________________
गूढार्थतत्वालोकव्याख्यासहितः । कर्मणि द्वितीयेत्यनुशासनात्कर्मत्वं द्वितीयार्थः। तत्र कर्मपदस्य धर्ममात्रपरत्वात् सप्तम्या वाचक. तार्थकत्वात् । कर्मणश्च न तथात्वं कर्मणि नामार्थस्य ग्रामादेरभेदान्धयसंभवेपि धात नातदन्वयासंभवात् गौरवाच । कर्मत्वं च क्रियाजन्यफलशालित्वम् । तत्र च क्रिया धातुत एव
___ कर्मलं द्वितीयार्थइति द्वितीयामुख्यशक्यइत्यर्थः । अथामादिशक्यसंख्यासंबन्धरूपलक्षणातः कर्मलप्रतिपत्तिसंभवात्तत्र शक्तिस्वीकारो नोचितोऽनन्यलभ्यस्य शब्दार्थखादितिचेन्न शक्तिग्राहकस्य व्याकरणस्योभयत्र तुल्यतयैकत्र शक्तिरेकत्र लक्षणेत्यत्र विनिगमकस्य दुर्लभवात् अन्यथा कोषस्य शक्तिप्राहकस्यानेकार्थे सत्त्वेपि हर्यादिपदानामेकत्रार्थे क्वचिच्छक्तिरन्यत्र लक्षणैव स्यात् किंच यस्यार्थस्य यतो नियमेन प्रतीतिस्तस्यतत्र शक्तिरेवोचिता न लक्षणाभ्युपेयते हि विपरीतम् यतोऽमादितः कचित्संख्याया अप्रतीतौ प्रातिपदिकमात्रार्थे प्रथमैव स्यादिति नियमेन कर्मत्वप्रतीतेरुपेयखात् बहुघटादिदर्शनस्थल एकलाविवक्षया प्रयुक्ताटं पश्यतील्यादितसंख्यामविषयीकृत्यापि घटकर्मलबोधजननानशक्तिः कर्मत्वेऽपि तु लक्षणेति ।
धर्ममात्रपरत्वादिति । भावप्रधाननिर्देशेन कर्मवपरत्वात् मात्रपदेन तदाश्रयस्य शक्यत्वव्यवच्छेदः । अथैवं वायत्ते शब्दप्रयोगे कर्मत्वे द्वितीयेत्यभियुक्ततमो भगवान् पाणिनिः किमिति नासूत्रयदिति चेन्न कर्मणि द्वितीयेल्यस्यैव धर्मजनकखात् वर्णपदलाघवपक्षपातिलाद्वा सूत्रकर्तुस्तथाप्रणयनात् एकत्र हि णकारेकारावन्यत्र तकारवकाराकाराः एवं कर्मपदाल्लक्षणया कर्मलबोधो न्यूनविषयकः कर्मवपदाच्च कर्मवविशिष्टासाधारणधर्मत्वेन तद्विषयकतयाऽधिकविषयकः कर्मत्वस्य कर्मत्वेन भानमुभयत्र समानमित्यतोऽपि कर्मणीत्येव वक्तव्यम् किञ्च कर्मणिद्वितीयेत्युक्तौ कर्मत्वबोधिका द्वितीया कर्मबोधकप्रकृत्युत्तर साध्वीतिबोध्यते नच वाक्यभेदः कर्मबोधकप्रकृतिपदमुद्दिश्यकर्मलबोधकखसाथुखोभयविशिष्टद्वितीयाविधानात् साधुखाविधाने कर्मबोधकप्रकृत्युत्तरं लक्षणया कर्मलं बोधयन्ती प्रथमापि साधुतामापति कर्मवबोधकलाविधाने द्वितीयायाः कर्मत्वबोधकत्वमप्राप्त स्यात् घटादिपदानां घटलविशिष्टबोधकत्वस्येव व्यवहारतएव प्राप्तस्य कर्मत्वबोधकलस्यास्त्वनुवादएव तथाचोद्देश्यतावच्छेदकघटकतैव तस्योक्तबोधस्य च कर्मणीति पदावृत्त्यादिना कथञ्चित्संपाद्यत्वमवसेयम् । अथकर्मपदशक्यार्थस्य कुतोन द्वितीयाशक्यत्वमित्यत आह ! कर्मणश्चनतथात्वमिति । स्वनिष्टकर्मतानिरूपकत्वसंबन्धेनान्वयसंभवादाह । गौरवाच्चेति । अथैर्दकर्मेदंकर्मेति व्यवहारात्प्रतियोगित्वविषयित्ववदखण्ड यत्कर्मत्वमुपाधिः खरूपतस्त द्विशिष्टे शक्तौ कर्मतालविशिष्ट शक्त्यपेक्षया नास्ति गौरवम् । नच यदिदं कर्मत्वमनुगतव्यवहारानुरोधादुपगतं तस्यैकतया सर्वक्रियां प्रति सर्वस्य कर्मत्वापातऐन्द्रियकत्वे चक्षुरादिसंबन्धानन्तरमेवायं घट इतिवदिदं कर्मे तिव्यवहारापत्तिर तीन्द्रियत्वे क्रियातत्फलदर्शनादावपि स न स्यादिति वाच्यं तत्तक्रियानिरूपितस्य नियतनिरूपकनिरूप्यस्यानेकस्यैवोपगमेन दोषाभावादिति चेन पाकक्रियानिरूपितकर्मत्व एकस्मिन् मम शक्तिरेकस्मिन् तादृशकर्मतात्वे शक्यतावच्छेदकत्वं तव त्वनेकस्मिन् तण्डुलद्विदलादौ शक्तिः शक्यतावच्छेदकतैच परमेक स्मिन्निति गौरवस्य व्यक्तत्वात् । नचैवंविथेन गौरवेण गोघटादिपदानामपि गोत्वघटत्वादिष्वेव शक्तिः स्यानतु गोत्वादिविशिष्टइति वाच्यं स्वरूपतोगोत्वादौ शक्त्यसंभवाद्रोत्वत्वस्य शक्यतावच्छेदकत्वेऽतीवगौरवात् गोत्वादेरेकत्वेन खतएवानुगततयानुगमकशक्यतावच्छेदकं बिनाऽपि शक्यत्वेपि गामानय गौर्नश्यति गौर्गच्छतीत्यादीनां गोत्वस्यानयनकर्मत्वनाशादिप्रतियोगित्वादेः स्वरूपतः शाब्दमुख्यविशेष्यत्वस्य चासंभवेनागत्या गोत्वादिविशिष्टे शक्त्युपगमात् प्रकृते च तादृशानुपपत्तरभावेन द्वितीयायाः कर्मत्वएव शक्त्यभ्युपगमात् वस्तुतस्तु कुप्तपदार्थप्वन्तर्भावासंभवादखण्डोपाधेः कस्यचिदभ्युपगमो नान्यथाऽवतु प्रकृतधात्वर्थक्रियाजन्यस्य प्रकृतधात्वर्थतावच्छेदकस्य वा फलस्याश्रयत्वेन कुप्तेनैवकर्मत्वव्यवहारोपपत्तेरखण्डोपाधौ तत्र मानाभावः । नच यत्र मते धातूनां व्यापारमान्ने शक्तिस्तत्र नोक्तकर्मत्वस्य संभव इति वाच्यं प्रकृतधातुप्रयोज्यविषयताविशिष्टतात्पीयविषयतानिरूपितविषयताश्रयफलाश्रयत्वस्य प्रकृतधातुकर्मलरूपताया वक्तुं शक्यत्वात् इदं द्वितीयादिकं गम्यादिधाखर्थव्यापारनिष्ठविषयतानिरूपितसंयोगादिनिष्ठविषयताकबोधं जनयतु गम्यादिधातुर्वा संयोगादिविषयतानिरूपितव्यापारनिष्टविषयताकबोधं जनयत्वितीच्छायास्तात्पर्यात्मिकायास्सत्त्वात् एतेन क्रियाजन्यफलाश्रयत्वस्य कर्मत्वे विभागरूपफलमादाय पूर्वदेशस्य तथात्वापत्तिरिति निरस्तम् । तात्पर्यस्याहेतुत्वे प्रकृतधातुप्रयोज्य विशेष्यतानिरूपितद्वितीयाप्रयोज्यप्रकारताश्रयफलवत्त्वं तद्वाच्यं तथाच तदादिवत्प्रकृतधात्वर्थतावच्छेदकतावच्छेदकखोपलक्षितधर्मावच्छिन्न एकैव शक्तिः वरूपतः संयोगत्वादिविशिष्ठे शक्तिग्रहात्तादृशस्योपस्थितिः स्वरूपतः संयोगत्वादिविशिष्टे नानैव वा शक्तिर्मम । तव तु तादृशधर्मावच्छिन्नविशिष्ट एका संयोगादिविशिष्टे नानावेति कर्मत्वशक्त्यपेक्षया कर्मशक्तौ गौरवं हि स्फुटम् । ममत्वाधेयत्वं जनकलच्च संसर्गस्तव तादात्म्यं स्ववृत्तिसंयोगजनकत्वञ्च संसर्ग इत्यपि गौरवमवसेयम् आधेयत्वे द्वितीयायाः शक्तिपक्षे लाघवत्यधिकं स्फुटमेवेति भावः।
क्रियाजन्यफलशालित्वमिति । ननुकाशींगच्छन् पथिमृत इत्यादी काश्याःकर्मत्वं न स्याद्गमनजन्यसंयोगानाश्रयत्वादिति चेन यथाहि रथादेः क्रियाजनककृत्यभावेन रथोगच्छतील्यादावमुख्यमेष कर्तृत्वं तथा काश्यादेरपिक्रियाजन्यफलानाश्रयत्वेना
१५ व्युत्प.