________________
गूढार्थतत्वालोकव्याख्यासहितः । भावमात्रयोधस्य तत्राभ्युपगमासंभवाश्चेतिकर्मप्रत्ययस्थले इच्छाधात्वर्थविशेषणमेव । इदन्तु तत्त्वम । कर्मप्रत्ययस्थलेऽपि धात्वर्थविशेषितैवेच्छा सन्प्रत्ययेन प्रत्याय्यते तत्कर्मत्वमेव कर्माख्यातार्थः तश्च धात्वर्थकर्मतया तद्विषयत्वम् । ओदनकर्मकभोजनं भवतु, पाकविषयककृतिर्भवत्वित्यादी च्छायां च पाकभोजनादीनां तथेच्छाविषयतया तत्कर्मत्वमक्षतम् । गृहस्थित्यादीच्छायां गृहादेः स्थित्याधारवादिनैव विषयत्वमिति न गृहादेस्तिष्ठासादिकर्मत्वम् । अतएव यदोदनव्यक्तिकर्मकभोजनमप्रसिद्धमथच भोजनकर्मतया तदिष्टं तत्रायमोदनो बुभुस्यतइत्यादेर्दर्शनादिविषयत्वेन गगनादिगोचरेच्छास्थले च गगनं दिक्षतइत्यादेश्च प्रयोगस्य नानुपपत्तिः । नवा ओदनादिरूपकर्ममाप्रोपरागेण यत्र भोजनादीच्छा दैववशेन च तद्भोजनादिकं विषादिकर्मकमपि तत्र विषं वुभुक्ष्यत. इत्यादयः प्रयोगाः । कर्तृप्रत्ययस्थलेऽपि च तादृशविषयतारूपं कर्मत्वमेवेच्छाविशेषणतया भासते न तु धात्वर्थकर्मत्वम् । धात्वर्थविशेषणतया तत्पदार्थकर्मत्वविशिष्टभोजनादिनिरूपितविषयिताया नियमतइच्छायां भानोपगमेनोक्तस्थले विषं बुभुक्षते चैत्रइत्यादिप्रयोगवारणेऽपि गगनंदिक्षतेचैत्रइस्पादिप्रयोगस्य दुरुपपादत्वात् । इदन्तु बोध्यम् । सन्प्रतिपाद्येच्छायां धात्वर्थकृतिभोजनादेः केबलविशेष्यतासंबन्धेन न विशेषणत्वम् तथासति परकर्तृककृतिभोजनादिगोचरेच्छावति अयं चिकीर्षति बुभुक्षतइति प्रयोगप्रसङ्गात्, किन्तु विशेष्यितासमानकर्तृत्वोभयसंबन्धेनैव, उक्तातिप्रसनवारणायेच्छासमानकर्तृकत्वेऽपि सन्प्रत्ययवाच्यतां स्वीकृत्य क्रियायां तदन्वयोपगमो न साधीयान् इच्छान्तरसमानकर्तृकत्वमादाय दर्शितस्थलेऽतिप्रसङ्गतादवस्थ्यात् । स्वसमानकर्तृकत्वस्य वाच्यत्वे तत्तदिच्छारूपपदार्थानामननुगमेन व्युत्पत्त्यनुपपत्तिः नच समानकर्तृकत्वस्य संबन्धत्वोपगमे तत्र शक्तिमाहकानुशासनविरोधः यतो धातोः कर्मणः समानकर्तृकादिच्छायां वेति सन्प्रत्ययविधायकसूत्र सन:समानकतेकत्वाथेकतानप्रीतपादयोततस्य हीच्छाकमेत्वेन तत्समानकर्तृत्वेन च स्वार्थपराधातोरिच्छारूपार्थ सन् भवतीत्येवार्थः इच्छाधात्वर्थयोः संसर्गतया समानकर्तृकत्वविषक्षायामपिसमानकर्तृकत्वोपरक्तार्थपरत्वं धातोर्निर्वहतीतीच्छामात्रे शक्तिग्राहक तत्सूत्रमिति सुबन्तोत्तरेच्छार्थविहितक्यचकाम्यजन्तस्य धातोरिच्छार्थकतया सन्प्रत्ययान्ताविशेषेऽपि सन्नन्तधातुवन्नसकर्मकता । तदन्तर्गतप्रातिपदिकस्यैव कर्मबोधकतयेच्छाया: कर्माकाजाविरहात् नच पुत्रीयति पुत्रकाम्यतीत्यादौ क्यजादिप्रकृत्यर्थपुत्रादेः क्रियात्वाभानाकर्मकत्वेऽपि आत्मनः पाकमिच्छति पाकीयतीत्यादौ प्रकृत्यर्थपाकादेः सकर्मकतया सन्नन्तसमुदायवत् क्यजन्तयाकादिसमुदायस्य सकर्मकताया दुर्वारतया तण्डलंपाकीयतीत्यादिप्रयोगापसिरिति वाच्यम् । कृधातुसमानार्थकयतेरिव सन्नन्तसमानार्थकस्य क्यजन्तादेरपि कर्मताबोधकसुपूसाकाक्षत्वानुपगमेन तथा प्रयोगाप्रसङ्गात्, कृदन्तकर्मत्वविवक्षायां तु षष्ठ्या बाधाद् द्वितीयाया अप्रसक्तेश्च । नच धात्ववयवकृधोगे कर्तृकर्मणोः कृतीत्यस्य द्वितीयाबाधकत्वे कंसकर्मकवधमाचष्टे कंसं घातयतीत्यत्र द्वितीया न स्यात् कंसस्याख्यानकर्मस्वायोगेन वधकर्मतयैव तदुत्तरं द्वितीयासमर्थनादिति वाच्यम् कृदन्तोत्तरं यत्राख्यानार्थे णिच् तत्र प्रकतिवञ्च कारकमित्यनेन कृदन्तकारकस्य ण्यन्ततत्प्रकृतिप्रतिपाद्यक्रियाकारकतुल्यत्वातिदेशात् राजानं गमयति सूर्यमुद्रमयतीत्यादौ ण्यन्तधातुयोगे यथा प्रकृत्यर्थक्रियाकर्तुः कर्मत्वं तथा कृदन्तोत्तरणिचप्रयोगेऽपीत्याख्येयगत्युनत्यादिकर्तुः कर्मतया तदुत्तरं द्वितीयेतिण्यन्तधातुयोगे यथा प्रकृतेः कमणो द्वितीयान्तता तथा णिच्प्रत्ययान्तकृदन्तकर्मणोऽपीति लाभात् कृदन्तकर्मणः कंसादेर्द्धितीयोभयसंबन्धेन तनिष्ठविशेष्यताविशिष्ट प्रकारताश्रयत्वं बोध्यम् । कृदन्तीत्तरं यत्राख्यानार्थेणिचू तत्रेति । आख्यानास्कृतस्तदाचटेकृलुक्प्रकृतिप्रत्ययापत्तिः प्रकृतिवन कारक मित्यनुशासनैराख्येयार्थात्कृदन्तादाख्यानार्थे णिच् शिचि कृतोलोपः लुकि तस्य तन्निमित्तकादेशादेरपगमे कृत्प्रकृतिभूतस्य धातोः प्रत्ययस्य ज्ञानस्यापत्तिरर्थाद्धातुस्वरूपस्य पूर्ववदवस्थानम् धातोरेव णिचि कृते यथाकार्य तथैव सर्वकार्य भवति कृदन्तस्य यत्कारक तत्केवलधातोः कारकवत्भवत्यर्थात्केवलधातोयद्यत्कारके या या विभक्तिः कृदन्तकारकेपि तत्र सैव विभक्तिरित्यर्थकैः कंसस्य वधमाचष्टे कंसं घातयतीति निष्पद्यते