________________
१२८
व्युत्पत्तिवादः । स्तुल्यार्थकतया विषक्षाभेदरूपनियामकाभावादिति तु चिन्तनीयम् । अजा प्रामं याप्यते चैत्र णेत्यादौ चैत्रकर्तृकव्यापारनिर्वाह्यं यद्मामवृत्तिसंयोगानुकूलक्रियाकर्तृत्वं तदाश्रयोऽजा इति ब्रोधः । तत्र संयोगावच्छिन्नक्रिया धातुलभ्या, संयोगे ग्राममित्यादिद्वितीयान्तार्थप्रामादिवृत्ति त्वान्वयबलात् प्रामादिवृत्तिसंयोगावच्छिन्नक्रिया लभ्यते तादृश्या णिजर्थकर्तृत्वेऽन्वयः। कर्माख्यातादिसमभिव्याहारनियन्त्रितव्युत्पत्तिबलाच तादृशक्रियान्वितकर्तृत्वं तृतीयान्तार्थचैत्रादिकर्तृत्वविशेषितव्यापाररूपापरणिजथै निर्वाहारवसंबन्धेन विशेषितम् अजादिरूपकर्मीभूतकर्तृविशेषणीभवदाख्याताश्रयत्वे विशेषणतया भासते। ये तु गतिबुद्धीत्यादिसूत्रस्य संशाविधायकत्वं वर्णयन्ति तेषामयमाशयः । व्यापार एव णिजर्थः तत्र धात्वर्थक्रियायाः स्वकर्तृत्वनिर्वाहकवं संसर्गः । अतो न कर्तुः कर्मत्वं सूत्रान्तरप्राप्तम् । याप्यते प्राममजा इत्यादौ स्वनिर्वाह्यकर्तृतानिरूपकत्वसंबन्धेन व्यापारविशेषितधात्वर्थः कर्तृत्वेऽन्वेति तचाश्रयत्वसंबन्धेन अजादौ विशेषणतया भासते । तादृशव्यापारे तृतीयान्तार्थस्य चैत्रादिकर्तृत्वस्य धात्वर्थकदेशे संयोगादिफले च द्वितीयान्तार्थस्य ग्रामवृत्तित्वस्य विशेषणतया भानं ण्यन्तोत्तराख्यातस्यापि कर्तृत्वमेवार्थः । तत्रच तस्य वृत्तिः कृप्तव । तच उक्तस्य धात्वर्थस्य विशेष्यतया प्रथ मान्तपदार्थस्य च विशेषणतया भासते । न च यक्समभिव्याहृताख्यातोपस्थाप्यकर्तृत्वस्यान्वयबोधोपगमे गम्यते चैत्र इत्यतोऽपि गमनकर्ता चैत्र इत्यन्वयबोधः स्यादिति वाच्यम् । ण्यन्तो. सरयक्समभिव्याहृताख्यातस्यैव कर्तृत्वान्वयबोधनियामकत्वात् । अथैवमजा याप्यते इत्यादौ कर्तत्वस्याख्यातबोध्यत्वे कर्तरिशबित्यपवादविषयतया यकोऽसाधुतापत्तिः। न च यारशधातूत्तरं यरसार्वधातुकं विहितं तादृशधात्वर्थनिरूपितकर्तृत्वस्य तेन विवक्षायामेव कर्तरि शबित्यादेः शबा. दिविधायकत्वात, प्रकृते प्यन्तसमुदायस्य उत्तरमेघाख्यातं तेन तदर्थनिरूपितकर्तृत्वं च न बोध्यते अपि तु ग्यर्थविशेषितधात्वर्थीन्धितकर्तृत्वमेवेति नताशापवादविषयतेति वाच्यम्। कर्माख्यातस्थले विशेष्य विशेषणभाववैपरीत्येन व्यापारविशेषितक्रियाया अपि ण्यन्तधात्वर्थत्वात् । मैवम् । लकार. सामान्यवृत्त्या यत्र कर्तृत्वं प्रतीयते तत्रैव करिशबित्यस्य शबूविधायकता, अत्र कर्मत्वसमशीले कर्तृत्वे आत्मनेपदत्वेन शक्तिः । वस्तुतः फलव्यापारयोः पृथक् धास्वर्थतामते गच्छतीत्यादाधिव गम्यते इत्यादावपि लकारेणाश्रयत्वरूपकर्तृत्वाभिधाने यगनुपपन्न इति, परस्मैपदसमभिव्याहृतधातुना यादृशविशिष्टोऽर्थः प्रत्याय्यते, ताहशविशिष्टार्थान्वितकर्तृत्वाभिधानमेव शविषयः। एवं च प्रकृतेऽपि नानुपपत्तिरिति ध्येयम् । ग्रामो याप्यते, अर्थों बोध्यते, इत्यादौ भावनाविशेष्यतया प्रा. मादेर्भानेऽपि गमनादिक ः कर्मत्वविवक्षायां तस्यैवाख्यातार्थविशेष्यतया बोधोऽव्युत्पन्नः । ग्यन्ते कर्तुश्च कर्मण इत्यनुशासनादतोऽजां प्रामो याप्यते शिष्यमों बोध्यते इत्यादयो न प्रयोगाः । ग्रामो याप्यते, अर्थो बोध्यते, इत्यादौ फलविषयत्वादिरूपं मुख्यभातसाधारणं कर्मत्वमेवाख्यातार्थः । फलव्यापारयोः पृथधात्वर्थतामते श्राश्रयत्वमेवाख्यातार्थः । धात्वर्थव्यापारविशेष्यतया ताशानयत्वविशेषणतया च धात्वर्थफलस्य भानेऽपि, ण्यर्थव्यापारस्य जन्यतासंबन्धेनैव धात्वर्थक्रिया. शानादिविशेषणत्वं पूर्ववदेव । अजां ग्रामो याप्यते इत्यादिकस्तु न प्रयोगः द्वितीयया कर्मत्वबोधने धात्वर्थव्यापारविशेष्यतया पयर्थबोधसामन्याः प्रयोजकत्वात् । यगादिसमभिव्याहृतस्थले च धात्वर्थविशेषणतयैव ण्यर्थस्य बोधात्, ण्यन्तधातोः सकर्मकत्ये तदुत्तरभावाख्यातस्य भावे चाकर्भ. केभ्य इस्पनुशासनेनासाधुत्वाचन ताशप्रयोगः । ग्रामं याप्यते इति भावाख्याते प्रयोगस्त्विष्ट एव ण्यन्तकर्मासमभिव्याहारात्। एकदा कर्तृत्वकर्मत्वबोधकताया आख्यातस्याव्युत्पन्नतया अजा
नेतृपुरुषस्कन्धाद्यवस्थितवस्तुनिवर्ततइति बोध्यम् । ण्यन्तधातोः सकर्मकत्वइति । तत्कर्मणो विवक्षितत्वइत्यर्थः । ण्यन्तकर्मासमभिव्याहारादिति । तत्कर्मा विवक्षानिबन्धनस्य तस्याकर्मकलस्य सस्वादित्यर्थः अविवक्षातः कर्मणोऽक