________________
गूढार्थतत्वालोकव्याख्यासहितः ।
faeifदपदज्ञानादन्वयबोधवारणायावश्यकल्पनीयतया संख्यावाचकप्रकृतेरिव तदवाचकविभक्तेरपि संख्यान्वयबोधकत्वप्रकारकेच्छाविषयत्वरूपतादृशबोधपरत्वसंभवेन विभक्तिधर्मिकतज्ज्ञानहे तुताया विनिगमनाविरहेणावश्यकत्वात् । अथ स्वादीनां संख्यावाचकत्वकल्पनापेक्षया प्रकृतेस्तत्र विषयकत्वे सतिघटइत्यानुपूर्वीज्ञानत्वेनैकं कारणत्वं कल्पनीयं तत्र यद्यपि षोडशकार्यकारणभावाः प्रसज्यन्ते तथापि शाब्दसामग्रीप्रतिबन्धकतास्थले ज्ञानद्वयस्य सामय्यां प्रवेशे विशेष्यविशेषणभावविनिगमनाविरहप्रयुक्तप्रतिबन्धकताबाहुल्यस्य न प्रसंगः भचव्यासज्यवृत्त्यवच्छेदकला स्वीकारपक्ष एकविशेषितापरस्यैवावच्छेदकत्वस्य वाच्यतया विशेष्यविशेषणभावन्यत्यासात्तवपक्षे द्वात्रिंशतस्तस्य प्रसंग इति वाच्यम् खन्तनीलपद विशिष्टघटपदज्ञानस्याव्यवहितोत्तरत्वान्यवहितपूर्वत्वरूप संबन्धद्वयभेदाद्वैविध्यं तथैव स्वन्तघटपदविशिष्टखन्तनीलपदज्ञानस्यद्वै विघ्यमिति विषयत्वविशेष्यविशेषणभाववैपरीत्यप्रयुक्तं यत्रहि तवाष्टौ तत्र ममतु द्वैविध्यमेव । नच संबन्धस्यान्यतरत्वेनैव प्रवेशइति वाच्यमव्यवहितोत्तरत्वलादिनातदवगाहिज्ञानासंग्रहापत्तेः अन्यतरनिष्टत्वेन तत्प्रवेशस्यकालिकत्वादिना तदवगाहिज्ञानसंग्राहकत्वेन वक्तुमशक्यत्वात् अन्यतरत्वेन संसर्गावगाहिज्ञानस्यापि कारणत्वस्यात्रानुभविकत्वेन तद्घटितस्यापि कारणत्वचतुष्टयस्य स्यादप्यधिकस्य प्रवेशइति । अथ सांसर्गिकविषयताया मध्यपातितया खन्तनीलविषयतानिरूपिताव्यवहितोत्तरत्वत्वावच्छिन्न सांसर्गिक विषयतानिरूपितवन्तघटपदविषयताकज्ञानत्वादिरूपेण त्रितयमेव कारणत्वमिति चेत्सत्यम् तथापि तव गुरुधर्मावच्छिन्नषट्कारणत्वानि ममतु लघुधर्मावच्छित्रं द्वयमेवमूलभूतं वृद्धिचिन्तायां तु कियदाधिक्यमिति खयमेवविचारणीयमेवमेव च तण्डुलं पचति चैत्रइत्यादिस्थलेपि च कारणत्वं निर्वाच्यमत्र चव्यवधान कृतोदोष आसत्त्यैवपरिहरणीयः तत्तत्पदजन्यपदार्थोपस्थितीनां ह्येकत्रसमाजे संपन्ने पदानि व्यवधानेनाव्यवधानेनतदुभयौदासीन्येन वा ज्ञायन्ताम्न ततः किंचिदपि हीयते कारणानां व्यापारसंमिलन मेवहि संमिलनम् कारणतावच्छेदकसंबन्धपक्षेपि तृतीयएवाभ्यर्हितः शाब्दसामग्रीप्रतिबन्धकतालाघवस्य संभवात् उपस्थितेः स्वातन्त्र्येणकारणत्वेतदाधिक्यात् प्रतिबन्धकतायाः सामभ्यामधिकपदार्थप्रवेशे विशेष्य विशेषणभावव्यत्यासप्रयुक्ताधिक्यस्य दुर्वारखात् यदि तस्याः कारणताग्राहकःस्वातन्त्र्येणान्वयव्यतिरेकप्र हस्स्यादानुभविकस्तदाभ्युपगम्य तांकारणत्वं न नोस्तिविद्वेषः संबन्धविषयत्वेनापि हि तस्य लब्धपदत्वेविशेषणज्ञानकारणता परिच्छेदकत्वेनैव वाकृतार्थत्वे मास्त्वेववाकारणत्वं व्यापारकारणतालोपविभीषिका तु लाघबानुभवदृढीकृतसाहसान्प्रतिन किंचित्करीत्यलमनप्रसंगागत विचारबाहुल्येन । आवश्यकत्वादिति । ननु तात्पर्यज्ञानस्य कारणवएवेदसंभवति तत्रैव न मानमिति चेदत्रप्राश्चः सैन्धवमानयेत्यादिनानार्थ स्थलेलवणाश्वयोरुपस्थितावप्येकस्यैव कस्यचिदर्थस्य शाब्दबोधविषयत्वमित्यत्र नियामकं किंचित्कल्पनीयं तदेवच तात्पर्य तज्ज्ञानस्याकारणत्वे तस्य नियामकलासंभवात् तत्र तात्पर्यज्ञानकारणम् नचनियमएवमानाभावः शब्दश्रवणानन्तरंनियतार्थगोचरप्रवृत्तेरेवमानत्वात् शब्दस्यच तदर्थत्वात् यत्रार्थेप्रवृत्तिस्तस्यैवहिशब्दव्यापारगोचरत्वमुचितम् शब्दस्यचनबोधादन्योस्तिव्यापारः । नचस्मृतिर्भवत्यसाधारिणी संस्कारोद्बोधकसत्त्वनियतोत्पत्तेस्तस्याअसाधारणवासंभवात् संयोगविप्रयोगादिज्ञानानांनियामकत्वस्यादृष्टचरकल्पनाप्रसंगेनासंभवात्रहिसंस्कारोद्बोधकसमबधानेस्मृतेर्विलम्बः क्वापिदृष्टः तस्मात्संयोगादिग्राहिततात्पर्येणनियन्त्रितोबोधएवतथावाच्यो येनप्रवृत्तिनियमोपपत्तिः किंचान्यार्थपरत्वज्ञाने तदर्थबोधानुदयस्य सर्वानुभवसिद्धत्वात्तदर्थबोधेऽन्यार्थपरत्खज्ञानस्य प्रतिबन्धकत्वेतदभावस्य कारणत्वेच गौरवात्तदर्थतात्पर्यज्ञानस्यैव हेतुत्वंवाच्यम् नचतत्कारणप्रकरणज्ञानस्यैव कारणत्वमितिवाच्यम् प्रकरणादीनामनेकत्वेनानेककारणत्वापातात् नचैत्रमपिनानार्थंस्थलएवास्तुतत्कारणमिति वाच्यम् । यद्विशेषयोरितिन्यायेन सर्वत्रतत्सिद्धेरित्याहुः नव्यास्त्वेके तात्पर्यज्ञानस्यकारणत्वेपिसैन्धवमानयेतिवाक्यत्वावच्छिन्नधर्मिकलवणाद्यर्थपरखज्ञानत्वेन न करणत्वमवच्छेदकावच्छेदेन त ब्रहस्यनियमेन भ्रमखात् विशेषदर्शिनामसंभवात्सामानाधिकरण्येनग्रहस्येदं वाक्यं नलवणपरिमितिविग्रहे पिसंभवेनतदानीमपितच्छाब्दबोधापत्तेः किंत्विदं वाक्यमेतत्परमितिज्ञानत्वेनैवकारणत्वंवाच्यं तच तत्तद्वाक्यव्यक्तिभेदेनभिन्नमितितत्कारणी भूतप्रकरणादिव्य तेरेवतत्वमुचितमावश्यकत्वाद्वैौरवाभावात् प्रत्युत तात्पर्यज्ञानकारणत्व एवनियमेनतत्कल्पनेनक्षणविलम्ब कल्पनेनचगौरवप्रसंगादितितात्पर्यज्ञानत्र कारणमन्यार्थपरत्वग्रहस्थलेतदर्थं निस्तात्पर्य कत्वग्रहस्थलेचानिष्टनिवारकतयोरी क्रियमाणतात्पर्य हृकारणप्रकरणादिग्रहव्यक्तिविलम्बाभावाभ्यामेवास्माकमपिशाब्दविलम्बानुत्पत्त्योरुपपत्तिसंभवइतिवदन्ति । नचात्रपक्षेप्रकृतग्रन्थासंगतिरिति वाच्यम् प्रकृतप्रन्थस्यविभक्तिसंख्यावाचकत्वमतेऽधिककारणत्वाभाव एवमुख्यतात्पर्यात्तस्यचात्र पक्षे सर्वथैवनिर्वाद्दात् । परे पुनस्तात्पर्यज्ञानस्म कारणत्वे मूर्खका चरितवाक्यस्थलेशाब्दानुपपत्तिः नन्वशिक्षकतात्पर्यज्ञानान्निर्वाहः प्रत्युदारणंवाक्य भेदात् नचानुपूर्यैक्याददोषः तथासति चैत्रगृहीत लवणतात्पर्यकशिक्षक पुरुषीयसैन्धवमानयेतिवाक्यमूलकगमनावसरप्रयुक्तमैत्रीय सैन्धवमानयेतिवाक्ये लवणतात्पर्याभावनिश्चयेपि स्मृतलवणतात्पर्यस्य चैत्रस्य लवणशाब्दबोधापत्तेस्तदुरुद्धरत्वात्किञ्चाप्राकरणिकार्थस्य सर्वथैवानवगमे सुरभिमांसभक्षयेतिवाक्यश्रवणानन्तरमुपहासाद्यनुपपत्तिः व्युत्पन्न-चैत्र निर्णर्तिकार्थशक्तिग्रहविरह पुरुषोच रितघुणाक्षर न्यायसम्पप्रश्लिष्टवाक्याज्जाततदर्थतात्पर्यविरहग्रहस्यापि चैत्रस्य तदर्धग्रहजनितानन्दप्रशंसा विस्मयादीनामन्यथानोपपत्तिः विष्टार्थान्तरवनिनिर्वाहाय तादृशकाव्ये सहृदयकविसंरम्भानुपपत्तिश्च । नचतत्रमानसाद्व्यक्तिजाद्वाबोधान्निर्वाहइतिवाच्यं नियमेनताह
९९