________________
गूढार्थतत्वालोकव्याख्यासहितः ।
११९
थाविधाधेयताप्रसिद्ध्या तदभावबोधासंभवः। निरूपितत्व संबन्धस्य च वृत्त्यनियामकतया समवायसंबन्धावछिन्नाधेयतायां तत्संबन्धावच्छिन्नप्रतियोगिताक प्रकृत्यर्थाभावबोधो न संभवत्येवेत्याहुरिति । अत्रोच्यते । वृत्यनियामक संबन्धस्याभावप्रतियोगितावच्छेदकत्वे आधेयत्वं संसर्गः विभक्तेः संख्यामात्रमर्थः फलावच्छिन्नो व्यापारो धात्वर्थ इत्येवोचितम् । अस्तु च व्युत्पत्तिवैचियेण नामार्थधात्वर्थयोरपि साक्षादन्ययबोधस्तथा सत्यतिप्रसङ्गस्य प्रागुपदर्शितप्रकारेण वारणसंभवात् । न चैतत्कल्पे लाघवानवकाशः फले स्वतन्त्रशक्त्य कल्पनेन सामग्रीप्रतिबन्धकतायां द्वितीयादिजन्यफलोपस्थितिधातुजन्यव्यापारोपस्थित्युभयनिवेशापेक्षया धातुजन्यविशिष्टविषयको पस्थितेरेकस्या निवेशेन च लाघवात् । वस्तुतस्तु, शाब्दबुद्धेरधिकविषयत्वे राज्ञः पुरुष इत्यादी स्वरवादेः संसर्गतानिराकरणावसरे सामग्रीप्रतिबन्धकतायां लाघवस्य दर्शितत्वाद् द्वितीयादेराधेयत्वमर्थः फलावच्छिन्नव्यापारश्च धातोरित्येव युक्तम् । कर्माख्यातस्य फलमर्थः । अन्यथा ग्रामो गम्यते इत्यादी श्रामादेः व्यापारजन्यफलाश्रयत्वरूपकर्मत्वप्रतीत्यनुपपत्तेः । यादृशविशेष्यविशेषणभावापनयोः पंदशक्यता, तादृशविशेषणविशेष्यभावापनयोरेव शाब्दबोधे भानसंभवात् । न तु विपरीतविशेषणविशेष्यभावापन्नयोः । यत्तु फले धातोः पृथक् शतयुपगमात् व्युत्पत्तिवैचित्र्येण कर्त्राख्यातसमभिव्याहारस्थले व्यापारविशेषणतया भासमानस्य फलस्य कर्माख्यातस्थले तद्विशेष्यतया भानमिति । तन्न । पृथक शक्तिस्वीकारे शाब्दसामग्र्याः प्रतिबन्धकतायां विशिष्टविषयको पस्थितिस्थले उपस्थितिद्वयकल्पने गौरवात् । गम्यादेः सम्पूर्वयु जिप्रभृतिसमानार्थकत्ताभ्रमवतामिव विशेषदर्शि नामपि गमनं न रुपन्द इत्यादिवाक्यात्संयोगादौ स्पन्दभेदान्वयबोधापतेर्दर्शिताया दुर्वारत्वाश्व । संयोगादिविशेष्यकवृप्तिज्ञानजन्यतदुपस्थितिघटितायास्तथाविधान्वयबोधसामग्र्या अक्षतत्वात् । त तात्पस्याप्यव्यापारांशे तत्तद्विशेषणकबोधतात्पर्यज्ञानस्य तादृशान्वयबोधे प्रतिबन्धकता कल्पने गौरवादिति । फलस्य द्विश्रा भानं चेदनुभवविरुद्धं तदा पुनरनायत्या फलव्यापारयोः खण्डशःशक्तिद्वयमेव धातोः स्वीकरणीयम् । आख्यातस्याश्रयत्वमेव तत्रार्थः अधिकम वक्ष्यते ।
अथ द्वितीयाया आधेयतार्थकत्वे व्यापारे तदन्वयतात्पर्येण सप्तम्या इव द्वितीयाया अपि प्रयोगापतिः। न हि गृहे पचतीत्यादिवगृहं पचतीति कश्चित्प्रयुङ्क्ते । मैवं धात्वर्थतावच्छेदकफलांशे आ. धेयत्वान्चयएव तादशद्वितीयायाः साकाङ्क्षत्वकल्पनाद्व्यापारे तदुपस्थापिताधेयत्वान्वयासंभवात् । सप्तम्यधीनाधेयत्वोपस्थिति सप्तमीसमभिव्याहारज्ञानघटिताया एव सामग्र्यास्तादृशान्वयबोधनियामकत्वात् । द्वितीयासप्तम्योः समानार्थकत्वेऽपि व्युत्पत्तिभेवज्ञापनायैव पृथक् पृथक् सूत्रेण तयोर्विधानात् । अथाधः संयोगावच्छिन्नस्पन्दस्य पतधात्वर्थत्वात् धात्वर्थतावच्छेदकीभूतफले आधेयत्वान्वयतात्पर्येण भूमिं पततीति प्रयोगापत्तिः । न च द्वितीयोपस्थिताधेयत्वप्रकारकफलवि
व्युत्पत्तिवैचित्रयेणेति । आधेयत्वसंबन्धावच्छिन्नग्रामादिनिष्ठ प्रकारतानिरूपितधात्वर्थफलनिष्ठविशेष्यताकशाब्दबोधे द्वितीयान्तग्रामादिपदगम्यादिधातुसमभिव्याहारज्ञानत्वादिना कार्यकारणभावोपगमेनेत्यर्थः । अतिप्रसंगस्येति । ग्रामो गच्छतीत्यादौ ग्रामादिप्रकार कसंयोगादिविशेष्यकबोधप्रसंगस्येत्यर्थः । स्वतन्त्रशस्य कल्पनेनेति । विशिष्टशक्तिपक्षे फले न खतन्त्रशक्तिरपितु फलावच्छिन्नव्यापारविषयक बोधजनकत्वप्रकारत्तानिरूपित्तगम्यादिधातुनिष्ठविशेष्यतानिरूपकेच्छैव विषयतावि शेषसंबन्धेन फलेऽपि स्वतन्त्रशक्तिपक्षे च फलविषयताकबोधजनकत्वप्रकारतानिरूपितगम्यादिविशेष्यताकत्वस्येश्वरेच्छायामधिकस्य कल्पनेन तादृशविलक्षणविषयतासंबन्धेन सा फलेशक्तिः व्यापारविषयकबोधजनकत्वप्रकारतानिरूपितगम्यादिनिष्ठविशेष्य ताकत्वकल्पनेन तादृशविषयताविशेषसंबन्धेन व्यापारे सेति तादृशाने कविषयत्वा कल्पनेनेत्यर्थः । उभयनिवेशापेक्षयेति । सामग्रीप्रतिबन्धकतायां विशिष्टोपस्थितेर्विशेष्यविशेषणभाववैपरीत्येन द्विधाप्रवेशेऽपि योग्यताज्ञानेनैकेन सह विशेष्यविशेषणभावे विनिगमनाविरहेण चखारिप्रतिबन्धकत्वान्युभयोपस्थितिप्रवेशे षट्प्रतिबन्धकत्वानीत्येवमधिककारणैस्सहोक्तरीत्या विशेष्यविशेषणभावचिन्तायामाधिक्यस्य प्रस्फुटावगमात्तदपेक्षयालाघवेनेत्यर्थः । व्युत्पत्तिवैचित्र्येणेति । फलविशिष्टव्यापार • विषयकशाब्दबोधे द्वितीयान्तकर्त्रा ख्यात समभिव्याहारज्ञानस्य व्यापारविशिष्टफलविय कशाब्दबोधे कर्माख्यातप्रथमान्तसमभि