________________
११२
व्युत्पत्तिवादः । मैत्रःपक्ष्यते तण्डुल इत्यादयस्तु न प्रयोगाः। तदेकतरबोधेऽन्यपरत्वेनागृह्यमाणाख्यातधर्मिकप्रकृतान्धयबोधपरत्वज्ञानस्यहेतुत्वात् चैत्रेण पक्ष्यते तण्डुल-इत्यादौ कर्तृत्वादाख्यातस्य तात्पर्यग्रहे कर्मत्वाद्यन्वयबोधोऽपि न भवत्येव । अथ पकानि भुते चैत्र, ओदनः पक्त्वा भुज्यते इत्यादी कृतां क्रमेण कर्तृ. कर्मत्वानभिधानाच्चैत्रपदीदनपदाद्यत्तरं तृतीयाद्वितीये कथन स्याताम् ।नच कृतानभिधानेऽपि आख्यातेन तदभिधानानानभिहितत्वं समभिव्याहतपदाभिहितत्वसामान्याभावस्यैवानभिहितपदेन विव. क्षणात समभिव्याहृतेतिकरणाश्च चैत्रेण गम्यते ग्रामस्तं मैत्रो गच्छतीत्यादौ न तृतीयाद्वितीययोरनपपत्तिा गच्छति गम्यतइत्याख्यातस्य तत्तत्पदासमभिव्याहतत्वादिति वाच्यम् तथा सति भूक्षानेन चैत्रण पच्यते भोक्तव्यमोदनं पचतीत्यादौ तृतीयाद्वितीययोरनुपपत्तिः कृता-कर्तृत्वकर्मत्वयोरभिधानात् । कृता तत्र भोजनकर्तृत्वतत्कर्मत्वयोरमिधानेऽपि पाककर्तृत्वं तत्कर्मत्वं वानभिहितमिति चेतहि प्रकृतेऽपि तदनभिहितमेव । न च प्रधानक्रियानिरूपितकर्तृत्वाधनभिधाने तृतीयादेः साधुतेति तदुक्तम् प्रधानशक्तयभिधानेगुणशक्तिरभिहितवत्प्रकाशते इति शक्तिः कर्तृत्वादिकमिति वाच्यम् तथापि चैत्रेण दृश्यमानं घटं मैत्रः पश्यतीत्यादौ शानभेदेन विषयताभेदाभावात् । चैत्रदर्शनमैत्रदर्शनोभयनिरूपितविषयत्वरूपकर्मतायाः कृताभिधानादू द्वितीयानुपपत्तिरिति चेन्न । तत्तत्प्रातिपदिकार्थविशेषणत्वमात्रेण कर्तृकर्मत्वाद्यधिवक्षाया एव तदनभिधानपदार्थत्वात् । तत्तप्रातिपदिकार्थविशेष्यतया कर्मत्वकर्तृत्वादिविवक्षया द्वितीयाविभक्तेः साधत्वमित्यर्थे तात्पर्यस्य पर्यवसितत्वात् । शेषमाख्यातार्थविचारे विवेचयिष्यतइत्यलमत्राधिक्येन ।
आख्यातद्विवचनबहुवचनयोस्तु संख्याबोधकत्वमावश्यकं चैत्रो मैत्रश्च गच्छतः चैत्रो मैत्री देवदत्तश्च गच्छन्तीत्यादौ “चन्द्र कलङ्कः सुजने दरिद्रता विकाशलक्ष्मीः कमलेषु चञ्चला। मुखाप्रसादः सधनेषु सर्वदा यशो विधातुः कथयन्ति खण्डितम्" इत्यादौ च द्वित्वबहुत्ववोधकसुपोऽभावात। न च तत्र सुबेकवचनस्यैव द्वित्वथहुत्वादी लक्षणास्त्विति वाच्यम् आनुशासनिकातिरिक्तार्थ सुब्विभक्तलक्षणाया अनभ्युपगमात् । अन्यथा चैत्रो मैत्रश्च गच्छत इत्यादाविवच्छन्दसि लक्षणयैव स्वादिना द्वित्वादिबोधनसंभवात् । औजसादिरूपादेशस्मृतिद्वारा द्वित्वादियोधनिर्वाहाय छन्दसि सुपी सुलुगित्यादिसूत्रेण औजलादिस्थाने खाद्यादेशस्य धैयर्थ्यात् । चैत्रादिपदोत्तरैकवचनस्य द्वित्वादिलाक्षणिकत्वे तदप्रकृत्यर्थमैत्रादिसाधारणद्वित्वादिबोधस्योक्तव्युत्पत्तिविरोधेनानुपपश्च । आख्यातार्थसंख्यान्वयबोधे च समानविशेष्यकतदर्थभावनान्वयबुद्धिसामग्री अपेक्षिता भावनाया बाधादिग्रहकाले तात्पर्यशून्यकाले वा उक्तस्थले द्वित्वान्वयाबोधात् । भावनाया अविशेष्ये धात्वर्थादौसंख्यान्वयबोधाश्च तादृशसामच्याः संख्यान्वयबुद्धित्वावच्छिन्नं प्रति स्वातन्त्र्येण हेतता तदकल्पनेऽपि आख्यातजन्यसंख्योपस्थितियोग्यताशानविशेषादिघटितसामग्र्या भावनानव-. गाहिसंख्यान्वयबोधस्य कदाप्यजननात् । संख्यान्वयबोधसाधारणभावनान्वयबोधत्वावच्छिन्नहेत. नामपि तारशसामग्रीघटकत्वेनापत्त्यभावात् । न च ताशकारणानां भावनान्वयबुद्धिस्वं संख्यान्वयबुद्धित्वं वा जन्यतावच्छेदकमुपेयते इत्यत्र विनिगमनाविरहः। संख्यामविषयीकृत्यापि भावनान्वयबोधस्यानुभवसिद्धत्वात् । द्वितीयस्य जन्यतावच्छेदकत्वासंभवादिति दिकू । अथ गुणाविवाचकपदोत्तरद्विवचनबद्दवचनयोः कथं द्वित्वादिबोधकता संख्यागुणत्वेन गुणादी बाधात । न च तत्र स्वाश्रयसमवेतत्वादिसंबन्धेन द्रव्यगतं द्वित्वादिकमेव भासते इति वाच्यम् । एकव्यक्तावपि तादृशसंबन्धेन द्वित्वादेः परिसमाप्ततया एकमात्रतात्पर्येणापि द्विवचनाद्यापत्तिरिति चेत । अपशाबद्धिविषयत्वमेव तदुत्तरद्विवचनादिना बोध्यते । तञ्चैकमावृत्तिधर्मस्य प्रकृत्यर्थतावच्छेदकस्थले प्रकृत्यर्थतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तिसंबन्धेन प्रकृत्यर्थेऽन्वेति अन्यत्र शुद्ध पर्याप्तिसंबन्धेनेति । न द्वन्द्वादिस्थलोक्तदोष इति विदुषां परामर्शः॥ इति प्रथमा ।
इति व्युत्पत्तिवादगूढार्थतत्वालोकेमैथिलभूसुरश्रीधर्मदत्तविरचिते प्रथमालोकः ।