________________
१००
व्युत्पत्तिवादः । लक्षणैवोचिता । शक्यलक्ष्ययोः परस्परमन्वयोपगमे क्षतिविरहात् । प्रथमाविभक्तेः कुत्रापि शक्तेरलप्ततया तस्याः शक्यसम्बन्धरूपा लक्षणा न संभवति । द्वितीयादेः कर्मत्यादी शक्तत्वेऽपि तारशविभक्तेस्तत्समभिव्याहतप्रकृतेर्वा संख्यायां लक्षणा इत्यत्र विनिगमकं दुर्लभम् न चैकत्वाद्यन्वयबोधे घटपदादिशानजन्योपस्थितित्वेनानन्तहेतुताकल्पनमपेक्ष्य स्वादिपदशानजन्यतदुपस्थितित्वेन कति. पयहेतुताकल्पनायां लाघवात्कतिपयशक्तिकल्पने गौरवमकिंचित्करम् सामान्यतः पदवृत्तिझानजन्यतदुपस्थितित्वनैककारणताकल्पनन्तु न सम्यक निर्विभक्तिककुम्भपदादितः संख्योपस्थिती सदगृहीतवृत्तिकघटादिपदे तत्तद्धिभत्त्यन्तत्वज्ञानवतः पुंसो घटादौ संख्यान्वयबोधप्रसङ्गात घटपटादिशामजन्यैकत्वाधुपस्थितित्वेनैकत्वादिविषयकशाब्दयोधहेतुतां कल्पयित्वा विभक्तिघटादिपदानुपूर्वीक्षानतादशोपस्थित्योः परस्परसहकारेण फलजनकताया अवश्याभ्युपेयत्वादिति वा
शार्थप्रतिपत्तिस्वीकारेगौरवमात्रफलकस्य तात्पर्यज्ञानकारणवस्य शपथमात्रनिर्णयक्षणविलम्बस्य मानसाविसामय्याश्चकल्पनवाचो. युक्तिरुचितावभासेततदन्तेवासिनमृते कस्यविचारकुशलस्य तस्मात्प्राकरणिकस्याप्राकरणिकस्यच सर्वस्यार्थस्यभवत्येवशाब्दबोध इति न तत्र तात्पर्यज्ञानंकारणं किन्तु प्रामाणिकत्वाप्रामाणिकल निर्णये तदुपयोगि यस्यहि वाक्यस्य तात्पर्य विषयी. भूतोर्थो न बाधितस्तत्प्रमाणमन्यदप्रमाणमतएवच प्रामाणिकत्वमहातप्रवर्तकाभिप्रायपहायत्तप्रवृत्तिनियमस्यापिनिर्वाहः । एवं शाब्दसामग्रीप्रतिबन्धकतायामपि भवत्तिलाघवमेवमेतस्माद्वाक्याच्छतोयमर्थोत्राप्यस्ति ते तात्पर्यन्नवेत्यादिवाचोयुक्तिरम्यक्लेशेन भवत्युपपादितेति प्राहुः । लक्षणेवोचितेति । कप्तशत्यावाक्यार्थबोधनिर्वाहे सति च तात्पर्यानवधारणे लक्षणाया अनौचित्यम् । लक्षणयावाशक्तिकल्पनया वा वाक्यार्थबोधे उपपादनीये शक्तिःकल्पनीया तस्याउपस्थितिद्वाराशाब्दानुकूलज्ञानविषयत्वंचेति तदपेक्षया कुप्तशक्यार्थसंबन्धरूपायालक्षणायाउपस्थितिद्वाराशाब्दानुकूलज्ञानविषयत्वकल्पने लाघवमितितस्यानानौचित्यमिति भावः । क्षतिविरहादिति । नवृत्तिद्वयोपस्थापितार्थयोरेकशब्दस्य शाब्दमतौ भाने अत्र घटपटौस्तइति वाक्यविषये घटौस्तइतिवापटौस्तइतिवावाक्यं कदाचित्प्रयुक्तं नायुक्तंभवेदितिवाच्यमेकश्रुत्योपस्थापिताधयोरप्यन्वयखीकारेहरिरित्यस्याश्वाधिष्ठितसप्ताश्वपरस्ययुक्तलप्रसंगेसत्यप्याकालावैचित्र्येणैवयथाकचित्तत्स्वीक्रियते तथैवाकाडावैचित्र्येणेवप्रकृतेऽपितत्वीकारेक्षतिविरहात् । स्वीकृतविचित्राकाहाया अन्यत्राभावेनानिष्टप्रसञ्जकाभावादिति भावः । ननु लक्षणापिप्रथमाया एवास्तु न तत्र युगपहृत्तिद्वयप्रसंगो नवात्यन्तपारार्थ्यप्रसंगोऽपि कस्यचित्पदस्थत्यतआह् । प्रथमाविभक्तरिति । अक्लप्ततयेति । इदंच विशेषणविभक्तेरभेदार्थकत्वाभावपक्षे अभेदार्थकतामते तु विशेषणविभक्तिवाद्यग्रहे सुलादिमात्रग्रहेऽपि शाब्दबोधोपपत्तये मुखादिनैव शक्तत्वस्य वाच्यत्नाद्विशेष्यविभक्तरपिशक्तिर्दुरैव । तादात्म्याप्रतीतिश्च ततः प्रतियोग्युपस्थापक पदाभावाग्निष्प्रतियोगिकस्य तस्यांब्यावर्तकत्वेनाबुभुत्सितलादितिबोध्यम् । कर्मत्वादीशक्तत्वेपीति । यथेयमुक्तिः कथंचित्संगच्छते तथोक्तमधस्तात् । लक्षणेत्यत्रचिनिगमकंदुर्लभमिति । नच लक्षणाशक्यसंबन्धारिमका साच युगपदेवास्तिद्वयो. रपीतिकथं तत्रविकल्पावकाश इतिवाच्यं गृह्यतइतिशेषात् तथाच घटमित्यादौ एकतरलक्षणाग्रहोत्पत्तिप्रतिबन्धकविशेषकल्पनस्याप्रामाणिकलात् विनिगमकाभावादुभयलक्षणाप्रहध्रौव्ये तत्रैकत्वोपस्थितेः कुप्तया घटपदलक्षणाग्रहजन्यैकलोपस्थितित्वेन हेतुतयैव निवाहेऽमादिलक्षणाग्रहजन्योपस्थितित्वेन हेतुत्वं न कल्पनीयं यद्यमादिलक्षणाग्रहमात्रस्योत्पत्ती स्याद्विनिगमकं तदा तत्रैकत्वशाब्दबोधनिर्वाहायामादिपदलक्षणाजन्योपस्थितित्वेन हेतुलं दुर्वारं स्यात्स्याच विभक्तेन संख्याबोधकत्वमपि तु तात्पर्यप्राहकत्वमेवेत्यभ्युपगतपक्षस्यहानिस्तनास्तीतिभावः। यतुलक्षणेति । शक्यसंबन्धात्मिकावृत्तिरित्यर्थः । वृत्तित्वं च शाब्दबोधानुकूलसंबन्धलम्ातथाच प्रथमास्थले यथाप्रातिपदिकलक्षणायाएववृत्तित्वे विशेषदर्शिनां प्रथमालक्षणामहासम्भवोविनिगमकम् तत्स्थलेविभक्तिलक्षणाग्रह विरहस्योभयमत सिद्धत्वेन प्रातिपदिकलक्षणाग्रहस्य हेतुताया अवर्जनीयलात् प्रातिपदिकलक्षणाग्रहविरहस्थलस्यचोभयवादिसिद्धलाभावात प्रथमालक्षणाभ्रमस्थलेपि प्रातिपदिकलक्षणाग्रहसंभवात्। नैवं द्वितीयादिस्थले तत्र प्रातिपदिकलक्षणाग्रहस्येवामादिलक्षणाग्रहस्यापिविशेषदर्शिनांसंभवात् प्रतिबन्धकवशाच्चोभयोरपि परस्पर विविक्तस्थलस्य हेतुत्वसाधकस्स संभवात् एवंच द्वितीयादिस्थलेचोभयस्य बोधकत्वेपि प्रथमास्थले प्रातिपदिकमात्रबोधक विभक्तिस्तु तात्पर्यग्राहिकैबेतिभाव इतिव्याख्यानं तनातिमनोरमम् अप्रामाणिकप्रतिबन्धककल्पनासद्भावात् अमादिलक्षणायाः सामानाधिकरण्यात्मकगुरुसंबन्धघटितत्वेन साक्षात्संबन्धात्मकप्रातिपदिकलक्षणाया लाघवस्य विनिगमकस्य सद्भावाच । नच संबन्धत्वेनैवविषयतायाः करणतावच्छेदकलागौरवमकिंचित्करमितिवाच्यम् अधिकपदार्थघटितसम्बन्धस्यलक्षणात्वेतच्छाब्दबोधप्रयोजकतायाअधिकपदार्थे कल्पनीयतयागौरवात् तात्पर्यनिर्णयस्थलएवतगौरवस्याकिंचित्करखात् । किञ्चविभक्तिमात्रसंख्याद्योतकवोपक्रमे प्रथमामात्रस्य तझ्यवस्थापने हि सन्दर्भविरोधः शक्तत्वेपीत्यपिस्वारस्यस्यापिहिन सामन्जस्यम् एवं घटःप्रमेयइत्यादिस्थलोपदर्शितावश्यकताकहेतुभावायाः प्रकृतिजन्यैकत्वोपस्थितेर्विलम्बन शान्दविलम्बो युज्यते नत्यतथाभूतायाः प्रत्ययजन्योपस्थितेरिति प्रत्ययजन्यैकली.