________________
गूढार्थतत्वालोकव्याख्यासहितः ।
१०९
तत्र च योग्यताविरहात् । न चैकशतेऽपि नानापुरुषीयापेक्षा बुद्धिजन्यनानाशतत्व संभवादेकशतनिष्ठशतत्वेऽपि बहुत्वान्वययोग्यताऽक्षतैवेति वाच्यम् परस्परसमानाधिकरणद्वयावृत्ति बहुत्वस्यैव शतादिपदोत्तरबहुवचनार्थत्वात् तादृशबहुत्वस्य चैकशतादिवृत्तिनानाशतत्वादौ बाधात् । अथ वा तत्रापि बहुत्वमेव बहुवचनार्थः । परस्परसमानाधिकरणद्रयावृत्तिपर्याप्तिरेवाकाङ्क्षानिरूपकः संबन्धः । यत्तु द्वे शते त्रीणि शतानीत्यादौ संख्यैव शतादिशब्दार्थः, न तु संख्येयं संख्ययस्य तदर्थत्वे “विंशत्याद्याः सदैकत्वे सर्वाः संख्येय संख्थयो” रित्यनुशासनविरोधात् द्विवचनादिसाधुतानुपपत्तेः गवां शतानीत्यादौ षष्ठ्यर्थान्वयानुपपत्तेश्च । न चाभेदः षष्ठ्यर्थः तथा सति ब्राह्मणा दश इत्यत्र ब्राह्मणानां दशेत्यपि स्यात् । अस्माकं चादशतः संख्याः संख्येये वर्त्तन्ते, अतः परं संख्याने संख्येये चेत्यनुशासनाशादिशब्दानां शतादिशब्दवत्संख्यानार्थकत्वाभावाद्दशत्वादिसंख्यायाः पदार्थतावच्छेदकत्वेन तत्र षष्ठयर्थसंबन्धान्वयासंभवेन न तथा प्रयोग इति । तदसत् । गवां शतानीत्यादौ संख्यायाः प्राधान्येन शतादिशब्दवाच्यत्वे गवां शतं दद्यादित्यादौ शतादिपदार्थस्य संख्याया दानादिकर्मत्वान्वयायोग्यतया प्रामाण्यानुपपत्तिः गवां शतं शुक्कुमित्यादौ संख्यायां शुक्लाधभेदान्वययोग्यताविरहात्तदनुपपत्तिश्च । तस्माद्दशादिशब्दा द्रवशतादिशब्दा अपि संख्यावच्छिन्नवाचका एव नतु धर्मिविशेषणतानापन्न संख्यावाचकाः स्वार्थैकदेशेऽपि संख्यायां स्वप्रकृतिकविभक्त्यर्थसंख्यान्वय साकाङ्क्षत यान्यप्रकृतिकषष्ठयर्थ संबन्धान्वयसाकाङ्क्षतथा तेषां संख्यानार्थकत्ताप्रवादः, न तु दशादिशब्दानां तथात्वं दशादिब्राह्मणतात्पर्येण ब्राह्मणानां दशेत्यादिप्रयोगविरहादिति तेषां संख्येयमात्रवाचिताप्रवाद इति "विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः संख्यायां द्विबहुत्वे स्त" इत्यनुशासनमप्युक्तार्थे तात्पर्य प्राकम् | एकद्विबहुशब्दोत्तरैकवचनद्विवचनबहुवचनानि च न संख्याबोधकानि उद्देश्यतावच्छेदकविधेययोरैक्येनैकत्वान्वये आकाङ्क्षाविरहादिति, तदुत्तरप्रथमाविभक्तिः साधुतामात्राय नित्यबहुवचनान्तायादिशब्दपरं प्रथमावहुवचनमपि क्वचिन्निरर्थकमेव, यत्रैकव्यक्तिमात्रतात्पर्येण तादृशशब्दः प्रयुज्यते तत्र बहुत्वान्वये योग्यताविरहात् । यत्तु तद्गतगु णादिसाधारणबहुत्वस्य तन्त्रान्वय इति तन्न शोभनम् प्रकृत्यर्थतावच्छेदकव्याप्यपर्याप्तिसंबन्धेनैवानेकवृत्तिसंख्यान्वयस्य व्युत्पन्नतया तादृशसंबन्धेन तथाविधबहुत्वान्वये योग्यताविरहात् अन्यथोदासीनघटपटादिसाधारण बहुत्वस्याप्यन्वयसंभवेन तद्गतगुणादिसाधारणबहुत्वानुधावनस्याकिंचित्करत्वात् । अथाजहत्स्वार्थलक्षणया गुणादिसाधारणधर्मावच्छिन्न एव प्रकृत्यर्थ इति चेत्तर्हि बहुत्वेन भासमानेषु गुणादिष्वपि पदार्थान्तरान्वयः स्यात् तथा चापो द्रव्याणि वारा अत्र गृहे सन्तीत्यादिवाक्यानामप्रमाणतापत्तिः । गुणादिषु द्रव्याभेदे गृहवृत्तितादेर्वाधात् मुख्यार्थमात्रपरतादृशशब्दानां बहुवचनान्ततानुपपत्तेश्चेति न किंचिदेतत् । अवादिपदार्थ एकत्यद्वित्वान्वययोग्यतासत्वेऽप्यसाधुत्वादेव तदुत्तरमेकवचनं न प्रयुज्यते इति ध्येयम् ।
आख्यातैकवचनस्य संख्यार्थकत्वे विवदन्ते निष्कर्षानुसारिणः । घटोऽस्तीत्यादौ सुबेकवचनादेव संख्याबोधसंभवात् चैत्रेण दृष्टो घढ इत्यादिस्थलानुरोधेन तस्य तद्बोधकताया आवश्यकत्वात् । ताकादृते तचैकस्यैवानेकतया ग्रहादिलाविधर्मितावच्छेदकस्यानेकत्तित्वेन ज्ञानम् तथाच यत्रैकमात्रवृत्तीत्यादेरयमर्थः यत्र द्विखाद्युद्देश्यतावच्छेदकीभूतो धर्मः यथाकथंचित् प्रकृतशाब्दप्रयोजकस्य स्वविषयवृत्तिनिरूपकैकव्यत्त्यन्यनिरूपितवृत्तिलानवगाह्यनेकनूत्तित्वावगाहिज्ञानस्य विषयस्तत्रैकेनाप्यन्त्रय इति घटत्वादीनामनेकवृत्तित्वावगाह्यपि ज्ञानमेकनिरूपितस्यैव न तदन्यनिरूपितस्य ऋत्तित्वस्यावगाहीति तत्रैकस्य शाब्दविषयतायुज्यत एव अथाकाशत्वादेरेकमात्रवृत्तित्वग्रहे द्विवान्वयितावच्छेदकतया काशभानमनुभवविरुद्धमिति तादृशमहाभावमानमपेक्षणीयन्त्र तन्त्राने कवृत्तित्वग्रहापेक्षेति चेन्न आकाशस्यैकतयाकाशत्वस्यानेकत्रृत्तित्वाग्रहेग्येकमात्रवृत्तित्वग्रहविरहमात्रादाकाशत्वेनैकमात्रस्याकाशस्य हि द्विलबोधविषयता युज्यते घटादीनात्वनेकत्वादुक्तग्रहविरह मात्राद्वदत्वेनैकस्य द्विलशाब्दबोधविषयताकस्य सचेतसोनुभवपथारोहिणीस्यादाकाशावित्यत्र तादृशग्रहस्थान - पेक्षल उक्तज्ञानविषयत्वैकमात्रवृत्तिलान्यतरवत्तयाधर्मोविवक्षणीय इति । आख्यातैकवचनस्य संख्यार्थकत्वइति ।