________________
गूढार्थतत्वालोकव्याख्यासहितः ।
१२१ यादित्यादिस्थले च विधेयांशेऽधिकावगाहनानास्त्येवानुपपत्तिः घृतादेश्चाश्रयानवच्छिन्नधात्वर्थताय. च्छेदकक्रियारूपफलाश्रयत्वात् कर्मत्वोपपत्तिः । यत्तु धात्वर्थतावच्छेदकत्वं धातुवृत्तिग्रहविशेश्यांशे साक्षात्कारत्वं तश क्रियायामेव न संयोगांशेऽपीति नाग्नेर्जुहोतिकर्मतापत्तिरिति । तदसत् । अजां प्रामं नयतीत्यादौ संयोगावच्छिन्नक्रियानुकूलव्यापारादिरूपे धात्वर्थे संयोगादेः साक्षादप्रकार. तया तदाश्रयीभूतग्रामादेः कर्मत्वानुपपत्त्या नीवहादेर्द्धिकर्मकत्वव्याघातात् । अथात्र ग्रामादेः प्रधानकर्मत्वं नास्त्येवापि तु गौणकर्मत्वमेव । अतएव तादृशकर्मत्वमाख्यातेन नाभिधीयते "प्रधानकर्मण्याख्येये लादीनाहुहिकर्मणामि" त्यनुशासनादिति । अजाग्रामोनीयते इत्यादिको न प्रयोग इति चेत्तर्हि तत्र प्रामादेरिवात्रापि धात्वर्थतावच्छेदकतावच्छेदकफलशालित्वेन गौणकर्मत्वापत्त्या
हिं घृतं जुहोतीति प्रयोगापत्तिारैवेति । अस्मन्मते चाश्रयानवच्छिन्नसंयोगविषयताशा लिधातुजन्योपस्थितिघटितसामग्र्या एव संयोगे द्वितीयार्थान्धयबोधप्रयोजकतया नैताहशप्रयो. गापत्तिः । यसु अधःसंयोगावच्छिन्नस्पन्दोन पतत्यर्थः, अपि तु गुरुत्वजन्यतावच्छेदकजातिविशेषावच्छिन्न एव । अतएव फलावच्छिन्नव्यापाराबोधकत्वान्न सकर्मकत्वमिति तन्न फलस्य धात्वर्थाघटकत्वे स्पन्द एव सप्तम्यर्थान्वयस्योपगन्तव्यतया पर्णादिनिष्ठस्य तस्य भूतलावृत्तितया भूतले पततीति प्रयोगानुपपत्तिः। पर्णादिगतस्पन्दस्य परम्परया भूतलादिवृत्तित्वमिति चेत्तर्हि वृक्षात्पततीतिवत् वृक्षे पततीत्यपि स्यात् । अस्मन्मते चान्यत्र व्यापारे सप्तम्यर्थान्वयेऽपि अत्रव्यत्पत्तिवैचित्र्याधःसंयोगरूपधात्वर्थतावच्छेदकएष तदन्वयबोध इत्यदोषः । अन्येतु भूम्यादेः कर्मत्वविवक्षायां भूमि पततीति प्रयोग इष्ट एव । अतएव द्वितीयाश्रितेत्यादिसुत्रेण नरकं पतित इत्यादिस्थले द्वितीयासमासविधानमुपपद्यते । धात्वर्थतावच्छेदकतावच्छेदकफले द्वितीयार्थान्वय. एवाश्रयानवच्छिन्नफलोपस्थितेरपेक्षा अग्नि जुहोतीति वारणाय स्वीमियत इति वदन्ति । तदपि न शोभनम । तथा सति भूम्यादिपदोत्तरंकदाचित्सप्तमी कदाचिद्वितीयेत्यत्र नियामकाभावप्रसकात। व्यापाराशे आधेयत्वविवक्षायां सप्तमी फलांशे तद्विवक्षायां द्वितीयेत्यस्योक्तयुक्या फलांशपव सप्तस्यान्वयस्यावश्यं स्वीकरणीयतया वक्तुमशक्यवादिति । ब्राह्मणाय धनं ददातीत्यादी
न प्रयलते प्रयाते च संस्कृते यही जुहोतीत्यादिकमेव तत्र वलावित्यनुक्तेऽसौ संस्कृतत्वालाभात् तदुक्तिरावश्यकी नहि धात्वर्थतावच्छेदकवहौ संस्कृतादिपदार्थान्वयसंभवइति कचित्पाठः सच संदर्भशुद्धतयोपादेयः प्रथमतोऽन्वयमुपपाद्यान्वयेऽपि न क्षतिरित्यक्तेस्सन्दर्भाशुद्धय॑क्तखात् आधेयतासंबन्धेन तद्विशिष्टे तदाधेयखस्याप्याधेयतासंबन्धेन तदन्वयवदेवानुभवविरुद्धतयाऽनन्वयेपीति चानन्वयपक्षः कथञ्चिदुपपादनीयः अत एवेत्यस्य धातुतएव वडिवृत्तिखस्य लाभादावित्युकेरनावश्यकत्वादेवेत्यर्थः । नहीति । धात्वर्थेऽभेदसंबन्धेन प्रातिपदिकार्थान्वये द्वितीयान्तत्वग्रहस्यापेक्षितत्वेऽपि फले व्यापारेवा तदन्वय एब न तदतिरिक्तधात्वर्थान्वये तेन यथा तादृशान्वये वह्निमिति द्वितीयान्तस्य निराकाङ्कता तथा सप्तम्यन्तस्याप्यभेदान्वये समानवचन विशेष्यवाचकपदविरहानिराकाढतेति नहि वही धात्वर्थतावच्छेदके संस्कृतान्वयसंभवइत्यर्थः । धातुवत्तिग्रहविशेष्यांश इति । स्पन्दिप्रभृतेस्संयोगावच्छिन्नव्यापारे लक्षणाप्रहे प्रामादेस्तत्कर्मलोपपत्तये लघुभूतमपि धातुसङ्केतमुख्यविशेष्यत्वं परित्यज्य वृत्तिग्रहमुख्यविशेष्यलमुपात्तम् । अत्र यदा गमधातुस्संयोगावच्छिन्नव्यापारतात्पर्येण प्रयुज्यते तदान पूर्वदेशे यदाविभागावच्छिन्नव्यापारतात्पर्येण न तदोत्तरदेशे तत्कर्मत्वव्यवहार इति तदुपपत्तये तत्तद्धातुप्रयोजकतात्पर्यज्ञग्नसहकारितत्तद्धातुवृत्तिज्ञानमुख्य विशेष्यांशे साक्षात्प्रकारीभूतफलाश्रयलं ताशवृत्तिहानसहकारितात्पर्यप्रयुक्तधातुकर्मखं बोध्यम् सामान्यतस्तत्तद्धातुकर्मलं शक्तिलक्षणारूपवृत्तिग्रहमुख्यविशेष्यप्रकारीभूतसंयोगविभागादिफलमादाय पूर्वोत्तरदेशयोरपीष्यतएवेति । व्याघातादिति । इदमुपलक्षणं भूम्यादेः पतधातुकर्मलस्यावारणादित्यपि द्रष्टव्यम् । नचाधिकरणानवच्छिन्नत्वमपि विशेषणमिति वाच्यं वलयादेः कर्मलस्य तावतैव वारणात्साक्षादित्यस्यवैयापत्तेः गौणकर्मत्वमेवेति । तथा च मुख्यकर्मत्वस्यैवोकरूपस्याभिहितत्वेन प्रामे तदभावेपि न क्षतिरितिभावः । वक्तुमशक्यत्वादिति । अथाधिकरणानवच्छिन्नधात्वर्थतावच्छेदकफलाश्रयत्वस्य कर्मत्वरूपतापक्षस्यैव निर्दुष्टतापर्यवसानानरकं पतित इत्यस्याननुपपत्तिरिति चेन्न अध. संयोगावच्छिन्नक्रियार्थकपतधातुसमभिव्याहृतादेकान्तदुःखभोगावच्छेदकप्रदेश विशेषार्थकनरकपदाद्धि द्वितीया नेष्यत एवं सप्तभ्या एव तत्रेष्टत्वात् भोगानुकूलपातित्यार्थकपतधातुसमभिव्याहतात्सुखासंभिन्नदुःखार्थकनरकपदादेव च भोगान्वितवि
१६ व्युत्प.