________________
गूढार्थतत्वालोकव्याख्या सहितः ।
१२५
रणव्यापारेषु विशकलितेषु धातोः शक्तित्रयं विशिष्टलाभोऽन्वय बलात् । कर्माल्यातले चाकाङ्क्षायैचित्र्येण तेषां विशेष्यविशेषणभाववैपरीत्यात् । व्यापारजन्यक्षरणजन्यविभागपर्यन्तस्य धातुत एव लाभः आश्रयत्वमेवाख्यातार्थः । एवं च क्षरणविभागयोर्न द्विधा भानम् । गौणकर्मासमभिव्याहृते दुह्यन्ते क्षीराणीत्यादौ आत्मनेपदेन केवलेन धातुसहितेन वा विभागावच्छिन्न क्षरणाश्रयत्वरूपप्रधानकर्मत्वस्य बोधनेऽपि एकदा उभयविधकर्मश्व बोधनस्याप्युत्पन्नतया दुह्यन्ते क्षीराणि गौरित्यादयो न प्रयोगाः ।
पौरवं गां याचते विप्र इत्यादी स्वोद्देश्यकदानेच्छा याचत्यर्थः । प्रधानकर्मगवाद्यन्वितद्वितीयार्थः विषयत्वं धात्वर्थतावच्छेदकदानेऽन्वेति । सविषयकज्ञानादिरूपविषयोपहितइच्छाबोधकधातुस्यले इच्छाविषयविषयत्वमेव प्रधानकर्मत्वम् अतएव घटो जिज्ञास्यते इत्यादी घटादेः सन्नन्तकर्मता । अथैवं यद्वस्तुविषयकं दानमप्रसिद्धं तद्वस्तुरूपकर्मसमभिव्याहृतधातुघटितवचसः का गतिरिति वेदू या गतिर्गगनं दिक्षते इत्यादिकस्य भ्रान्तपुरुषीयगगनादिप्रकारकदर्शनेच्छाबोधकवाक्यस्य, गगनविषयकत्वप्रकारक दर्शनेच्छाबोधस्तत्रेति चेदिहापि गोविषयिताप्रकारतानिरूपित स्वत्वेच्छानिष्ठविषयताशाली बोधस्तद्वाक्यस्य । विशेषादर्शिविषयता चसमा । विवेचनीयं चेदमये । पौरवपदोत्तरद्वितीयायास्तु वृत्तिरेवार्थः । तस्या दानेऽन्वयः । पौरवस्य तादृशदानाश्रयत्वमेवाप्रधानकर्मत्वम् । न चैवमिच्छाविशेषरूपदानस्याश्रयत्वं कर्तृत्वमेवेतिवाच्यम् । धातुजन्यप्रतिपत्तिविशेष्यी भूत दानाश्रयत्वस्यैव तत्कर्तृत्वरूपत्वात् । अत्र च दानस्य तादृशप्रतिपत्ताविच्छारूपधात्वर्थे विशेषणत्वात् । वैत्रेण पौरवो गां याच्यत
वोध्यम् । स्वोद्देश्य कदानेच्छेति । स्वनिरूपितखत्वप्रकारकत्वविशिष्टपरखत्वनिवृत्त्यनुकूलेच्छा विषयिणीच्छेत्यर्थः स्वपदार्थोयाचकः परच तदन्योदातृत्वेन तदिष्टः यत्र साधारणस्वत्वस्य क्रयण संपत्तये चैत्रस्यास्यापीदं भवत्वितीच्छा मैत्रस्य जायतामितीच्छा तत्र चैत्रो मैत्रं याचत इतिमाभूदतः परस्वत्वेत्यादिविशेषणम् यत्र चैत्रस्य स्वनिष्ठदानस्येच्छा मैत्रस्येदं न ममेतीच्छा मे जायतामित्याकरिका तत्र चैत्र आत्मानं याचत इति माभूदिति स्वोद्देश्यकेति खनिष्टदानस्य स्त्रोद्देश्यकत्वाभावात्तद्वारणमत्र । नचैवं परगतदानेत्यैव वाच्यमितिवाच्यम् परोद्देश्यकदानस्य परगतस्येच्छायां चैत्रोदाता भवत्वितीच्छायां मैत्रस्य मैत्रश्चैत्रं याचत इति प्रयोगवारणाय खोद्देश्यकेत्यस्यैव वक्तव्यत्वात् । यदिन्व न स्वार्थमयं याचतेऽपितु परार्थमिति व्यवहारः प्रामाणिकस्तदा परोद्देश्य कदानेच्छाया याचना निर्वाहाय स्वविषयकत्वखासामानाधिकरण्योभयसंबन्धेन दानविशिष्टच्छाया धार्थतालाभाय स्त्रोद्देश्य कत्वमुपात्तमिति मन्तव्यम् । अतएव दानाय प्रेरणन्धात्वर्थ इति सामान्यत एव दानायेत्युक्तम् शब्दशक्तिप्रकाशिकार्या । अथ तत्र प्रेरणा दीयतामित्याद्यभिलापरूपत्युक्तम् युज्यते च तत्दीयतां महाभित्यभिलापे सत्येव हि याचते धनमयमिति व्यव - हारो नान्यथेति चेत्र व्यवहारम्प्रति व्यवहर्तव्यज्ञानस्य हेतुतयेच्छाबोधकाभिलापाभावे परगतेच्छायाः परस्य ज्ञानाभावात्तादृशव्यवहारासंभवइति तादृशेच्छाज्ञापन एवाभिलापस्य व्यापारो न स एव याचनेति वक्तुमुचितं गौरवादन्यथा चैत्रायाहं दद इत्यभिलाषाभाचे चैत्राय ददातीति व्यवहाराभावाद्दानमप्यभिलाप एव स्यात् यथाकथंचिद्दातुः स्वस्वत्वनिवृत्त्यनुकूल परखत्वप्रकारकेच्छाया यस्य ज्ञानं तस्यायं ददातीति व्यवहारस्योक्ताभिलापं विनापि दर्शनानिरुक्तेच्चैव ददात्यर्थइतिचेत्तत्र मतिस्तदा याचकस्थेनितादिना दानेच्छां ज्ञातवतो विनापि तादृशाभिलापं याचते धनमयमिति व्यवहारात्तादृशेच्छेव याचतेरर्थइति मतिः कुतो नाद्रियते व्यवहारं प्रति ज्ञापकत्वेनाभिलापस्यान्यथासिद्धिरम्युभयचैव समाना याचनास्थलीयप्रायस्तादृशाभिलापदर्शनदोषनिबन्धनैव जगदीशोक्तिरिति मन्तव्यम् । यद्वस्तुविषयकमिति । इदमुपलक्षणम् यत्र याच्यमानस्य दानमप्रसिद्धं तत्रापि का गतिरित्यपिबोध्यम् । बोधइति । वृत्तित्वप्रकारतानिरूपितायाः खस्वत्वप्रकारतानिरूपित विशेष्यताकत्वावच्छिभेच्छा निष्ठविशेष्यता तन्निरूपकेच्छाया याचतेरर्थत्वात् तद्धटकवृत्तित्वे पौरवादिपदोत्तर द्वितीयार्थनिरूपितत्वस्य खत्वप्रकारतानिरूपितावेशेष्यत्वेगवादिपदोत्तर द्वितीयार्थापेयत्वस्य चान्वयोपगमात् यत्रापि दाने याच्यमानविशेषव्यक्तिर्वृत्तित्वाभावरूपस्य विशेषस्य वस्तुविशेषकर्मकत्वाभावरूपस्य विशेषस्य ययोर्दर्शनं तयोरपि तादृशवाक्यप्रयोगतज्जन्यशाब्दबोधयोर्नानुपपत्तिः पौरव गवादिपदोत्तरद्वितीययोराधेयत्व विषयत्वार्थकत्वकथनं यथाश्रुताभिप्रायेण गगनं दिदृक्षत इत्यस्याविशेषदर्शिप्रयोगरूपत्वं तादृशस्यैव शाब्दबोधजनकत्वं च विशेषदर्शिनां न तादृशप्रयोगो नापि ततोबोधो धात्वर्थस्तु यथाश्रुतएवाप्रामाण्यमेवच तस्येष्टमित्यभ्युपगमो यदि प्रामाणिकानां सच तदोतस्थले याचतइत्यचापि समान इत्याह--- तद्वाक्यस्येत्यादिना । अप्रधानकर्मत्वमिति । 'सविषयकस्य धालस्य विषयत्वस्यैव प्रधानकर्मत्वरूपत्वादितिशेषः तेन दानस्य साक्षाद्धावर्थतावच्छेदकत्वेपि न क्षतिः ।