________________
११०
व्युत्पत्तिवादः। न चैकवचनत्वेनानुगतेनैकत्वशक्यत्वात्तिङेकवचनस्याप्येकत्ववाचकत्वमक्षतमिति वाच्यम् एकवचनत्वस्यैकत्वशक्ततावच्छेदकतायाः प्रागेव निराकृतत्वात् अस्तु वा तेन रूपेण तिडेकवचनस्याप्येकत्वे शक्तिस्तथापि तजन्यैकत्वोपस्थितेः शाब्दबोधोपयोगित्वे मानाभावः निहि सामान्यत एकवचनज्ञानजन्योपस्थितित्वेन तच्छाब्दबोधहेतुतासंभवः । तथा सत्येकत्वेऽगृहीतसुपदवृत्तिकस्य पुंसः सुपदप्रकृतिघटादिपदोपस्थाप्यघटादौ पदादिपदोत्तरामादिपदोपस्थाप्यैकत्वाद्यन्वयबोधप्रसङ्गः किन्तु सुपदश्वादिप्रकारकशानजन्यतदुपस्थितित्वादिनैव तथा सति घटादिपदोत्तरसुपदत्वादिरूपानुपूर्वीविशेषरूपाकाङ्क्षाशानघटितायां घटादावेकत्वान्वयबोधस्य सामग्यां सुपदत्वादिप्रकारकधीजन्योपस्थितेरन्तर्भावात्तारशापत्तेरनवकाशात् । एवं तिवादिपदत्वप्रकारकशानजन्योपस्थितित्वेन तच्छाब्दबोधहेतुत्वे मानाभाव इति । यत्तु तिबादेः संख्यानभिधायकत्वे चैत्रः पचति तण्डुलं चैत्रेण पच्यते तण्डुल इत्यादौ कर्तृकर्मवाचकपदात्तृतीयाद्वितीययोरापत्तिः कर्तृकर्मगतसंख्यायाअनभिधाने कर्तृकरणयोस्तृतीये"ति “कर्मणिद्वितीये" ति सूत्राभ्यां तयोरनुशासनात् । नैयायिकमते लकारस्य कर्तृकर्मावाचकतया तदनभिधानस्य द्वितीयातृतीयानियामकत्वासंभवात् । न च कीदिगतसंख्यानभिधानमेव कथं कादिवाचकपदोत्तरतृतीयादिनियामक, चैत्रेण पच्यते तण्डुल इत्यादिस्थलेऽपि लकारस्य चैत्रादिगतसंख्याभिधायकत्वादेकत्वत्वादिना एकत्वादिसामान्यस्यैवैकवचनाद्यभिधेयत्वादिति वाच्यम् यतस्तगतसंख्यानभिधायकत्वं प्रकृते न तद्भतसंख्यानिष्ठवृत्त्यनिरूपकत्वमपि तु तद्विशेष्यकसंख्याप्रकारकशाब्दबोधाननुकूलत्वमेव तथा च कादिविशेष्यकसंख्यान्वयबोधाजनकलकारादिलमभिव्याहतकत्रादिवाचकपदात् तृतीयादयो भवन्तीत्यत्र तदनुशासनतास्पर्यम् । चैत्रेण पच्यते तण्डुल इत्यादी चैत्रादिविशेष्यकं संख्यान्वयबोधकत्वं नाख्यातस्य, आख्यातार्थभावनाया यत्रान्वयस्तविशेष्यकसंख्यान्वयबोधस्यैवाख्यातेन जननात्तादृशभावनान्वयबोधे विशेष्यश्च प्रथमान्तपदोपस्थाप्य एव । चैत्र पचति तण्डुलमित्यादौ चैत्रादिः साक्षादेव भावनाविशेष्यः चैत्रेण पच्यते तण्डुल इत्यादौ तु परम्परया चैत्रादिनिष्ठभावनाजन्यफलशाली तण्डुल इत्याकारकबोधस्यैव तत्रोदयात् । तस्मात्तिबादेरपि संख्याबोधकत्वमावश्यकमिति तन्न विचारसहम्। तथा हि कादिनिष्ठसंख्यान्वयबोधाननुकूलत्वं यदि ताशबोधोपधायकज्ञानविषयत्वाभाववत्त्वं तदा यादशतिबादिशानेन सहकार्यन्तरविरहात्ताशबोधो न जनितस्तद्योगे तृतीयाद्यापत्तेः। यदि च ताहशबोधस्वरूपयोग्यज्ञानविषयत्वाभावस्तदा यगादिसमभिव्याहृतात्मनेपदादिज्ञानस्यापि तादृशबोधस्वरूपयोग्यत्वात्तत्स्वरुपयोग्यज्ञानाविषयतिबाख्यातस्यैवाप्रसिद्धेः अथ कर्नादिविशेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकविषयित्वानिरूपकत्वमेव ताशबोधाननुकूलत्वम् चैत्रः पचतीत्यादिवाक्यघटकतिबादिविषयिता चैत्रादिविशेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नजनकता. वच्छेदिकातादृशान्वयबुद्धित्वावच्छिन्नं प्रति चैत्रादिपदसमभिव्याहृततियादिपदज्ञानस्य हेतुस्वात् । चैत्रेण पच्यते तण्डुल इत्यादिवाक्यघटकतयादिपदविषयिता चन ताशी चैत्रादिपदसमभिव्याहृतताशपदज्ञानत्वेन तारशवुद्धित्वावच्छिन्नं प्रत्यहेतुत्वात् । न च चैत्रः पचते इत्यादौ चैत्रविशेष्यकाख्याताथेसंख्यान्वयबोधोत्पत्त्या चैत्रादिपसमभिव्याहृततयादिपदशानत्वेन तादृशान्वयबुद्धित्वा वच्छिन्नहेतुताऽक्षतैवेति चैत्रेण पच्यते इत्यादिवाक्यघटकीभूततयादिपदविषयितापि तादृश्येवेति वाच्यम् चैत्रेण पचते चैत्रः पच्यते इत्यादि वाक्याश्चैत्रादिविशेष्यकस्य भावनायाः संख्यायाश्चान्वयबोधस्यानुदयात् । तद्विशेष्यकतदुभयान्वयबोधे प्रथमान्तचैत्रादिपदसममिव्याहृतशबादिविकरणोत्तरतत्तदाख्यातपदज्ञानत्वेन हेतुत्वाच्चैत्रेण पच्यते तण्डुल इत्यादिवाक्यघटकतयादीनां तादृश
-....-....-.-.-..-.".-
-
-.
....-.
-
-
.-
-
-
यद्यपीदं सुवर्थविचारे न वमुचितमप्रकृतत्वापातात्तथापि आख्यातैकवचनस्य सङ्खथार्थकत्वे प्रथमैकवचनस्य तत्समभिव्याहृतस्य नैकवचनार्थकत्वस्यान्तस्य तथात्वे स्यादित्येतदर्थमेवोक्तग्रन्थस्य प्रवृत्तत्वेन संभवतिप्रकृतत्वमितिबोध्यम् ॥ अतः परन्नकिमपिव्याख्येयमस्त्याख्यातविचारस्याग्रन्थकृताकर्तव्यतया तत्रैव तस्य कर्तव्यत्वादिति ॥