________________
१२४
व्युत्पत्तिवादः। गां दोग्धि पय इत्यादौ द्विकर्मकधातुसमभिव्याहतगवादिपदोसरद्वितीया क्रियाजन्यफलशालिवादन्यदेव कर्मत्वं बोधयति । कारकाधिकारीयेणाकथितंचेति सूत्रेणापादानत्वादिभिन्नधातुप्रति पाद्यान्वयिधर्मान्तरावच्छिन्नस्यापि कर्मसंज्ञाभिधानात्। गवां पयो दोग्धीस्यादौ धातुमतिपाद्यान्वयिगवादिसंबन्धो न विवक्षितः, अपितु क्षीराद्यन्वयी स इति कर्मवाविवक्षया द्वितीयानवकाशा, किन्तु शैषिकी षष्ठ्येवेति । अत्र धातुप्रतिपाद्यंत्वतदर्थतावच्छेदककोटिप्रविष्टसाधारणम् । गां दोग्धीत्यादी धार्वथतावच्छेदककोटिप्रविष्टपव द्वितीयार्थान्वयात् । तथाहि । क्षरणानुकूलव्यापारो दुहेरर्थः । द्वितीयार्थश्व जनकत्वसंबन्धेन क्षरणान्वयी विभागः । विभागे चाधेयतया प्रकृत्यर्थगवादेरन्वयः । एवं च धात्वर्थतावच्छेदकक्षरणरूपफले प्रधानकर्मक्षीराद्यन्वितद्धितीयार्थवृत्त्यन्वय इति गोनिष्ठविभागानुकूलपयोनिष्ठक्षरणानुकूलव्यापारकर्ता मैत्र इति गां पयो दोग्धि मैत्र इति वाक्याधीनो बोधः न च विभागोपादानत्वमेवेति तद्विवक्षायां द्वितीयानधकाशेति वाच्यम् । धातुवृत्तिमहाविशेप्यान्वयिनो विभागस्यैवापादानत्वरूपत्वात । वृक्षात्पर्ण पततीत्यादौ स्पन्दरूपविशेष्यांशे पर पञ्चभ्यर्थविभागान्वयात् । वस्तुतो विभागावच्छिन्नक्षरणानुकूलो व्यापारो दुह्मर्थः । गोपदोत्तरद्वितीयार्थश्च विभागान्वयिनी वृत्तिरेष । न चैधंधात्वर्थतावच्छेदकफलशालित्वरूपं कर्मत्वमेवात्रापि प्रतीयते इति नाकथित चेत्यस्य विषय इति वाच्यम् । धात्वतावच्छेदकत्वस्य धातुवृत्तिग्रहविशेष्यांशे साक्षाद्विशेषणत्वरूपत्वात्। यत्रचक्षरणानुकलव्यापारमात्रं धात्वर्थतया विवक्षितं भागश्च विभक्यर्थतया तत्रापादानत्वबोधिका पञ्चमी । एतेन कदाचिद्गां दोग्धि पयः, कदाचिश्च गोभ्यो दोग्धि पय इत्यत्र नानियमः । अथ धागोभ्यो दोग्धि पय इत्यत्रापि विभागो धात्वर्थतावच्छेदककोटिप्रविष्ट एव वृक्षाद्विभजते इत्यत्रेवावधित्वरूपापादानस्वविवक्षायां पञ्चमी, आश्रयत्व. विवक्षायां च द्वितीया, अवधित्वं चाश्रयत्वादन्यदेव संबन्धविशेषः । अत्र क्षरणान्वयिनः परसमवेतत्वस्य द्वितीयार्थत्वात पयोनिष्ठक्षरणस्य पयोनिष्ठविभागजनकस्वेऽपि न पयः पयो दोग्धीति प्रये परत्वं विभागान्वयितावच्छेदकावच्छिन्नापेक्षया बोध्यम् । दुह्यते गौः क्षीरमित्यादौ क्षरणजन्यवि. भागाश्रयत्वं गवादिनिष्ठमप्रधानकर्मत्वमाख्यातार्थः । अप्रधाने दुहादीनामित्यनुशासनात् । क्षीरवृत्तिस्वस्य धात्वर्थक्षरण पवान्वयः आख्यातार्थक्षरणे च धात्वर्थव्यापारान्वयः । तथा च विभागावच्छिन्न. क्षीरनिष्ठक्षरणानुकूलव्यापारजत्यक्षरणजन्यविभागाश्रयो गौरित्याकारको बोधः। अथ वा विभागक्ष.
क्षरणानुकूलव्यापार इति । यद्यपिक्षरणमन्तःप्रदेश विभागानुकूलो द्रवद्रव्यनिष्ठो व्यापार विशेषस्तथापि तस्य तत्त्वेन न धात्वर्थघटकताऽपितु स्यन्दलव्याप्येन पयःक्षरतीतिप्रतीति सिद्धेन जातिविशेषेण लाघवादिति बोध्यम् । अत्र पक्षे गोः कथंचिदपि न धालतावच्छेदकफलाश्रयत्वेन कर्मत्वमपितु तदन्वितविभागान्वयित्वरूपं यद्धातुमुख्यार्थानन्वयित्वेनापादानत्वाचनात्मक गौणकर्मत्वमकथितंचेति सूत्रप्रतिपाद्यं तदेवास्तीति । यत्तु मोचनानुकूलव्यापारो दुहेरर्थः मोचनञ्च दुग्धादेयत्क्षरणं तदनुकूलो व्यापारः गवादिनिष्ठः यदभावाद्दोग्धृव्यापारेपि न क्षरणं तथाच गवादेर्मुख्यकर्मलमेवेति मतन्तन लाघवेन क्षरणानुकूल. व्यापारत्वेन धावलौचित्यात् । नचैवं गौः पयोदोग्धीति प्रयोगापत्तिः पयोनिष्ठं यत्क्षरणं तदनुकूलस्य मोचनाख्यव्यापारविशेषस्य गवि सत्वादितिवाच्यम् योहि गोापारः स्वतन्त्रमेव क्षरणानुकूलो गोपच्यापार विनापि बहुक्षीराया वत्सावलोके क्षीरक्षरणदर्शनात् तस्य तेन क्षरणानुकूलत्वेन न धात्वर्थताऽपि तु गोव्यापारद्वारा दोग्धृव्यापारस्य यद्विलक्षणं क्षरणानुकूलत्वं तेनैवेत्युक्तदोषविरहात् पाणिनेरप्यकथितथेति सूत्रयतोऽस्यैव धात्वर्थत्वे तात्पर्यम् । अथ क्षरतीत्यतः केवलादप्यन्तःप्रदेशावच्छिन्न विभागानुकूलव्यापारत्वेन क्षरणस्य प्रतीतेगांदोग्धि पय इत्यत्र क्षरणस्य दुह्यर्थघटकतोक्तव्यापारत्वेनैव वाच्या तथाच विभागस्यापादानस्वेपि तस्य धातुत एव लाभात्र विभक्त्यर्थता विभक्त्यर्थस्याधेयत्वस्य फलान्वयिनः कर्मवरूपतैव कर्मनिष्ठता च निरूपकत्वेन नाश्रयतयेति तस्य गौणकर्मवरूपता तादृशस्य तस्याकथितश्चेति सूत्रविषयतेत्यभिप्रायेणाह । वस्तुतो विभागेत्यादि । यत्रच क्षरणानुकू. लव्यापारमात्रमिति।मात्रपदेन विभागावच्छिन्नलव्यवच्छेदः अत्र क्षरणवस्य यदि जातिरूपता तदा लाघवात्तेन रूपेण क्षरणानुकूलव्यापारे दुहेः शक्तिः विभागावच्छिन्नव्यापारावच्छिन्ने लक्षणैव यदि न सा जातिस्तदाविभागघटितार्थे शक्तिः स्यन्दत्वेन क्षरणघटितेलक्षणैव तत्र विभागबोधाय पञ्चम्यपेक्षा पश्चभ्यर्थविभागान्वये च नात्र पक्षे मुख्य विशेष्यतया धातुजन्योपस्थिते. रपेक्षा पयोदोग्धील्यतः खरसतः पयोवृत्तिस्यन्दानुकूलव्यापारमात्रस्याप्रतीतेर्गुरुभूतेप्युक्तविभागघटितार्थ एव शक्त्यभ्युपगम इति