________________
१२६
व्युत्पत्तिवादः ।
इत्यादावप्युक्तक्रमेण चैत्रवृत्तीच्छाविषयगोकर्मकदानाश्रय इत्यन्वयबोधो बोध्यः । यद्यपि निरुक्तयाम्बाभिक्षैवेति दुहियाविरुधिप्रच्छिभिक्षिचित्रामित्यत्रार्थपर भिस्युपादानेनैव चरितार्थतया या चेरुपादानमनर्थकं तथापि याचमानः शिवं सुरानित्यादौ याचतेर्न निरुक्तभिक्षार्थकतेति तदुपादानम् । तत्र हि व्यापारजन्यत्वप्रकारकेच्छा धात्वर्थः । इच्छाय प्रधानकर्म कल्याणान्वितद्वितीयार्थविषयिताया अन्वयः व्यापारे च सुरान्वितवृत्तित्वस्य द्वितीयार्थस्थान्वयः तथा च सुरवृत्तिव्यापारजन्यत्वप्रकारक कल्याछाश्रय इत्यन्चयबोधः । गां व्रजं रुणद्धीत्यादी देशान्तरसंचारविरोधिव्यापारो धात्वर्थः संचारविरोधित्वं संचारानुत्पादप्रयोजकत्वम् । अनुत्पादे प्रधानकर्मगोवृत्तित्वान्धयः । देशविशेषणभेदे व्रजमिति द्वितीयान्तार्थव्रजप्रतियोगित्वान्वयः रुध्यते गां व्रजइत्यादावन्वयबोधः स्वयमूहनीयः ।
गुरुं धर्म पृच्छतीत्यादौ जिशासाबोधकव्यापारो धात्वर्थः । बोधे गुरुवृत्तित्वस्य जिज्ञासायां धर्मविषयकत्वस्यान्वथः । शिष्यं धर्मे ब्रूते इत्यत्र ज्ञानानुकूलशब्दप्रयोगो धात्वर्थः । ज्ञाने धर्मविष यत्वस्य शिष्यवृत्तित्वस्याप्यन्वय इति तन चारुतरम् । तथा सति यत्र जिज्ञासाविषयक चैत्रशानेच्छया प्रश्नस्तादृशशब्दाश्च सामग्रीबलेन मैत्रस्यापि पृच्छक जिज्ञासाज्ञानं तत्र मैत्रं पृच्छतीति प्रयोगस्य, एवं यत्र चैत्रज्ञानेच्छया बूते दैववशाच्च मैत्रस्यापि ज्ञानं तत्र मैत्रं ब्रूते इति प्रयोगस्य चापत्तेः । साक्षाद्धात्वर्थविशेषणज्ञान रूपफलाश्रयतया तत्र गुर्वादीनां प्रधानकर्मतया अप्रधाने दुहादीनामित्यनुशासनविरोधेन पृच्छते गुरुधर्म " स पृष्टस्तेन कस्त्वं भो । शिष्य उच्यतेधर्ममि• त्यादिस्थले च लकारादिना तत्कर्मत्वाभिधानानुपपत्तेश्च । परं तु जिज्ञासाज्ञानोद्देश्यकप्रवृत्यधीनशब्दः पृच्छतेरर्थः । ज्ञाने गुरुवृत्तित्वस्यान्वयः । शब्दे च धर्मविषयकत्वस्यान्वयः । शब्दस्य विषयता व्यापारानुबन्धिनी ज्ञानस्य परम्परया शब्दरूपधात्वर्थविशेषणत्वात् । तदाश्रयीभूतगुरोग णकर्मता । धर्मस्य च धात्वर्थविषयतया प्रधानकर्मता ब्रूञश्च ज्ञानोद्देश्य कप्रवृत्यधीनशब्दार्थः ज्ञाने शिष्यवृत्तित्वस्य शब्दे च धर्मविषयकत्वस्यान्वयः अजां ग्रामं नयतीत्यादौ ग्रामं भारं वहतीत्यादौ च उत्तरदेशसंयोगावच्छिनक्रियानुकूलव्यापाररूपं प्रापणं धातोरर्थः तत्र क्रियारूपे फले अजाभारादिवृत्तित्वान्ययः । संयोगरूपफले च ग्रामादिवृत्तित्वस्यान्वयः । तथा च ग्रामवृत्तिसंयोगजनकाआदिवृत्तिक्रियानुकूलव्यापारानुकूलकृतिमानित्यन्वयबोधः । अजा ग्रामं नीयते, उद्यते भारो ग्रामं चैत्रेण इत्यादाषुत्तरसंयोगावच्छिन्नक्रियारूपं फलं कर्माख्यातार्थस्तत्र च धात्वर्थस्य तादृशव्यापारस्य जन्यतासंबन्धेन तस्य चाश्रयतासंबन्धेन अजाभारादिरूपप्रधानकर्मण्यन्वयः ग्रामादिवृत्तित्वात्वथस्तु संयोग एव एवं च चैत्रकृतिजन्यो यः संयोगावच्छिन्नक्रियानुकूलव्यापारस्तजन्यग्रामवृत्तिसंयोगानुकूल कर्मवानजादिरित्यन्वयबोधः । नच कारकविभक्तयर्थस्य धात्वर्थएवान्वयनियमात्मत्ययोपस्थाप्य संयोगे कथं ग्रामादिवृत्तित्वान्वय इति वाच्यम् । भूतले घर इत्यादी घटादिपदार्थेग्यधिकरणसप्तम्यर्थान्वयान्तादृशनियमासिद्धेः । अस्तु वा धात्वर्थतावच्छेदकतावच्छेदकतया भासमाने संयोगपव तदन्वयः । फलव्यापारयोः पृथक्शक्तिमते चाश्रयत्वमेवात्मनेपदार्थः । संयोगावच्छिनक्रियारूपधात्वर्थ एव व्यापाररूपधात्वर्थविशेष्यतया आश्रयत्वविशेषणतया चान्वेति । तदेक
याचेरुपादानमनर्थकमिति । अथ याचेरर्थपरस्योपादानमवश्यार्यमन्यथा नृपमर्थे प्रार्थयते इति न स्यात्तथाच भिक्षेरुपादानमनर्थकमित्येव वक्तमुचितम् प्रथमोपात्तस्य याचेहकाले भिक्षेरनुपस्थितेस्तेन तत्रैयध्येबुद्धेरसंभवाद्भिक्षेग्रहकाले चार्थपरस्य यावेरुपस्थितेस्तेन भिक्षेरानर्थक्यस्य शंकितुमर्हत्वादिति चेन सकलकर्मप्रकरणपर्यालोचनं विना न याचनार्थ कसकलधातूनां भवत्यनुपादानप्रहस्तदग्रहे व नार्थपरत्वमहस्तदग्रहेन्च न वैयर्थ्यशङ्कापीति तस्यां सकलप्रकरणपर्यालोचनस्यापेक्षितत्वे याचेरपि वैयर्थ्यस्य शङ्कितुं शक्यत्वात्प्रथमोपात्तस्य प्रथमं सार्थकत्वे प्रायशोजिज्ञासोदयात्तत्सार्थक्याय याचेरुपादानमनर्थकमित्याशङ्काया अप्युचितत्वादिति । प्रधानकर्मतयेति । इदमापाततउक्तम् । सविषयकस्य धात्वर्थस्य विषयताया एव प्रधानकर्मरूपत्वात् अतएव साक्षाद्धात्वर्थतावच्छेदकदानाश्रयस्य पौरवस्यानुपदमेव गौणकर्मतोका । उत्तरदेश संयोगावच्छिन्नक्रियेति । एषाच कचिद्रमनरूपा कचियादशावस्थित्यादिकं विनोत्तरसंयोगो नोपपद्यते तादृशावस्थित्यादिर्निस्पन्देपि