________________
१४०
व्युत्पत्तिवादः । पपत्तिः । तथा विषक्षायां तण्डुलस्य पाकीपतीति प्रयोग इष्यतएव कारकविभक्त्यर्थस्थ घृत्येकदेशे नाप्यन्वयस्य व्युत्पन्नत्वात् । सम्बन्धविवक्षायांचन तथा प्रयोगः । वस्तुतः संबन्धविवक्षयापि तथा प्रयोग इष्यतपय । नच तत्र वृत्त्येकदेशेन षष्ठ्यन्वये प्रतियोगिपदादन्यद्यदन्यत्कारकादपीतिव्युत्पत्तिविरोधइति वाच्यम् , ताहशव्युत्पत्तेरभेदान्वयस्थलएव स्वीकारात् । वृत्त्येकदेशेन भेदान्वये बाधकाभावात् अतएव ऋदस्य राजमातला इत्यादिप्रयोगो नेष्यते ध्यते च पितुः खर्गकाम इत्यादिप्रयोगः । नच कारकपदप्रतियोगिपदयोर्भवनिवेशनमफलमिति वाच्यम् तनिवेशस्य दृष्टान्तविधयोक्तत्वात् यथा प्रतियोगिपदाद्यर्थस्य कुत्रापि अभेदान्ययो न भवति तथा वृत्त्येकदेशेनान्यपदार्थस्येत्यर्थे तात्पर्यादिति ध्येयम् । अभेदविवक्षायां पण्डितं पुत्रीयति प्रवीरं पुत्रकाम्यतीत्यादिप्रयोगाभाववत् परपुत्रादिगोचरेच्छावति पुंसि पुत्रीयतीत्यादयो न प्रयोगाः । सुप आत्मनः क्यजि. स्यादिना इच्छाकर्तृसम्बन्धि यदिञ्छाकर्म तद्बोधकसुबन्तात् क्यच्काम्यचोर्विधानात् । संबन्धित्वं च सम्बन्धित्वेन भातत्वमन्यथा यस्येच्छाकर्तुः पुत्रोऽसिद्धस्तस्यापि स्वीयत्वेन पृच्छादशायां पुत्रीयतीत्यादिप्रयोगस्य सर्वसिद्धस्यानुपपत्तेः । उक्तस्थलेषुत्रीयतीत्यादिवाक्यस्य प्रामाण्यपारणाय च क्याद्यर्थेच्छायां पुश्रादेर्विषयित्वमा न सम्बन्धः किन्तु स्वांशे भासमानसंब. न्धस्य प्रतियोगितच्या यो विषयस्तादशपुरुषवृत्तित्वलहितमित्युपेयम् । स्वसंवन्धस्य क्यजाधवाच्यरऽप्युक्तसंबन्धेनैवेच्छायां सुबतार्थस्यान्षयइति व्युत्पत्तिप्रदर्शनायैव सूत्रमात्मनाइत्युपासम् । आत्मनइति षष्ठ्यर्थसंबन्धश्च न धातोः कर्मण इत्यादिसूत्रानुवृत्तायामिच्छायामन्वेति, भव्यावर्तकत्वादुक्तार्थलाभाप्रयोजनकत्वात्, अपितु सुप इत्यर्थे सुबन्तादित्यत्र, सचेच्छाकर्तुः संवन्धितयेच्छाविषयार्थकत्वमेवंचेच्छाकर्मणः सुबन्तादिच्छाकर्तुरिच्छायामिति वृत्तावपीच्छाकर्तुः सुबन्तादित्येष योजना कार्या यथाश्रुते दर्शितानुपपत्तेरिति ध्येयम् । भृत्यं पुत्रीयतीत्यादावाचारार्थविहितकाजन्तस्य सकर्मकत्वं युज्यतएव तथाहि तमियाचरतीत्यर्थे उपमानवाचिनः क्यच विहितः तमिवाचरतीत्यस्य तत्तुल्यं जानातीत्यर्थः आचारपदस्य व्यवहारमूलज्ञानपरत्वात् । तुल्य. तया ज्ञानं च क्यजर्थः तश्च सकर्मकमेव नत्र तुल्यत्वे प्रतियोगितया पुत्रादेरन्वयः पुत्रादिपदमेष या गोण्या पुत्रादितुल्यपरम् ज्ञानमात्रं क्यजर्थस्तत्र च स्वाभेदावगाहित्वसंबन्धेन पुत्रादितुल्यस्यान्वयः । नचैवं पुत्रादिपदमुपमेयार्थकमेव न तूपमानार्थकमिति कथमुपमानादाचारइत्यनेन तदुसरं क्यचो विधानं सङ्गच्छत इति वाच्यम् । पुत्रादिपदस्य तुल्यार्थकत्वेऽपि तुल्यत्वप्रतियोगितयोपमानपुत्राद्यर्थकत्वात् । अतएव तस्य कर्मवाचकत्वं पुत्रादितुल्यस्याचारकर्मत्वात् सम्यगु. पपद्यते । पूर्वमते उपमानपदस्य कर्मवाचकत्वमाचारकर्मविशेषणतुल्यताप्रतियोगियोधकत्वरूपं योध्यम् । वस्तुतः पुषमिवाचरतीत्यस्य पुत्रं यथा व्यवहरति तथा व्यवहरतीत्येवार्थः, व्यवहारश्च प्रतिपाल्यत्वादिना ज्ञानं प्रतिपालनादिरूपोव्यापारो वा एवं पुत्रीयतीत्यस्य पुत्रकर्मकव्यवहारतुल्यव्यवहारकर्तेत्यर्थः । मुखचन्द्रादेर्यथा स्वजन्याहादस्य तुल्यतयोपमानोपमेयभावस्तथा पुत्रभृ. त्ययोरवि स्वकर्मकव्यवहारतुल्यतया स इति पुत्रपदस्योपमानवाचिता । आचारनिष्ठसारश्यप्रतियोग्याचारकर्मवाचिता च आचारसशाचार एव क्यचोऽर्थः । प्रथमाचारे कर्मतासंबन्धेम पुत्रादेरन्धयः । अमाद्यन्तात् क्यन्प्रत्ययविधानेऽपि धात्ववयवतया लुप्तस्यामादेर्नियमेनानुपतथाहि हन्धातोरपि हनश्च वध इति सूत्रेण वधादेशे कृदन्ताद्वधशब्दादाख्यानार्थे णिचि कृल्लोपे वधादेशेऽपगते धातोहनखरूपेणावस्थितौ णिचिपरे हनस्तोऽचिण्णलोरित्यनेन नकारस्य तकारे होहन्तेनिनेवित्यनेन हकारस्य कवर्गे पकारेऽतउपधाया इत्यनेनाकारस्य दीर्घे घातीतिण्यन्तधातोर्यातयतीतिनिष्पन्ने कृदन्तधातुकर्मणि कृद्योगलक्षणा षष्ठी यद्यपि प्राप्ता तथापि प्रकृतिवत्कारकत्वे द्वितीयैव भवतीत्यर्थः । ननु धात्वेकदेशकृदन्तार्थे कर्मवाद्यन्वये सति तण्डुलपाकीयतीतिवत्तण्डुलस्य पाकीयतीत्यपि स्यादित्याशामिष्टापत्त्या परिहरन् विशेष्यविध्यभावे कृद्योगलक्षणाषष्ठयेव भवतीति प्रदर्शयति । तथाविवक्षायामिति। धात्वेकदेशकृदन्तार्थेन समं कर्मलान्वयविवक्षायामित्यर्थः । अन्यपदार्थस्येति। प्रतियोगिताद्यन्यपदार्थस्येत्यर्थः। सचेति।