SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ गूढार्थतत्वालोकव्याख्यासहितः । १०१ व्यम् । घटादिपदस्यैकत्वादौ लक्षणाग्रहणसत्वे घटः प्रमेय इत्यादिवाक्यादेकत्वं प्रमेयमित्याद्यम्ययबोधस्य सर्वसंमततया तदनुरोधेनैकत्वादिविषयकशाब्दबोधे घटादिपदजन्यैकत्वाद्युपस्थितित्वेन हेतुतायाः सर्वसंमतत्वात् । मैवम् यादृशयादृशपदानां लक्षणया एकत्वादिशाब्दधीजनकत्वं नोभयवादिसिद्धं तादृशानन्तपदज्ञानजन्यैकत्वाद्युपस्थितीनां तच्छान्दहेतुत्वकल्पनं प्रकृतेः संख्यावाचकतावादिनामधिकमिति तत्कल्पनापेक्षया चाल्पतरस्वादिपदजन्यैकत्वाद्युपस्थितिहेतुताकल्पनमेव लाघवम् । एतेन संख्याविशेषावच्छिनघटादिर्लक्षणया प्रकृतेरर्थः न तु संख्याविभत्यर्थः शाब्दबोधे विभक्तिजन्यसंख्योपस्थितिहेतुताकल्पनाधिक्येन गौरवात् । घटादिपदस्यैकत्वादिकि शिष्टघटाद लक्षणाग्रहदशायां सर्वमतएव तज्जन्यविशिष्टविषयकोपस्थित्या विशिष्टविषयकशाब्दश्रीजननात्तथाविधोपस्थितिहेतुतायाः सर्वानुमतत्वात् । पदान्तरासमभिव्याहृतादूघट इत्यादिपदादेकत्वादिविशिष्टघटादिशाब्दबोधस्त्वलीक एव । तद्विषयकस्मरणस्य तत्रोपगमात् । तथाचोकं, सर्व हि वाक्यं क्रियायां परिसमाप्यते इत्यपि निरस्तम् । यादृशपदानां लक्षणया एकत्वादिविशिष्टस्वार्थबोधहेतुत्वं नोभयवादिसिद्धं तादृशानन्तपदजन्यविशिष्टोपस्थितीनां शाब्दधीहेतुता कल्पनमपेक्ष्य विभक्तिजन्य संख्योपस्थितीनामल्पानां तत्कल्पने लाघवात् । इदं पुनरिहावधेयम् विभक्तेः संख्या पस्थितिमात्रसत्त्व संभावनास्थलेशाब्दविलम्बानुत्पत्त्या देर्व कुंशक्यत्वान्नसंभवत्येवामा दिजन्यै कखोपस्थितिहेतुत्वमिति ॥ याचशयादृशपदानामित्यादि । अथ यादृश्यादृशेत्यादिना संख्योपस्थापकलक्षणामह विधुरतया संभावितमात्रं पदकदम्बं मसु किंचित्प्रदर्शितं तथाभूतमतः साच संभावनाघद्रः प्रमेयइतिस्थलवत्पुरुषकालयोरानन्त्यान्निखिलानुपूर्व्यवच्छिन्न संख्यालक्षकत्वसंभावनया विपरीतया निरुद्ध प्रसरैवस्यात्स्याद्वोपक्रान्तकल्पनासाहायकाचरणप्रच्याविता न यावत्संभावितपदानामुक्तघटादिपदतोवैलक्षण्यं प्रदर्श्यते नच तद्दर्शयितुं शक्यमित्युक्ताभिधानस्यासङ्गतिरितिचेत्पुरुष कालवच्छब्दस्याप्यानन्त्यात् केचन शब्दाः शक्तिमात्रेण व्यवहारतां केषांचिदेव वस्तृश्रोतॄणां श्रुतिपथगता नेतरेषामिति संभावनायाः प्रतिपक्षसंभावनानभिभूतायाः संभवात्संगतिरुक्ताभिधानस्येति गृहाण । यद्वा आधुनिकसंकेतिताः प्रकृतिप्रत्यय विभाग रहिताः केचनशब्दा गृहीतताहशसंकेतद्वित्रादिपुरुषमात्रगोचरास्तादृशास्संभाव्यन्ते । नच तत्र लक्षणासंभवः तन्मूलस्य पुरुषाभिप्रायस्य तत्प्रतिकूलस्यैव ग्रहणादिति संगतिरित्यत्र सन्तोष्टव्यम् 1 येषामेकशब्दस्य युगपद्वृत्तिद्वये विमतेः शाब्दबोधपूर्व - त्तिद्वयजन्योपस्थितिसद्भाव संपादनक्लेशवैफल्यमतेश्व विशिष्टे लक्षणा संप्रतिपत्तिः तन्मतमुपन्यस्य दूषयति-- एतेनेत्या दिना | ननु घटइत्यत्रषटपदस्यैकत्वविशिष्टलक्षकत्वे संप्रतिपन्नशाब्दबोधानुपपत्तिः तस्यपदार्थद्वयसंसर्गावगाहित्वनियमादतोघटपदाद्धटोपस्थितिरेकवचनाच्च संख्योपस्थितिः स्वीकरणीयेति विभक्तिजन्योपस्थितिकारणताकृप्तैवेति तवैवगौरवमतआह । पदान्तरासमभिव्याहृतेत्यादि । तथाच तत्र संख्याविशिष्टप्रतिपत्तिश्चेत्संप्रतिपन्ना कस्यचिल्लक्षणासंबन्धमहरूपोद्बोधकास्मृतिरेव शाब्दत्वेन तदनुभवच शब्दसमनन्तरजन्मरूपदोषजत्वाच्छाब्दत्वांशे भ्रमएवेति भावः । एतेनेत्यनेनातिदिष्टं दोषं विवृणोति । यादृशपदानामिति । इदं पुनरिहावधेयमिति । प्रदर्शितलाघवस्यानुपदाभिधीयमानगौरवेणा किंचित्करत्वे विभक्तेः संख्यायां शक्तिर्नसिद्ध्यति गौरवाद्विवक्षितप्रतिपत्तेर्लक्षणयापि संभवादिति भावः । इदन्तुचिन्त्यते शक्तिमाहकप्रमाणानि शक्ततावच्छेदकशक्यतावच्छेदकं लाघवगौरवप्रतिसंधानाभ्यामुपस्थितिहेतुलतदवच्छेदकत्वलाघवगौरवप्रहाभ्याञ्च सहकृतान्यर्थविशेषे शब्दविशेषस्य शक्तिपरिच्छिन्दन्ति नेतराणि परिकरीकुर्वन्ति शक्ततावच्छेदकशक्यतावच्छेदकयोः शरीरघटकत्वाद्वृत्तिकल्पनस्योपस्थित्यर्थत्वेनोपस्थितेश्चफलत्वाच्छक्तिकल्पनान्तरं गत्वात्तेषामेवोपस्थितत्वभौयेण तल्लाघवगौरवग्रहस्यापेक्षणीयत्वादन्यस्य तदानीमनुपस्थितत्वेन तलाघवगौरवस्यापेक्षणीयसाथ घटवापेक्षया कार्यान्वितघटत्वस्यशक्यतावच्छेदकस्यैव गुरुत्वादावापोद्वापाभ्यां प्राग्गृहीतापि शक्यतावच्छेदकतार्थवादस्थले कार्यत्वव्यभिचारदर्शनादायापोद्वापयोः क्षीणबलत्वेन शक्यतावच्छेदकगौरवग्रहेणैव त्याज्यते नान्येन व्यवस्थितायां च शक्तौपश्चाज्जायमानापि यतः कुतश्चिगौरवबुद्धिः फलमुखगौरव विषयकत्वाद किंचित्करीतादृशलाघव बुद्धिश्च परिपोषिकासिद्धस्यान्यथाभावकरणे तर्कशतस्याप्यसामर्थ्यात् यथा शब्दस्यानित्यत्वे साधकप्रमाणैः सिद्धे पश्चाज्जायमानापितसतत्प्रागभावानन्त्य कल्पनागौरवमतिरकिंचित्करी कथमन्यथा शब्दत्वावच्छिन्नं प्रति वायुविशेषादीनां कारणत्वापेक्षया शब्दप्रत्यक्षत्वावच्छिन्नंप्रतिकारणत्वे गौरवेणसत्तकोणीति बलवन्त्यनित्यत्वसाधक मानानि नतु तावदानन्त्यकल्पनागौरवेण महत्तरेणापि नित्यत्वसाधकानि प्रमाणानीति एवंच घटआनीयतां पटआनीयतां घटावनिय पटावानय तण्डुलान् पच यवान् पच तण्डुलैर्ब्राह्मणाँस्तोषय यस्तोषयेत्यादिभिरावापोद्वापिभिव्यवहारै कयोर्द्विवचनैकवचने बहुषु बहुवचनं कर्मणिद्वितीया कर्तृकरणयोस्तृतीयेत्या
SR No.008449
Book TitleVyutpattivada Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy