________________
व्युत्पत्तिवादः ।
शेvratraratघे गम्यादिजन्यफलोपस्थितितत्समभिव्याहारज्ञानघटितसामथ्र्येव प्रयोजिका न तु पतधातुजम्यतदुपस्थितिघटिता सामग्रीति नातिप्रसङ्ग इति वाच्यम् पतधातुनैव यत्र संयोगावच्छिन्नगमनं लक्षणादिनोपस्थापितं तत्र संयोगे द्वितीयार्थाधेयत्वान्वयात् । अत्राहुः । धातुजन्यशुद्धसंयोगावच्छिन्न स्पन्दोपस्थितेः शाब्दबोधकारणताया अवच्छेदकघटकसंयोगविषयतायां अधिकरणानवच्छिन्नत्वं विशेषणं देयम् । तथा च तादृशविषयताशालिसंयोगाद्युपस्थित्यादिघटितसामथ्र्या व संयोगविशेष्यकद्वितीयोपस्थाप्याधेयत्वान्वयबोधप्रयोजकत्वोपगमान्नातिप्रसङ्गः । न चैवमपि फलावच्छिन्नव्यापारबोधकतया पतेः सकर्मकत्वव्यवहारापत्ति दुर्वारेति वाच्यम् । आश्रयानवच्छि नफलावच्छिन्नव्यापारबोधकत्वस्यैष ताराव्यवहारनियामकत्वात् । उत्तरदेशानवच्छिन्नसंयोगः फलं गभ्यर्थतावच्छेदकमिति नानुपपत्तिः । अत एवाग्निसंयोगावच्छिन्न क्रियानुकूलव्यापारस्य जुहो: त्यर्थतया धात्वर्थतावच्छेदकसंयोगाश्रयस्याप्यग्नेर्न तत्कर्मता । आश्रयानवच्छिन्नावच्छेदकतायफलवत्त्वविरहात् । संयोगनिष्ठाया अवच्छेदकताया आश्रयेणाग्निनाऽवच्छिन्नत्वात् । न चानिविशेषित संयोगस्य धात्वर्थतावच्छेदकत्वेऽग्नौ घृतं जुहोतीत्यत्रानन्वयप्रसङ्गः, उद्देश्यतावच्छेदकविधेययोरैक्यादिति वाच्यम् तत्र संयोगनिष्ठायामुद्देश्यतायां वन्हेराधेयतासंसर्गेणावच्छेदकतया सप्तम्यर्थस्याग्निवृत्तित्वस्य च विधेयतया उद्देश्यतावच्छेदकवि धेययोरैक्यानवकाशात् । वस्तुतस्तु तत्र वरनन्वयेऽपि न क्षतिः व्युत्पन्नानां तादृशप्रयोगस्याप्रामाणिकत्वात् । संस्कृते वह्नौ जुहु
१२०
व्याहारज्ञानस्य च कारणत्वाभ्युपगमेनेत्यर्थः । अग्निसंयोगावचिछन्नक्रियानुकूलव्यापारस्येति । नयतिजुहोत्योस्समानार्थतावारणायाभिसंयोगावच्छिन्नेति तथा चामि घृतं नयतीतिवदानं घृतं जुहोतीतिप्रयोगस्य नापत्तिः अग्निसंयोगावच्छिनक्रिया व पतनरूपा घृतादिनिष्ठा तदनुकूलो व्यापारो मन्त्रकरणकप्रक्षेपरूपः पुरुषस्य बोध्यः । न च पदे जुहोति जलेऽनाहुतिद्वयं जुहुयादित्यादौ का गतिस्तत्र संयोगस्याभ्यनवच्छिन्नत्वात् संयोगावच्छिन्नक्रियामात्रपरत्वे पदं जुहोतीत्यस्यापत्तेरिति वाच्यम् आधारावच्छिन्नसंयोगानुकूल क्रियानुकूलव्यापारे लक्षणोपगमात् । प्राणान् प्राणेषु जुह्वतीत्यादौ सुत लक्षणेति अनिरृत्तित्वं धात्वर्थतावच्छेदकघटकं सप्तम्यन्तार्थस्यानिवृत्तित्वस्य तद्विशिष्टेन्वयमाधेयतासंबन्धेनाग्नेर्धात्वर्थतावच्छेदकघटकलं सप्तम्यन्तार्थाधेयत्वस्यापि वहिसंसर्गतयैव भानं वाभिप्रेत्याशङ्कते । नचाग्निविशेषितेति । साक्षादाधेयत्वद्वारा वाभिषिशेषितेत्यर्थः । लाघवादाधेयत्वसंसर्गेणा प्रेर्धात्वर्थतावच्छेदकघटकत्वं विभक्त्यर्थं स्याधेयत्वस्य प्रागुक्तलाघवेन प्रकारत्वमेवेत्यभिप्रायेण समाधत्ते । तत्रसंयोग निष्ठायामिति । अथसप्तम्यर्थाधेयत्वस्य व्यापार एवान्वयस्य प्रागुक्तत्वादिदम संगतमितिचेन्न द्वितीयाधेयत्वस्य फलेन्वयबोधं प्रति हि स्वप्रकृत्यर्थरूपाधिकरणा नव च्छित्रफलनिष्टविषयताको स्थितित्वेन कारणत्वमुक्तं नच संयोगत्वाद्यतिरिक्तधर्मानवच्छिन्नत्वेन सामान्यतोधिकरणानवच्छिन्नत्वेन वा फलविषयतायाः कुतो न प्रवेश इति वाच्यम् आधेयतयोर्ध्वादिदेशावच्छिन्नसंयोगानुकूलकियाघटके लोष्टमुत्क्षिपतीत्यादावूर्ध्वदेशादिरूपाधिकरणावच्छिन्नतयोपस्थिते संयोगे लोष्टादिद्वृत्तित्वस्यानन्वयापत्तेः । एवं च सप्तम्यर्थाधेयत्वस्य फलेन्वयं प्रति स्वप्रकृत्यर्थरूपाधिकरणावच्छिन्नफलविषयताकोपस्थितित्वेन कारणत्वान्तरमप्युपक्षिप्तं भवति साक्षात्संबन्धेनान्वये सम्भवत्यपि सर्वत्र व्यापारेऽन्वयस्य परम्परासंबन्धेनाप्यन्वयस्य परम्परासंबन्धावच्छिन्नाधेयत्वस्य विशेषणता विशेष संबन्धस्य वाऽप्रामाणिकस्य कल्पनया संपादनस्यानुचितत्वात् । मैवं धात्वर्थतावच्छेदक फलांशइत्यादिपूर्वग्रन्थादुक्तकारणत्वव्यवच्छेदाप्रतीतेः प्रथमैवकारेण व्यापारे द्वितीयार्थाधेयत्वान्वयव्यवच्छेदस्य द्वितीयैवकारेण व्यापारे विभक्त्यर्थाधेयत्वान्वये द्वितीयासमभिव्याहारादिघटितकारणकलापस्य सामग्रीत्वव्यवच्छेदस्य प्रतीतेः न चान्वयोपपत्तावपि पौनरुक्त्यमर्थतोदुर्वारमिति वाच्यं व्यापारेऽन्वयपक्षेऽपि तस्य समानत्वात् । नच सप्तम्यधिकरण इतिसूत्रे वाक्यभेदापत्तिरिति वाच्यम् व्यापारनिष्टाधेयत्वाधिकरणावच्छिन्नफलनिष्ठा घेयत्वान्यतरान्वयित्वेन तात्पर्यविषये प्रकृत्यर्थे सप्तमीभवतीत्यर्थे तदसम्भवात् । नच फलेऽधिकरणावच्छिन्नत्वप्रवेशो व्यर्थइति वाच्यं ग्रामवृत्तित्वस्य संयोगेन्वयतात्पर्ये द्वितीयासप्तमीप्रयोगयोर्विनिगमकाभावात्तत्रानध्यवसायापत्तेः सर्वत्रव्यापारएव सप्तम्यर्थान्वयो व्युत्पत्तिभेदश्व नाभ्युपेय इत्यभिप्रायेणेति वाच्यमित्युत्तरं सप्तम्यर्थाधेयत्वस्य धात्वर्थतावच्छेदकफलेऽन्वयस्यान्युत्पन्नत्वादमैौ जुहोतीत्यादौ हुधातुशक्तिविशेष्ये संयोगानुकूलक्रियाजनकपुरुषव्यापारएवान्वयेन तत्रान्वयानवकाशात् तादृशव्यापारेऽभिवृत्तित्वं च कर्मघटितपरम्परासंबन्धेन गृहे पचतीत्यादौ तण्डुलादिनिष्टधात्वर्थामिसंयोगव्यापारे गृहद्वृत्तित्ववदिति कचित्पुस्तके पाठः अर्थतः पौनरुक्त्यस्य दोषतामाकलय्याह । वस्तुतस्त्विति । अनन्वयेपीत्यपिनाऽनुपदोक्तान्वयोपपादनं सूचितम् । अप्रामाणिकत्वादिति । अप्रामाणिकत्वोपगमादित्यर्थः । वस्तुतस्त्वित्यादिनास्त्येवानुपपत्तिरित्येतत्स्थाने अतएव विवेचका वहौ जुहोतीति