________________
गूढार्थतत्वालोकव्याख्यासहितः। सितेः कर्मत्वस्य सम्बन्धतया भानमुपेयते । यथा राजपुरुष इत्यादिसमासरूपप्रातिपदिकावयवतया लुप्तषष्ठयादिप्रतिसंधानानियमाद्विभक्त्यन्तार्थविशिष्टे पूर्वपदलक्षणोपेयते । द्वितीये आचारे भृत्यस्य कर्मतया क्यजन्तस्य सकर्मकत्वमिति कुट्यां प्रासादीयतीत्यादावाधाररूपोपमानवाचि सप्तम्यन्तोत्तरविहितक्यजन्तस्य न सकर्मकता तत्र च प्रासादाधिकरणकाचारतुल्याचारः क्यजन्तार्थः स चावल्यानरूप एवेत्यकर्मक इति कुट्यास्तत्राधिकरणतया ततः सप्तम्येव । अवस्थानयोः साम्यं चैकजातीयसुखजनकत्वादिना अबिशेषज्ञानविषयत्वेन वा । हंस इवाचरति हंसायते हंसतीत्यादावुपमानवाचिकर्तृवाचकपदोसरविहितक्यडन्तक्कियन्तधातुरप्यकर्मकस्तत्र हंसादिकर्तृकाचारतुल्याचारस्य गमनादिरूपस्य क्यङन्ताद्यर्थत्वेऽपि गम्यादिप्रतिपाद्यतावच्छेदकसंयोगादिरूपफलानपच्छिन्नस्यैव तदर्थत्वोपगमात् । शब्दझानादिरूपसविषयकव्यापारात्मकस्याचारस्य कचिसदर्थत्वेऽपि विषयकपकर्मावरुद्धस्यैव तस्य तदर्थत्वोपगमात् । कर्मावरुद्धस्य च कर्मान्धयनिराकाङ्गत्वादित्यादिकं स्वयमूह्यम् । कृत्यर्थकधातुयोगइष्टसाधनत्वादिहानविशेष्यताप्रयोज्यसाध्यताख्यविषयताविशेष पव कर्मत्वं द्वितीयादेरर्थः, नतु विषयतामात्रम् यत्र घटं करोतीति प्रयुज्यते तत्र कपालं करोति, जलाहरणं करोतीत्याद्यप्रयोगात् । अथ काशान् कटं करोति, काष्ठं भस्म करोतीत्यत्र काशकाष्ठादिपदोत्तरद्वितीयानुपपत्तिः तत्र कृतिनिरूपितोक्तविषयताविरहादिति चेदुपादानीयविलक्षणविषयतापि द्वितीयार्थः । सा च द्वितीयान्तरोपस्थाप्यसाध्यीयविषयताविशिष्टायामेव कृतावन्वेति अतः कटादिरूपकर्मान्तरासमभिव्याहारेण काशान् करोतीत्यादयो न प्रयोगाः। अथैवमपि काष्ठं भस्म करोति, दुग्धं दधि करोतीत्यादौ काष्ठदुग्धादेः कर्मत्वानुपपत्तिः । तस्य भलदध्याद्युपादानताविरहात् । काष्ठदुग्धादिनाशानन्तरमेव तदारम्भकपरमाणुभिर्भस्मदध्याधारम्भादुत्पत्त्याश्रयस्यैवोपादानत्वात् विभित्रकालीनयोश्चाधाराधेयभावविरहात्, कारणस्यैवोपादानत्वमिति नियमाघ । नच परिणामवादविद्वेषिणां नैयायिकानां काष्ठादेर्भस्मादिरूपद्रव्यान्तरकारणत्वमपितु प्रतिबन्धकत्वमेव द्रव्यवति द्रव्यान्तरानुत्पत्तेरिति चेन, कर्म हि त्रिविधं भवति । प्राप्यं प्रकृतिविकृती च । तत्र प्राप्यं कर्म क्रियाजन्यफलशालि गम्यादेामादि, ज्ञानादेविषयश्च क्रियानिष्पाद्यं यत्तविकृतिरूपम् । यथा पाकादेरोदनादि यथा वा कृतेर्माल्यादि, कटादि च । प्रथमे तण्डुलादिरूपपूर्वद्रव्यं विनाश्यौदनादेर्निर्वर्तनम् । द्वितीये पुष्पादिरूपपूर्वद्रव्यमविनाश्यैव संदर्भादिरूपविशेषणनिष्पादनेन विशिष्टस्य माल्यादेर्निर्वर्तनम् । तृतीये च काशादिरूपपूर्वधर्मिणमविनाश्य तत्रैव कटादिरूपधर्मिनिष्पादनं क्रियाया ईदृशं च कर्म प्रकृतेरसमभिव्याहारस्थले निर्वय॑मुच्यते । तण्डुलानोदनं पचति, कुसुमानि नजं करोति, काशान् कटं करोतीत्यादौ प्रकृतिसममिव्याहारस्थले निर्वय॑ते निष्पाद्यते यदिति व्युत्पत्त्या, यद्यप्योदनादेरपि निर्वर्त्यतास्ति तथापि तयावृत्तमेव पारिभाषिकं निर्वय॑त्वम् । तदुक्तमभियुक्तैः "सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षत इति” । यस्य विकृतिकर्मणो नाश्रीयते न प्रयुज्यतइत्यर्थः । पवंच तत्रतत्रौदनादेर्विकार्यकर्मण्येवान्तर्भावः। तदुक्तम् "क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनमानाद्वा तत्प्राप्यमिति कथ्यते ॥ यदसज्जायते पूर्व जन्मना
सुबन्तनिष्ठः षष्ठ्यर्थः संबन्धश्चेत्यर्थः । क्रियाकृतविशेषाणामिति । ननु प्राप्य कर्मणो ग्रामादेरपि गमनादिक्रियाकृतस्य संयोगादिरूपविशेषस्य निष्पत्तिः प्रत्यक्षादितोगभ्यत एवेति तत्राव्याप्तिरिति चेन्न क्रियाकृतो हि विशेषः प्रकृतेः विकृत्यनुकूलप्रागवस्थाविशिष्टासत्त्वलक्षणो विकृतेश्वोत्पत्तिर्नच तो प्रामादेः प्रत्यक्षादितो झायेते निष्पनाविति नान्याप्तिः। यदसजायतइति। यत्पूर्वकर्तृव्यापारात्प्रकृतक्रियालक्षणात् प्राक्तरूपेणासदोदनकटादिकं प्रकृतक्रियातो जायते तदेकं निर्वय॑म् यच्च स्वरूपेण विद्यमानमेवप्रकृतक्रियया कस्यचिजन्मना तद्विशिष्टतथा प्रकाशते यथामालादिकन्तदपरं निवर्त्यमित्यर्थः । अत्र प्रकृतिसंबन्धाप्रतिपादनात्प्रकृतिगताकिंचित्प्रयुक्तोत्पत्त्यादिमत्त्वेनाविवक्षितबलाभातू प्रतिबोधकपदाप्रयोगस्य लाभाच्च विकार्यव्यावृत्तिः