनप्रागभावः प्रथमादानप्रयोजकाभ्युपगमविषय परिशोधनविशिष्टः प्रथमपरिशोधनप्रागभावश्च प्रथमपरिशोधनोत्तरं नास्त्येवेति नोक्तातिप्रसङ्ग इति वाच्यम् । एवमपि यस्य ऋणस्य परिशोधनमप्रसिद्धं तदादानपूर्वकालीनस्य तावद् द्रव्यं मया तुभ्यं देयमित्यभ्युपगमस्य तदुत्तमर्णोद्देश्यक
शक्यतावच्छेदक उपलक्षणत्वमेव तथाच शक्यतावच्छेदककोटावप्रवेशेन धात्वर्थेनोपसंग्रहाभावाददोषादिति । प्रीतिभागितयोद्देश्यत्वेति । नच प्रीतेर्धात्वर्थतावच्छेदकफलत्वेन तदाश्रयत्वरूप संवन्धभिन्नस्यैव क्रियाजन्यफलभागित्वस्य गौणसंप्रदानखशरीरे प्रवेशस्य प्रागुक्तत्वेनैतदसङ्गतमिति वाच्यं स्वस्वत्वध्वंसानुकूलव्यापाररूपत्यागत्वेन यजितस्तत्प्रतिपत्तेजन्यधालर्थतानवच्छेदकप्रीतिरूपफलभागितयोद्देश्यत्वस्य च विवक्षितत्वाभिप्रायेण तथोक्ते रतएवानुपदत्यागात्मकतादृशक्रियायामित्याद्युक्तम् विषयित्वमिति । मुख्यविशेष्यित्वमर्थस्तेन पुष्पेभ्यो वने स्पृहयतीत्यत्र न वनस्य संप्रदानता घने