________________
व्युत्पत्तिवादः। विभक्तिधर्मिकस्य च संख्याप्रकारकान्वयबोधपरत्वज्ञानस्य हेतुता कल्पनीया । विभक्तोतकत्वमते तु विभक्तितात्पर्यविरहेण प्रकृतिधर्मिकमेव तात्पर्यज्ञानं तादृशान्धयधीहेतुरिति लाघवमिति चेन्न । विभक्तेः संख्यावाचकताविरहेऽपि प्रकृतिविभत्तयोरानुपूर्वीशानस्य तादृशान्वयबोधहेतुताया निर्विभ
. वस्तुतस्तु तण्डुलः पचति चैत्रणेत्यादावयं पदसंघातो न तण्डुलकर्मकपाककृतिमचैत्रबोधे समर्थ इति नैकं वाक्यमिति ग्रहेपि निरुक्तेच्छोचरितलग्रहसंभवान्न तस्यैकवाक्यलरूपलमविसंवादितथाविधेच्छोच्चरितवं यथाकथंचिद्भवति तदात्मकमुक्तासामर्थ्यनिश्चय इच्छायां विसंवादित्वग्रहेण तद्रहासंभवोपपतेः परन्तु विवक्षिततथाविधैकवाक्यलसत्त्वासत्त्वग्रहाग्रहप्रयोजकविवेके विव. क्षितार्थप्रतिपत्तिजननयोग्यपदसमूहत्वमेव तथाव्यवतिष्ठतइति तस्यैवैकवाक्यत्वरूपलमुचितम् तब्रहश्च कारणस्य कारणलग्रहरूपः सच कार्यजननेनापेक्षितस्तव्यतिरेकप्रहोपिचानुत्पादेन हिकारणत्वेन ज्ञानमेव कार्य जनयत्यकारणत्वेन ज्ञातन्नेत्यनुभवविरोधात किन्तु कार्यकारणसंपादने प्रवर्तमानस्य कचित्प्रवृत्ती क्वचिनिवृत्तौ च तथेतिवक्तुरेवैकवाक्यखतद्विरहप्रहौ स्याता किंचित्करी न श्रोतुरिति नास्त्येव समभिव्याहारज्ञानकारणखकल्पनस्यावकाशः अनुभूयतेपिच येन कदाचित्तण्डुलंपचतीतिप्राथमिकवाक्यात्तदोज्ञातः कालान्तरेच गृहीताव्युत्पन्नभावादुचरितं तथैव वाक्यं शृण्वन् कथंचिदनेनोक्तन्न प्रकृतार्थतात्पर्येणेति खतः नचेदमेकवाक्यमिति परवाक्याचानेकवाक्यतया परिच्छिन्दन्नपि वाक्यार्थमनुभवत्येव सः प्राग्वतूसंपन्नसामग्रीकलात् नच प्रागेकवाक्यत्वनिश्चयो विशेषः मानाभावात् तद्वाक्यात्कार्यजन्मोत्तरं प्रत्यक्षप्रवृत्तेस्तेन प्रागेव कार्यकारणभावघटितैकवाक्यत्वस्य प्रहासंभवात् प्राथमिकलादेवच जनितकार्यजातीयखस्याप्यग्रहेणानुमानासंभवात् गुरुतरानुमितिसामभ्या असुलभत्वाच्च तस्माद्वाक्यखरूपं यदर्थबोधस्वरूपयोग्य वस्तुतस्तद्रहणमव्यवधानेन पदार्थानामुपस्थितिरितिद्वयमेवाविप्रतिपन्नं शाब्दसामग्रीतिव्यवस्थितम् विप्रतिपन्नंच योग्यताशानं तात्पर्यज्ञानं चेत्यतएव तात्पर्यज्ञानस्याहेतुलपक्षे तात्पर्यज्ञानेनैकवाक्यताविरहनिश्चयकाले निरुक्तशाब्दापत्तेर्वारणासंभवादावश्यकमेव समभिव्याहारज्ञानस्य कारणलमित्यपिनिरस्तम्। ननु नचेत्समभिव्याहारघटिताकालाज्ञानं कारणमभिमतं पाक अत्रच तदुक्तिर्भूयः कथं संगच्छतेइतिचेदेकपदेऽपरपदवैशिष्ट्यमात्रस्य समभिव्याहारपदार्थलाभिप्रायेण वस्तुतस्तज्ज्ञानस्यापि नास्त्येव कारणत्वं किन्वानुपूर्वीज्ञानस्यैव तथाहि नीलपर्यायचतुष्टयं घटपर्यायचतुष्टयं चाश्रित्याकाहाज्ञानकार्यकारणभावविचारे क्रियमाणे नीलोघटइत्यादिवाक्यज्ञानानां द्वात्रिंशत्कारणतापर्यवसानम् आनुपूर्वीज्ञानानां च नीलइत्यादीनामष्टावेव कार्यतावच्छेदकं चाव्यवहितोत्तरत्वमात्रमन्यवहितोत्तरलविशेषितनीलखावच्छिन्नविषयकशाब्दलमव्यवहितोत्तरख विशेषितनीललावच्छिन्नप्रकारतानिरूपितघटखावच्छिन्नविशेष्यताकशाब्दलं वा कारणतावच्छेदकश्च संबन्धः समवायमानं नीलपदवृत्तिज्ञानस्यजन्योपस्थितिः सहकारिणी स्वविषयनीलपदवृत्तिज्ञानजन्योपस्थितिमत्त्वसमवायोभयसंबन्धो वा खीयनीलपदवृत्तिविषयतानिरूपितनीलविषयताप्रयोज्यविषयताकवखसामानाधिकरण्योभयसंबन्धेन खविशिष्टोपस्थितिमत्त्वमात्रं वा वृत्तित्वस्याननुगतत्वे तद्भेदेन यावान्परमतेकार्यकारणभावसावानेव ममापि किन्तु वृत्तिविशेषघटितोपस्थितिघटिताव्यव. हितोत्सरलविशेषसंबन्धेन तत्तदानुपूर्वी ज्ञानविशिष्टत्वस्यैव कार्यतावच्छेदकत्वं बोध्यम् । नच नील:घटमित्यानुपूर्वीद्वयज्ञानवतां कुतोननीलाभेदान्वयबोधः प्रत्येक द्वयोरपिकारणत्वाद्विशिष्टज्ञानकारणतामतेतु तादृशविशिष्टज्ञानस्याकारणलात्कारणत्वेन कुप्तयोनीलोघटोनीलं घटमित्याकारकज्ञानयोरभावादितिवाच्यम् तन्मतेपि व्यभिचारवारणाय खखाव्यवहितोत्तरत्वावच्छिन्नं प्रत्येव विशिष्टज्ञानानां कारणतायावाच्यत्वेनापाद्यमानशाब्दबोधस्य तदनुत्तरतया तत्र तादृशकारणविरहस्याकिंचित्करत्वेपि तत्तद्विशिष्टज्ञानाव्यवहितोत्तराभेदान्वयबोधस्यैव प्रसिद्धत्वेन तत्तज्ज्ञानघटितैव सामग्री फलव्याप्तत्वेनकुप्ता नतु नीलोघटमितिज्ञानघटितापि काचित्सामग्रीति वस्तुतः सामग्यभावान्नतत्रापत्तिरितिवाचोयुक्तिः परेषामिवास्माकमपि नीलइतिज्ञानाव्यवहितोत्तरश्चान्वययोधो घटःकलशइत्यादिज्ञानाव्यवहितोत्तरत्वेनैव घटमितिज्ञानाव्यवहितोत्तरश्च नीलंकृष्णमित्यादिज्ञानाव्यवहितोत्तरत्वेनैव कुस्तइतिनीलइतिघटइतिज्ञानद्वयादिघटिता नीलमितिघटमितिज्ञानद्वयादिघटितैव च सामग्रीफलव्याप्तत्वेन कुप्तेति नीलःघटमित्यत्रकुप्तफलोपधायकसामध्यभावान्नापत्तिरित्यस्तिवाचोयुक्तिः युज्यतेचैतत् यत्कार्यस्ययावत्कारणकार्यतावच्छेदकाक्रान्तत्वं तावत्कारणसद्भावादेव तदुत्पत्तियुक्तेतिनीलइतिज्ञानाव्यवहितोत्तरशाब्दमात्रस्य च घटइतिकलशइत्यादिज्ञानानांयस्यकस्यचित्कार्यतावच्छेदकेन तत्तदव्यवहितोत्तरत्वेनाकान्ततया तेषामन्यतमाभावे तस्योत्पत्सेरयुक्तलात्कार्यतावच्छेदकेयूक्तेषूत्तरस्यैव तत्त्वं युक्तिमत्पूर्वकल्पयोः पदार्थद्वयसंसर्गभानस्यानियम्यत्वप्रसंगात् शोभनस्तण्डुलंपचति चैत्रइतिवाक्योत्तरशाब्दबुद्धेः शोभनइतिज्ञानाव्यवहितोत्तरत्वातण्डुलमितिज्ञानाव्यवहितोत्तरत्वाच्च तदुभयज्ञानघटितसामव्युत्तरशाब्दबोधस्य चैत्रशोभनतादात्म्यावगाहित्ववच्छोभनतण्डुलतादात्म्यावगाहित्वस्यापि प्रसंगाच तदुभयसंसर्गभानस्य तदुभयोपस्थितौ योग्यताज्ञानेऽयोग्यत्वनिश्चयविरहे वा तत्तदुपस्थापकतत्तदानुपूर्वीहानसहकृत एव वक्तव्यत्वात्प्रकृतेपि तत्सम्पत्तेर्विद्यमानखात् उत्तरकल्पे च शोभनाभिन्नतण्डुलशाब्दबुद्धेर्नियमेन तण्डुलमितिशोभन मिल्यादिज्ञानद्वयस्य शोभनइतितण्डुलइत्यादिज्ञानद्वयस्यैव च कार्यवावच्छेदकाक्रान्तत्वात्तदुभयै. कतरपटिताया अपि सामथ्या अभावेन प्रयोजकाभावाच्छोभनतण्डुलतादात्म्यावगाहित्खप्रसंगासंभवात् शोभनचैत्रतादात्म्यावगाहित्वप्रयोजिकायाः शोभनइतिचैत्रइतिज्ञानद्वयघटितसामग्याः सत्त्वेन तत्संपत्तिसंभवाश्च । वस्तुतस्तु नीलइत्यानुपूर्वी.