________________
गूढार्थतत्वालोकव्याख्यासहितः ।
१११
समभिव्याहारादिशुन्यतया तद्विषयिताया अतादृशत्वात् । चैत्रः पश्यते इत्यादितस्तण्डुलः पश्यतः इत्यादितश्चैत्रतण्डुलादिविशेष्यक संख्यान्वय बोधोत्पत्त्या चैत्रः पक्ष्यते तण्डुल इत्यत्र उभयविशेष्यकसंख्यान्वयबोधौपयिकलमभिव्याहारज्ञानविषयितायाः तइत्यादौ सत्त्वेन कर्तृकर्मणोस्तृतीयाद्वितीययोरप्रसक्तावपि न तादशवाक्यं व्युत्पन्नाः प्रयुञ्जते । कर्त्तरि साक्षात्कर्मणि च दर्शितपरंपरर्या युगपद्भावनाविशेषणकान्वयबोधजनकताया आख्यातस्यान्युत्पन्नतया तादृशवाक्यादुभयविशेषणकान्वयबोधासंभवात् । न चाकाङ्क्षायोग्यतादिसत्त्वात्कथन तादृशान्वयबोध इति वाच्यम् अगत्या एकविधान्यबोधेऽन्यविधान्वयबोधसामग्र्यास्तद्धटकतात्पर्यज्ञानस्य वा प्रतिबन्धकत्वोपगमात् । न च चैत्रेण तण्डुलः पक्ष्यते चैत्रस्तण्डुलं पश्यते इत्यादिवाक्यद्वयविषयक समूहालम्बनदशायामपि उभयविधान्वयबोधानुपपत्तिरिति वाच्यम् तादृशैकविधान्वयबोधे तादृशान्यविधान्वयबोध परत्वेनागृह्यमाण तथाविधाख्यातधर्मिक प्रकृतान्वयबोध परत्वज्ञानस्य हेतुतया चैत्रः पश्यते तण्डुल इत्यादिवाक्यातादशद्विविधान्वयबोधवारणस्य दर्शितवाक्यात्तदुपपादनस्य शक्यत्वात् । न च निरुक्त संख्यानभिधानस्य तृतीयाद्वितीयानियामकत्वे चैत्रेण स्वं दृश्यते, चैत्रः स्वं पश्यतीत्यादौ तृतीयाद्वितीययोरनुपपत्तिः । कर्त्रादिविशेष्यक संख्या प्रकारकान्वयबोधौपयिकाकाङ्क्षाज्ञानीयविषयत्व निरूपकत्वस्य तत्राख्याते सत्त्वादिति वाच्यम् कर्त्रादिपरयत्पदाख्यातपदयोः समभिव्याहारः संख्यान्वयबुद्धित्वावछिन्नप्रयोजकविषयित्वाऽनिरूपकस्तत्पदोत्तरं तृतीयाविभक्तिरित्येवं नियमोपगमेन प्रथमस्थले चैत्रपरखपदाख्यातपदयोर्द्वितीये च तत्पर चैत्राख्यातपदयोः समभिव्याहारस्यैव तद्विशेष्य कसं ख्यान्वयबोधप्रयोजकतया क्रमेण चैत्रपदखपदाभ्यां तृतीयाद्वितीययोरनुपपत्त्यनवकाशादिति चेन्न । अनभिहित इत्यधिकारे कर्तृकरणयोस्तृतीयेत्याद्यनुशासनस्य किं प्रयोजनमिति वक्तव्यम् चैत्रः पचति तण्डुलः पच्यते, इत्यादौ चैत्रतण्डुलपदाभ्यां द्वितीया तृतीययोरप्रयोग इति चेत् तर्तिक मणिमन्त्रादिन्यायेन तादृशानुशासनस्य तथाविधप्रयोगविरोधिता येन तद्भावस्तत्प्रयुक्तः स्यात् । न चैवं संभवति पचति पच्यते इत्यादिक्रियायोगे कर्तृकर्मवाचकपदानन्तरतृतीया द्वितीययोरसाधुत्वस्य तत्कर्तृत्व तत्कर्मत्वाविबोधौपयिकाकाङ्क्षादिरहितत्वादिरूपस्य प्रतिपत्तिः प्रयोजनं तस्येति चेत्तर्हि उक्त नियमपरतयापि न ततस्तल्लाभः प्रथमान्त चैत्र तण्डुल पद्तत्तदाख्यातपदयोः समभिव्याहारस्यैव चैत्रतण्डुलादिविशेव्यकतत्तदाख्यातार्थसंख्यान्वयबोधप्रयोजकतया चैत्रेण पचति तण्डुलं पच्यते इत्यादिवाक्य घटकचैव्रतण्डुलादिपदत्तिवादिपदयोः समभिव्याहारस्थातथात्वेन तद्धकतृतीयाद्वितीययोः साधुत्वस्योक्तनियमाच्यवच्छेद्यत्वात् । तस्मान्मुख्यभाक्तसाधारणकर्तृत्व कर्मत्वयोः कर्तृकर्मवाचकपदसमभिव्याहृतलकृत्तद्धितसमासैरनभिधानमेव तृतीयाद्वितीयाविनियामकं शिरोमणिभिरत्रैव निर्भरो विहितः । लादीनां तदनभिधायकत्वं च न तवाचकत्वं तनिष्ठवृत्त्य निरूपकत्वं वा । आख्यातसामान्यस्याप्याख्यातत्वेन तेत्यादिना वा कर्तृत्वादिनिष्ठशक्तिलक्षणानिरूपकत्वात् | कर्तृत्वानभिधायका ख्यातस्यैवाप्रसिद्धेः तच्छाब्दबोधौपयिकाकाङ्क्षा शून्य त्वमेव तत् । चैत्रेण पच्यते तण्डुलइत्यादावाख्यातस्य कर्तृत्वादिवाचकत्वेऽपि तच्छान्दबोधौपयिकाकाङ्गाराहित्यं तत्राक्षतमेव चैत्रादिपदोत्तर तृतीययैव कर्तृत्वबोधनसंभवात् तत्र तादृशाकाङ्क्षाया अकल्पनात् इत्यपि न । चैत्रेण पश्यते इत्यादौ तृतीयानुपपत्तेः पक्ष्यते चैत्र इत्यादितश्चैत्रादौ पाककृतेः केवलात्पश्यतइत्यादितश्च मुख्यविशेष्यतया तस्य बोधातादृशाख्यातधात्वोरानुपूर्वीविशेषाकाङ्गायाः कृतिबोधौपयिकत्वात् । न च समभिव्याहाररूपाकाचैव विवक्षणीया प्रकृते प्रकृतिप्रत्यययोरानुपूर्वीरुपाकाङ्क्षा न तु समभिव्याहार इति नोकानुपपत्तिरिति वाच्यम् तथा सति चैत्रेण पचतीत्यादावपि तृतीयायाः साधुतापत्तेः । तादृशचैत्रपदाख्यातपदयोः समभिव्याहारस्य कृतिबोधानीपयिकत्वात् चैत्रेण विजेष्यते मैत्र इत्यादौ तृतीयानुपपत्तेश्च विजेध्यते मैत्र इत्यादितः मैत्रकृतिबोधात्तादृशाख्यात मैत्रपदयोः समभिव्याहारस्य कृतिबोधौपयिकत्वात् । किं तु ततात्पर्यशून्यत्वमेव । तथा च चैत्रेण पश्यतइत्यादावाख्यातस्य कर्तृत्वादितात्पर्यकत्वे तृतीया असाधुरेव । तथाच चैत्रेण पचतीत्यादावाख्यातस्यार्थाविवक्षायां तृतीयायाः साधुत्वेऽपि परस्मैपदस्यासाधुत्वान्न प्रयोगः । परस्मैपदस्यासाधुत्वं च धात्वर्थविशेष्यस्य प्रत्ययेनाविवक्षणे भावकर्मशोरिति सूत्रेणात्मनेपद नियमात् । आख्यातार्थविवक्षायां न चैत्रेण पचते इत्यादिप्रयोगः, शबादिविकरणस्यासाधुत्वात् । कर्तृत्वतात्पर्यकसार्वधातुकयोगएव तत्साधुत्वात् । कर्तृत्वकर्मत्वोभय तात्पर्येण