________________
गूढार्थतत्वालोकव्याख्यासहितः । देश संयोगएव प्रामादिवृत्तित्वान्धयः। चैत्रीयकृतिजन्यव्यापारजन्यप्रामवृत्तिसंयोगानुकूलक्रियाश्रयवानजादिरित्याकारको बोधः ज्ञानानुकूलशब्दश्च द्रव्यं निरूपयतीस्यादौ धातोरर्थः । तादृशविशिष्टैकार्थस्य एकदेशे ज्ञाने आधेयत्वान्वयबोधे च न द्वितीयायाः साकाङ्गता स्वीक्रियते, अपि तु विषयतया अन्वयबोधएवेति शिष्यं द्रव्यं निरूपयतीत्यादिर्न प्रयोगः । यत्तु धात्वर्थो शानमेव तदनुकूलव्यापारश्च णिजर्थ इति तदसत्। धातोश्चराद्यन्तर्गततया स्वार्थएव णिचोविधानात्। अन्यथा निरूपयतीत्यस्य शापयतीत्यादिसमशीलतया शिष्यं ज्ञापयतीत्यादिवच्छिष्यं निरूपयतीति प्रयोगस्य दुरत्वात् । अजां प्रामं यापयति शिष्यं शारखं झापयति ब्राह्मणमन्नं भोजयति यजमानमा पाठयति घट जनयति नाशयतीत्यादौ णिच्प्रत्ययप्रकृतिभूतधास्वर्थकर्तृवाचकाजादिपदोत्सरद्विती यायाः मुख्यभाकसाधारणं कर्तृत्वमेवार्थः । गतिबुद्धीत्यादिसूत्रेण कर्तुः कर्मसंज्ञाविधानात् । गतिज्ञानोत्पत्त्यादिनिरूपितं कर्तुत्वं चाश्रयत्वमेव गलाधासंयोगानुकूलक्रियानुकूलव्यापाररूपभोजनकण्ठताल्वाद्यभिघातरूपपाठनिरुपितं च तदनुकूलकृतिमत्थं नाशनिरूपितं च प्रतियोगित्वम् तस्य च निरूपकतासंबन्धेन धात्वर्थेऽन्वयः ! नव्यमते च यत्राश्रयत्वं कर्तृत्वं तत्राधेयत्वं द्वितीयार्थः । यत्रानुकूलकृतिमरवं तत्र कृतिजन्यत्वं यत्र प्रतियोगित्वं तत्रानुयोगित्वं तेषां चाश्रयतासंबन्धेनैव धात्वर्थेम्बयः गत्यर्थादिभ्योऽन्यत्र च णिच्प्रत्ययप्रकृतिधात्वर्थकर्तृवाचकपदाद न द्वितीया, ताशकः कर्मतातिदेशाविषयत्वात् । तेन पाचयत्योदनं सहायेनेस्यादय एच प्रयोगा, न तु पाचयत्योदनं सहायमित्यादयः । केचित्तु पाकादिक ः पाकादिकर्मस्वविरहेऽपि ण्यन्तसमुदायस्यापि धातुत्वेन तत्कर्मतया सहायादे पाचयत्योदनं सहायमित्यादयः प्रयोगा अपि साधवः । अतएवाजिमहत्तं जनको धनुस्तदित्यादयो भट्टिप्रयोगाः। गतिबुद्धीत्यादिसूत्रं च नियम. परतया गत्यर्थधातुयोगे कर्तृप्रत्ययासाधुत्वक्षापकम् । तेन पाचयत्योदनं सहायेनेस्यादियद् अजया प्रामं यापयतीत्यादयो न प्रयोगा इस्याहुः । एषामयमाशयः । हेतुमति चेत्यनुशासनात् णिजों हेतुकर्तृत्वम् तच स्वतन्त्रकर्तृप्रेरणा अन्यनिष्ठकर्तृत्वनिर्वाहकव्यापाररूपा, कर्तृत्वं कचित्प्रयतः कचिदाश्रयत्वादिकं, यारशधातूत्तराख्यातेन यादृशकर्तृवं बोध्यते तदुत्तरणिच्प्रत्ययेन ताश. कर्तवनिर्वाहकव्यापारो बोध्यते । अतएव पाचयतीत्यादौ पाकादिकृतिनिर्वाहका, ज्ञापयतीत्यादौ ज्ञानाश्रयत्वनिर्वाहकः, नाशयतीत्यादी नाशप्रतियोगित्वनिर्वाहको व्यापार प्रतीयते । निर्वाहकत्वं च स्वरूपसंबन्धविशेषः । नतु जनकत्वम् । अतो न नाशयतीस्यादावनुपपत्तिः। एवं व ज्यन्तधातप्रतिपाद्यतावच्छेदकं फलं कर्तृत्वमेव निर्वाह्यस्यैव फलत्वात् । तदाश्रयतया स्वतन्त्रस्य कर्तुः कर्मता, तारशफलविशेषणतया स्वतन्त्रकर्तृवृत्तित्वविवक्षायां पाचयत्योदनं सहायमित्यादयः प्रयोगा: यदा तु पाकादिविशेषणतया सहायादिकर्तृत्वं विवक्षितं तदा पाचयत्योदनं सहायेनेत्यादयः । अथ यत्र चैत्रमैचोभयकतर्कएक एव पाकस्तत्र चैत्रमात्रं प्रयोजयति यज्ञदत्तो मैत्रेणानं पाचयतीति प्रयोगापत्तिरिति, तत्रापि ण्यर्थकतावेव तृतीयान्तार्धमैत्रादिवृत्तित्वस्यान्षयोवाच्यः। एवं च मैत्रं पाचयतीत्यादिवाक्यजन्यबोधावैलक्षण्याद् द्वितीयातृतीययोस्तात्पर्यभेदेन व्यवस्थाया न संगतिरिति चेन्न । अगत्या तत्र पाकादिविशेषणकृतेः पारतम्येण व्यापारविशेषणीभूतणिजथेकृतावभेदान्वयमुपगम्योक्तातिप्रसङ्गस्य चारणीयत्वात् । पदार्थकदेशे कृतौ पाकादेरिव कृतेरप्यन्वयो व्युत्पत्तिवैचित्र्यात् । वस्तुतः कर्तृत्वं व्यापारश्च पृथगेव णिजर्थः विशिष्टलाभोऽन्व यबलात् । केचित्तु, अनुकूलव्यापार एव णिअर्थः, तदन्वयिनी गमनभोजनक्रियैव धात्वर्थताबच्छेदकं फलं, तत्संबन्धिनस्तारशक्रियाकर्तुयॆन्तकर्मता । तादृशक्रियासंबन्धश्चाश्रयत्वकृतिमस्वान्यतरो ग्राह्यः । अतो गमनादिसंबन्धिकालादो नातिप्रसङ्ग इत्याहुः । अत्र च ताशकर्मतावाचकपदात् कदाचिद्वितीया कदाचित्तृतीया इत्यत्र नियामकाभावः । ताशपदोत्तरयोस्तयो